Tuesday, June 5, 2018

Atharvana veda sandya vandana mantra patam


Please download siddhanta font here:

अथर्व वेद सन्द्यावन्दनम्


आचमनम्:
अस्य आपसूक्तस्य ब्रह्मा आपः देवता आसुरी अनुष्टुप्, साम्नी एकावसाना अनुष्टुप्, आसुरी गायत्री, साम्नी उष्णिक् छन्दाम्सि आचमने विनियोगः
ॐ जी॒वा स्थ॑ जी॒व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥ (प्राशनम्)
ॐ उ॑पजी॒वा स्थोप॑ जीव्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥ (प्राशनम्)
ॐ सं॑जी॒वा स्थ॒ सं जी॑व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥(प्राशनम्)
ॐ जी॑व॒ला स्थ॑ जी॒व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥ (अङ्ग मार्जनम्)
इन्द्रजीवेति सूक्तस्य ब्रह्मा ऋषिः - इन्द्रादयोमन्त्रोक्ताः देवताः - गायत्री छन्दः आत्मानुमन्त्रणे विनियोगः
ॐ इन्द्र॒ जीव॒ सूर्य॒ जीव॒ देवा॒ जीवा॑ जी॒व्यास॑म॒हम् । सर्व॒मायु॑र्जीव्यासम् ॥ (हृदयमनुमन्त्रयेत्)

प्राणायामम्:
ॐ भूः ॐ भुवः ॐ सुवः ॐ जनत् ॐ वृधत् ॐ करत् ॐ गृहत् ॐ महत् ॐ तत् ॐ शं ॐ तत्सवितुर्वरेण्यम् भर्गोदेवस्यधीमहि धियोयोनःप्रचोदयात् - ॐ आपोज्योतीरसो अमृतं ब्रह्म भूर्भुवस्वरोम् ॥

सङ्कल्पम् ॥

प्रोक्षणम्:
आपोहिष्टेति मन्त्रस्य सिन्धुद्वीप ऋषिः अपन्नपात् सोम आपश्च देवताः - गायत्री छन्दः -मार्जने विनियोगः
(गायत्रिया प्रथम प्रोक्षणम्)
ॐ आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥
ॐ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॑श॒तीरि॑व मा॒तरः॑ ॥
ॐ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
ॐ ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् । अ॒पो या॑चामि भेष॒जम् ॥

प्राशनम्:
प्रातः
ॐ सूर्यश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः
पापेभ्यो रक्षन्तां यद्रात्र्या पापमकार्षं
मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना
रात्रिस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि
इदमहं माममृतयोनौ सूर्य्ये ज्योतिषि जुहोमि स्वाहा ॥

माध्याह्निकम्
ॐ आपः पुनन्तु पृथवीं पृथवीपूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ह्मपूता पुनातु माम् ॥
यदुच्छिष्टमभोज्यं च यद्वादुश्चरितं मम, सर्वां पुनन्तु मामापो सताञ्च प्रतिग्रहꣳस्वाहा ॥

सायम्:
ॐ अग्निश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः
पापेभ्यो रक्षन्तां यदह्ना पापमकार्षं
मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना
अहस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि
इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ॥

पुनःप्रोक्षणम्
आपोहिष्टेति मन्त्रस्य सिन्धुद्वीप ऋषिः अपन्नपात् सोम आपश्च देवताः - गायत्री छन्दः -मार्जने विनियोगः
ॐ आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥
ॐ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॑श॒तीरि॑व मा॒तरः॑ ॥
ॐ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
ॐ ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् । अ॒पो या॑चामि भेष॒जम् ॥

आचमनम्॥
प्राणायामम्॥
अर्घ्यम्
अर्घ्यप्रदान मन्त्रस्य विश्वामित्र ऋषि: देवीगायत्री छन्दः सविता देवता अर्घ्यप्रदाने विनियोगः
ॐ भूर्भुवस्सुव: तत्सवितुर्वरेण्यम् भर्गोदेवस्य धीमहि धियोयोनःप्रचोदयात्
प्रातः
अर्घ्य प्रदान मन्त्रस्य ब्रह्मा ऋषीः जगती छन्द: सूर्यो देवता
ॐ हरिः॑ सुप॒र्णो दिव॒मारु॑हो॒ ऽर्चिषा॒ ये त्वा॒ दिप्स॑न्ति॒ दिव॑मु॒त्पत॑न्तम् । अव॒ तां ज॑हि॒ हर॑सा जातवे॒दो ऽबि॑भ्यदु॒ग्रो ऽर्चिषा॒ दिव॒मा रो॑ह सूर्य ॥ (४ वारम् अर्घ्यम्)

माध्यन्दिनार्घ्यम् ॥
अस्य माध्याह्निक अर्घ्यप्रधान मन्त्रस्य ब्रह्मा ऋषि: आर्षी गायत्री त्रिष्टुप् छन्दाम्सि रोहितादित्य देवता अर्घ्यप्रधाने विनियोगः
ॐ उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृशे विश्वा॑य॒ सूर्य॑म् ॥ (१३..१६)
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒द्द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ (१३..३५)

सायम् अर्घ्यम् ॥
अस्य सायं अर्घ्यप्रधान मन्त्रस्य ब्रह्मा ऋषिः अतिजगती छन्दः जातवेदा, सूर्य, वज्र देवते सायं अर्घ्य प्रधाने विनियोगः
ॐ अयो॑जाला॒ असु॑रा मा॒यिनो॑ ऽय॒स्मयैः॒ पाशै॑र॒ङ्किनो॒ ये चर॑न्ति । तांस्ते॑ रन्धयामि॒ हर॑सा जातवेदः स॒हस्रऋ॑ष्टिः स॒पत्ना॑न्प्रमृ॒णन्पा॑हि॒ वज्रः॑ ॥१९.६६.

प्रायश्चित्तर्घ्यम् ॥
प्रात:
यदद्य इतिमन्त्रस्य शौनक ऋषिः गायत्री छन्दः सूर्यो देवता प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।।
ॐ यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य। सर्वं तदिन्द्र ते वशे॥२०.११२.
माध्याह्निक
उद्धेदभि इतिमन्त्रस्य सुकक्ष ऋषिः गायत्री छन्दः सूर्यो देवता प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।।
उद्धेदभि श्रुतामघं वृषमं नर्यापसम्। अस्तारमेषि सूर्य॥
सायम्
नतस्य इत्यस्य मन्त्रस्य विश्वमनाः ऋषीः। उष्णिक् छन्दः । अग्निर्देवता । प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।।
न तस्य मायया च न रिपुरीशीत मर्त्य। यो अग्नये ददाश हव्यदातये॥

प्रातरुपस्थानम्
अस्य प्रातरुपस्थान मन्त्रस्य अथर्वा ऋषिः चतुष्पदा जगती त्रिष्टुप् छन्दाम्सि मन्त्रोक्त देवताः प्रातरुपस्थाने विनियोगः
ॐ अभ॑यं नः करत्य॒न्तरि॑क्ष॒मभ॑यं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । अभ॑यं प॒श्चादभ॑यं पु॒रस्ता॑दुत्त॒राद॑ध॒रादभ॑यं नो अस्तु ॥
अभ॑यं मि॒त्रादभ॑यम॒मित्रा॒दभ॑यं ज्ञा॒तादभ॑यं पु॒रो यः । अभ॑यं॒ नक्त॒मभ॑यं दिवा नः॒ सर्वा॒ आशा॒ मम॑ मि॒त्रं भ॑वन्तु ॥

मध्यन्दिन उपस्थानम् (१३..-)
अस्य मन्ध्यन्दिनोपस्थान मन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्, जगती, त्रिष्टुप् छन्दाम्सि रोहितादित्य आयु, बृहस्पति, अश्विनीकुमार देवते, माध्यन्दिन उपस्थाने विनियोगः
ॐ उद॑स्य के॒तवो॑ दि॒वि शु॒क्रा भ्राज॑न्त ईरते । आ॑दि॒त्यस्य॑ नृ॒चक्ष॑सो॒ महि॑व्रतस्य मी॒ढुषः॑ ॥
दि॒शां प्र॒ज्ञानां॑ स्व॒रय॑न्तम॒र्चिषा॑ सुप॒क्षमा॒शुं प॒तय॑न्तमर्ण॒वे । स्तवा॑म॒ सूर्यं॒ भुव॑नस्य गो॒पां यो र॒श्मिभि॒र्दिश॑ आ॒भाति॒ सर्वाः॑ ॥
यत्प्राङ्प्र॒त्यङ्स्व॒धया॒ यासि॒ शीभं॒ नाना॑रूपे॒ अह॑नी॒ कर्षि॑ मा॒यया॑ । तदा॑दित्य॒ महि॒ तत्ते॒ महि॒ श्रवो॒ यदेको॒ विश्वं॒ परि॒ भूम॒ जाय॑से ॥
वि॑प॒श्चितं॑ त॒रणिं॒ भ्राज॑मानं॒ वह॑न्ति॒ यं ह॒रितः॑ स॒प्त ब॒ह्वीः । स्रु॒ताद्यमत्त्रि॒र्दिव॑मुन्नि॒नाय॒ तं त्वा॑ पश्यन्ति परि॒यान्त॑मा॒जिम् ॥
मा त्वा॑ दभन्परि॒यान्त॑मा॒जिं स्व॒स्ति दु॒र्गाँ अति॑ याहि॒ शीभ॑म् । दिवं॑ च सूर्य पृथि॒वीं च॑ दे॒वीम॑होरा॒त्रे वि॒मिमा॑नो॒ यदेषि॑ ॥
उद्व॒यं तम॑स॒स्परि॒ रोह॑न्तो॒ नाक॑मुत्त॒मम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ (.५५.)

सायम् उपस्थानम्
अस्य सायं उपस्थान मन्त्रस्य सुकक्ष ऋषिः इन्द्रो देवता गायत्री छन्दः सायम् उपस्थाने विनियोगः॥
ॐ उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् । अस्ता॑रमेषि सूर्य ॥ (२०..)

जपस्थलप्रोक्षणम्
ॐभूर्भुवस्सुवः
असावादित्योब्रह्म (सूर्य दर्शनम्)

आचमनम्

केशवादि तर्पणम् (यथा सम्प्रदायम् कुर्यात्)
केशवं तर्पयामि । नारायणं तर्पयामि । माधवं तर्पयामि ।
गोविन्दं तर्पयामि । विष्णुं तर्पयामि । मधुसूदनं तर्पयामि ।
त्रिविक्रमं तर्पयामि । वामनं तर्पयामि । श्रीधरं तर्पयामि ।
हृषीकेशं तर्पयामि । पद्मनाभं तर्पयामि । दामोदरं तर्पयामि ॥

आचमनम् ॥
प्राणायामम्
प्रणवस्य ब्रह्मा ऋषिः, देवीगायत्री छन्दः परमात्मा देवता । भूरादि व्याहृतीनाम् प्रजापति ऋषीः गायत्री त्रिष्टुप् क्रमॆण छन्दाम्सि अग्निवायुवादित्या देवता । जनदिति व्याहृतेः प्रजापति ऋषिः अनुष्टुप् छन्दः चन्द्रमा देवता । वृधत्करत्गृहन्महच्छमोमित्यासां प्रजापति ऋषिः बृहती छन्दः चित्ररथो देवता ।
गायत्रिया ऋषिः विश्वामित्र: देवीगायत्री छन्द: सविता देवता । गायत्रि शिरसः प्रजापति ऋषि: यजुश्छन्दः ब्रह्माग्निवायव्यादित्या देवताः प्राणायामे विनियोगः

ॐ भूः ॐ भुवः ॐ सुवः ॐ जनत् ॐ वृधत् ॐ करत् ॐ गृहत् ॐमहत् ॐ तत् ॐ शं ॐ तत्सवितुर्वरेण्यम् भर्गोदेवस्यधीमहि धियोयोनःप्रचोदयात् - ॐ आपोज्योतीरसो अमृतं ब्रह्म भूर्भुवस्वरोम् ॥

गायत्रि जपम् ।
आयात्विति अनुवाकस्य वामदेव ऋषिः अनुष्ठुप् छन्दः गायत्रि देवता, गायत्रि आवाहने विनियोगः
आयातु वरदादेवी अक्षरम् ब्रह्मसंमितम् । गायत्रीं छन्दसां माता इदं ब्रह्म जुषस्वनः।
ओजोसि सहोसि बलमसि भ्राजोसि देवानां धामनामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुः अभिभूरोम् गायत्रीं आवाहयामि ॥

(गायत्रि जपम्)
सावित्रिया ऋषिः विश्वामित्रः देवीगायत्री छन्द: सविता देवता
ॐभूर्भुवस्सुवः तत्सवितुर्वरेण्यम् भर्गोदेवस्यधीमहि धियोयोनःप्रचोदयात् ॥

(प्रार्थनम्)
आस्य प्रार्थन मन्त्रस्य ब्रह्मा ऋषिः सूर्यो देवता प्राजापत्या गायत्री छन्दः प्रार्थनायां विनियोगः
ॐ पश्ये॑म श॒रदः॑ श॒तम् ॥ ॐ जीवे॑म श॒रदः॑ श॒तम् ॥
ॐ बुध्ये॑म श॒रदः॑ श॒तम् ॥ ॐ रोहे॑म श॒रदः॑ श॒तम् ॥
ॐ पूषे॑म श॒रदः॑ श॒तम् ॥ ॐ भवे॑म श॒रदः॑ श॒तम् ॥
ॐ भूषे॑म श॒रदः॑ श॒तम् ॥ ॐ भूय॑सीः श॒रदः॑ श॒तम् ॥
इन्द्रजीवेति सूक्तस्य ब्रह्मा ऋषिः - इन्द्रादयोमन्त्रोक्ताः देवताः - गायत्री छन्दः आत्मानुमन्त्रणे विनियोगः
ॐ इन्द्र॒ जीव॒ सूर्य॒ जीव॒ देवा॒ जीवा॑ जी॒व्यास॑म॒हम् । सर्व॒मायु॑र्जीव्यासम् ॥ (हृदयमनुमन्त्रयेत्)

सावित्री विसर्जनम् ॥
अस्य श्री सावित्रि विसर्जन मन्त्रस्य ब्रह्मा ऋषिः त्र्यवसाना पञ्चपदा अतिजगती छन्दः सावित्रि देवता विसर्जने विनियोगः (उद्वासने विनियोगः)
ॐ स्तु॒ता मया॑ वर॒दा वे॑दमा॒ता प्र चो॑दयन्तां पावमा॒नी द्वि॒जाना॑म् । आयुः॑ प्रा॒णं प्र॒जां प॒शुं की॒र्तिं द्रवि॑णं ब्रह्मवर्च॒सम् । मह्यं॑ द॒त्त्वा व्र॑जत ब्रह्मलो॒कम् ॥(१९.७१.)

सन्ध्योपस्थानम् ॥
अस्य सन्ध्योपस्थान मन्त्रेषु अथर्वा ब्रह्मा भृग्वङ्गिरा ऋषयः अनुष्टुप् विराट् पुरस्ताद् बृहती, पुर उष्णिक्, आर्षी गायत्री, विराट् विषमा गायत्री त्र्यवसाना सप्तदा बृहतीगर्भा अतिशक्वरी त्रिष्टुप् छन्दाम्सि मन्त्रोक्त समस्त देवगण परमात्मा देवते सन्ध्योप्स्थाने विनियोगः

ॐ उ॒दीरा॑णा उ॒तासी॑ना॒स्तिष्ठ॑न्तः प्र॒क्राम॑न्तः । प॒द्भ्यां द॑क्षिणस॒व्याभ्यां॒ मा व्य॑थिष्महि॒ भूम्या॑म् ॥ (१२..२८)
सूर्य॑स्या॒वृत॑म॒न्वाव॑र्ते॒ दक्षि॑णा॒मन्वा॒वृत॑म् । सा मे॒ द्रवि॑णं यछतु॒ सा मे॑ ब्राह्मणवर्च॒सम् ॥ (१०..३७)
दिशो॒ ज्योति॑ष्मतीर॒भ्याव॑र्ते । ता मे॒ द्रवि॑णं यछन्तु॒ ता मे॑ ब्राह्मणवर्च॒सम् ॥
स॑प्तऋ॒षीन॒भ्याव॑र्ते । ते मे॒ द्रवि॑णं यछन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम् ॥
ब्रह्मा॒भ्याव॑र्ते । तन्मे॒ द्रवि॑णं यछन्तु॒ तन्मे॑ ब्राह्मणवर्च॒सम् ॥
अ॑सप॒त्नं पु॒रस्ता॑त्प॒श्चान्नो॒ अभ॑यं कृतम् । स॑वि॒ता मा॑ दक्षिण॒त उ॑त्त॒रान्मा॑ शची॒पतिः॑ ॥ १९.१६.
दि॒वो मा॑दि॒त्या र॑क्षतु॒ भूम्या॑ रक्षन्त्व॒ग्नयः॑ । इ॑न्द्रा॒ग्नी र॑क्षतां मा पु॒रस्ता॑द॒श्विना॑व॒भितः॒ शर्म॑ यछताम् । १९.१६.
ति॑र॒श्चीन॒घ्न्या र॑क्षतु जा॒तवे॑दा भूत॒कृतो॑ मे स॒र्वतः॑ सन्तु॒ वर्म॑ ॥ (१९.७२.)
यस्मा॒त्कोशा॑दु॒दभ॑राम॒ वेदं॒ तस्मि॑न्न॒न्तरव॑ दध्म एनम् । कृ॒तमि॒ष्टं ब्रह्म॑णो वी॒र्ये॑ण॒ तेन॑ मा देवा॒स्तप॑सावते॒ह ॥

सन्ध्यादि देवता वन्दनम्:
सन्ध्यायै नमः सावित्रियै नमः गायत्रियै नमः सरस्वत्यै नमः ।
सर्वाभ्यो देवताभ्यो नमः । कामो अकार्शीत् मन्युरकार्शीत् ।

अभिवादनम् ॥

दिग्वन्दनम्:
प्राच्यै नमः दक्षिणायै नमः प्रतीच्यै नमः उदीच्यै नम:
ऊर्ध्वाय नमः अधराय नमः अन्तरिक्षाय नम: भूम्यै नमः विष्णवे नम:

अभिवादनम् ॥

आचमनम्

सर्वं श्रीकृष्णार्पणमस्तु ॥

1 comment:

  1. उपयोगी पोस्ट हेतु धन्यवाद|

    ReplyDelete