Sunday, January 12, 2025

Atharva Veda Sarvakaama palaprada salilagana mantram (सलिल गण मन्त्राणि)

Kaushika sutram 3.7 - atha salilagaṇa ucyate - 'āpo hi ṣṭhāḥ', 'śanno devīḥ', 'brahma jajñānam' 'anāptā ye', 'sahasradhāra eva' (5.6.1-3), 'asya vāmasya', 'yo rohito vṛṣabha' dvyarcaṃ, 'udasya ketavaḥ', 'mūrdhāham', 'viṣāsahim' iti salilagaṇaḥ | asya gaṇasya vā upadhānaṃ ājyādi vā karoti athavā upasthānam | putrapaśudhanadhānyaratnagṛhapadātiaśvahastigomahiṣī- avivastrajātadravyādihiraṇyabhojana-ārāmadevapūjādi-uccāṭanavaśīkaraṇastambhanajambhanādi sarvaṃ salilagaṇena sidhyati | upadhānopasthānaṃ karoti sarvaphalakāmaḥ putrapaśudhānyādisarvakāmaḥ | ओ३म् आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।   म॒हे रणा॑य॒ चक्ष॑से ॥ ओ३म् यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।    उ॑श॒तीरि॑व मा॒तरः॑ ॥ ओ३म् तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।    आपो॑ ज॒नय॑था च नः ॥ ओ३म् ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् ।   अ॒पो या॑चामि भेष॒जम् ॥ ओ३म् शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥ ओ३म् अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वशं॑भुवम् ॥ ओ३म् आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॑३ मम॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥ ओ३म् शं न॒ आपो॑ धन्व॒न्या॑३ शमु॑ सन्त्वनू॒प्याः॑ । शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः । शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ॥ ओ३म् ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥ ओ३म् अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे । वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ॥ ओ३म् स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ । तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ॥ ओ३म् अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्नः॑ । तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥ ओ३म् स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा । त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ॥ ओ३म् इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वाः॑ । स॒प्त स्वसा॑रो अ॒भि सं न॑वन्त॒ यत्र॒ गवा॒म्निहि॑ता स॒प्त नाम॑ ॥ ओ३म् को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति । भूम्या॒ असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ॥ ओ३म् इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः । शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दा ऽपुः॑ ॥ ओ३म् पाकः॑ पृछामि॒ मन॒सा ऽवि॑जानन्दे॒वाना॑मे॒ना निहि॑ता प॒दानि॑ । व॒त्से ब॒ष्कये ऽधि॑ स॒प्त तन्तू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ॥ ओ३म् अचि॑कित्वांस्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्पृ॑छामि वि॒द्वनो॒ न वि॒द्वान् । वि यस्त॒स्तम्भ॒ षटि॒मा रजां॑स्य॒जस्य॑ रू॒पे किं अपि॑ स्वि॒देक॑म् ॥ ओ३म् मा॒ता पि॒तर॑मृ॒त आ ब॑भाज ऽधी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे । सा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी॑युः ॥ ओ३म् यु॒क्ता मा॒तासि॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो॑ वृज॒नीष्व॒न्तः । अमी॑मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं॑ त्रि॒षु योग॑नेषु ॥ ओ३म् ति॒स्रो म॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ उ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्त । म॒न्त्रय॑न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदो॒ वाच॒मवि॑श्वविन्नाम् ॥ ओ३म् पञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑ । तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न छि॑द्यते॒ सना॑भिः ॥ ओ३म् पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हुः॒ परे॒ अर्धे॑ पुरी॒षिण॑म् । अथे॒मे अ॒न्य उप॑रे विचक्ष॒णे स॒प्तच॑क्रे॒ षड॑र आहु॒रर्पि॑तम् ॥ ओ३म् द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ । आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥ ओ३म् सने॑मि च॒क्रम॒जरं॒ वि व॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति । सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑ ॥ ओ३म् स्त्रियः॑ स॒तीस्तामु॑ मे पुं॒सः आ॑हुः॒ पश्य॑दक्ष॒ण्वान्न्वि चे॑तद॒न्धः । क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥ ओ३म् सा॑कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षडिद्य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒श स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥ ओ३म् अ॒वः परे॑ण प॒र ए॒ना अव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् । सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व॑ स्वित्सूते न॒हि यू॒थे अ॒स्मिन् ॥ ओ३म् अ॒वः परे॑ण पि॒तरं॒ यो अ॑स्य॒ वेदा॒वः परे॑ण प॒र ए॒नाव॑रेण । क॑वी॒यमा॑नः॒ क इ॒ह प्र वो॑चद्दे॒वं मनः॒ कुतो॒ अधि॒ प्रजा॑तम् ॥ ओ३म् ये अ॒र्वाञ्च॒स्तामु॒ परा॑च आहु॒र्ये परा॑ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः । इन्द्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ॥ ओ३म् द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते । तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ॥ ओ३म् यस्मि॑न्वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे॑ । तस्य॒ यदा॒हुः पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ॥ ओ३म् यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भ॒क्षमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति । ए॒ना विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ॥ ओ३म् यद्गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भं वा॒ त्रैष्टु॑भान्नि॒रत॑क्षत । यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा॑नुशुः ॥ ओ३म् गा॑य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम् । वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे॑ण मिमते स॒प्त वाणीः॑ ॥ ओ३म् जग॑ता॒ सिन्धुं॑ दि॒व्य॑स्कभायद्रथंत॒रे सूर्यं॒ पर्य॑पश्यत् । गा॑य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हु॒स्ततो॑ म॒ह्ना प्र रि॑रिचे महि॒त्वा ॥ ओ३म् उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम् । श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ ऽभीद्धो॑ घ॒र्मस्तदु॒ षु प्र वो॑चत् ॥ ओ३म् हि॑ङ्कृण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒छन्ती॒ मन॑सा॒भ्यागा॑त् । दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥ ओ३म् गौर॑मीमेद॒भि व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणोन्मात॒वा उ॑ । सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥ ओ३म् अ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भिवृ॑ता॒ मिमा॑ति म॒युं ध्व॒सना॒वधि॑ श्रि॒ता । सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्या॑न्वि॒द्युद्भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ॥ ओ३म् अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या॑नाम् । जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥ ओ३म् वि॒धुं द॑द्रा॒णं स॑लि॒लस्य॑ पृ॒ष्ठे युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्य म॒मार॒ स ह्यः समा॑न ॥ ओ३म् य ईं॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ईं॑ द॒दर्श॒ हिरु॒गिन्नु तस्मा॑त् । स मा॒तुर्योना॒ परि॑वीतो अ॒न्तर्ब॑हुप्र॒जा निरृ॑ति॒रा वि॑वेश ॥ ओ३म् अप॑श्यं गो॒पाम॑नि॒पद्य॑मान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥ ओ३म् द्यौर्नः॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु॑र्नो मा॒ता पृ॑थि॒वी म॒हीयम् । उ॑त्ता॒नयो॑श्च॒म्वो॑३र्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥ ओ३म् पृ॒छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒छामि॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ । पृ॒छामि॒ विश्व॑स्य॒ भुव॑नस्य॒ नाभिं॑ पृ॒छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥ ओ३म् इ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ । अ॒यं य॒ज्ञो विश्व॑स्य॒ भुव॑नस्य॒ नाभि॑र्ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥ ओ३म् न वि जा॑नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि । य॒दा माग॑न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ॥ ओ३म् अपा॒ङ्प्राङे॑ति स्व॒धया॑ गृभी॒तो ऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः । ता शश्व॑न्ता विषू॒चीना॑ वि॒यन्ता॒ न्य॒न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ॥ ओ३म् स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठन्ति प्र॒दिशा॒ विध॑र्मणि । ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवन्ति वि॒श्वतः॑ ॥ ओ३म् ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः । यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्ते॑ अ॒मी समा॑सते ॥ ओ३म् ऋ॒चः प॒दं मात्र॑या क॒ल्पय॑न्तो ऽर्ध॒र्चेन॑ चक्ळृपु॒र्विश्व॒मेज॑त् । त्रि॒पाद्ब्रह्म॑ पुरु॒रूपं॒ वि त॑ष्ठे॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥ ओ३म् सू॑यव॒साद्भग॑वती॒ हि भू॒या अधा॑ व॒यं भग॑वन्तः स्याम । अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥ ओ३म् गौरिन्मि॑माय सलि॒लानि॒ तक्ष॑ती॒ एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ॥ ओ३म् कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति । तं आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वीं व्यू॑दुः ॥ ओ३म् अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत । गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्या ऋ॒तं पिप॑र्ति॒ अनृ॑तं॒ नि पा॑ति ॥ ओ३म् वि॒राड्वाग्वि॒राट्पृ॑थि॒वी वि॒राड॒न्तरि॑क्षं वि॒राट्प्र॒जाप॑तिः । वि॒राण्मृ॒त्युः सा॒ध्याना॑मधिरा॒जो ब॑भूव॒ तस्य॑ भू॒तं भव्यं॒ वशे॒ स मे॑ भू॒तं भव्यं॒ वशे॑ कृणोतु ॥ ओ३म् श॑क॒मयं॑ धू॒ममा॒राद॑पश्यं विषू॒वता॑ प॒र ए॒नाव॑रेण । उ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ॥ ओ३म् त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम् । विश्व॑म॒न्यो अ॑भि॒चष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ॥ ओ३म् च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति ॥ ओ३म् इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् । ए॒कं सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑तरिश्वानमाहुः ॥ ओ३म् यो रोहि॑तो वृष॒भस्ति॒ग्मशृ॑ङ्गः॒ पर्य॒ग्निं परि॒ सूर्यं॑ ब॒भूव॑ । यो वि॑ष्ट॒भ्नाति॑ पृथि॒वीं दिवं॑ च॒ तस्मा॑द्दे॒वा अधि॒ सृष्टीः॑ सृजन्ते ॥ ओ३म् रोहि॑तो॒ दिव॒मारु॑हन्मह॒तः पर्य॑र्ण॒वात् । सर्वो॑ रुरोह॒ रोहि॑तो॒ रुहः॑ ॥ ओ३म् उद॑स्य के॒तवो॑ दि॒वि शु॒क्रा भ्राज॑न्त ईरते । आ॑दि॒त्यस्य॑ नृ॒चक्ष॑सो॒ महि॑व्रतस्य मी॒ढुषः॑ ॥ ओ३म् दि॒शां प्र॒ज्ञानां॑ स्व॒रय॑न्तम॒र्चिषा॑ सुप॒क्षमा॒शुं प॒तय॑न्तमर्ण॒वे । स्तवा॑म॒ सूर्यं॒ भुव॑नस्य गो॒पां यो र॒श्मिभि॒र्दिश॑ आ॒भाति॒ सर्वाः॑ ॥ ओ३म् यत्प्राङ्प्र॒त्यङ्स्व॒धया॒ यासि॒ शीभं॒ नाना॑रूपे॒ अह॑नी॒ कर्षि॑ मा॒यया॑ । तदा॑दित्य॒ महि॒ तत्ते॒ महि॒ श्रवो॒ यदेको॒ विश्वं॒ परि॒ भूम॒ जाय॑से ॥ ओ३म् वि॑प॒श्चितं॑ त॒रणिं॒ भ्राज॑मानं॒ वह॑न्ति॒ यं ह॒रितः॑ स॒प्त ब॒ह्वीः । स्रु॒ताद्यमत्त्रि॒र्दिव॑मुन्नि॒नाय॒ तं त्वा॑ पश्यन्ति परि॒यान्त॑मा॒जिम् ॥ ओ३म् मा त्वा॑ दभन्परि॒यान्त॑मा॒जिं स्व॒स्ति दु॒र्गाँ अति॑ याहि॒ शीभ॑म् । दिवं॑ च सूर्य पृथि॒वीं च॑ दे॒वीम॑होरा॒त्रे वि॒मिमा॑नो॒ यदेषि॑ ॥ ओ३म् स्व॒स्ति ते॑ सूर्य च॒रसे॒ रथा॑य॒ येनो॒भावन्तौ॑ परि॒यासि॑ स॒द्यः । यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ॥ ओ३म् सु॒खं सू॑र्य॒ रथ॑मंशु॒मन्तं॑ स्यो॒नं सु॒वह्नि॒मधि॑ तिष्ठ वा॒जिन॑म् । यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ॥ ओ३म् स॒प्त सूर्यो॑ ह॒रितो॒ यात॑वे॒ रथे॒ हिर॑ण्यत्वचसो बृह॒तीर॑युक्त । अमो॑चि शु॒क्रो रज॑सः प॒रस्ता॑द्वि॒धूय॑ दे॒वस्तमो॒ दिव॒मारु॑हत् ॥ ओ३म् उत्के॒तुना॑ बृह॒ता दे॒व आग॒न्नपा॑वृ॒क्तमो॒ ऽभि ज्योति॑रश्रैत् । दि॒व्यः सु॑प॒र्णः स वी॒रो व्य॑ख्य॒ददि॑तेः पु॒त्रो भुव॑नानि॒ विश्वा॑ ॥ ओ३म् उ॒द्यन्र॒श्मीना त॑नुषे॒ विश्वा॑ रु॒पाणि॑ पुष्यसि । उ॒भा स॑मु॒द्रौ क्रतु॑ना॒ वि भा॑सि॒ सर्वां॑ल्लो॒कान्प॑रि॒भूर्भ्राज॑मानः ॥ ओ३म् पूर्वाप॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो ऽर्ण॒वम् । विश्वा॒न्यो भुव॑ना वि॒चष्टे॑ हैर॒ण्यैर॒न्यं ह॒रितो॑ वहन्ति ॥ ओ३म् दि॒वि त्वात्त्रि॑रधारय॒त्सूर्या॒ मासा॑य॒ कर्त॑वे । स ए॑षि॒ सुधृ॑त॒स्तप॒न्विश्वा॑ भू॒ताव॒चाक॑शत् ॥ ओ३म् उ॒भावन्तौ॒ सम॑र्षसि व॒त्सः सं॑मा॒तरा॑विव । न॒न्वे॑३तदि॒तः पु॒रा ब्रह्म॑ दे॒वा अ॒मी वि॑दुः ॥ ओ३म् यत्स॑मु॒द्रमनु॑ श्रि॒तं तत्सि॑षासति॒ सूर्यः॑ । अध्वा॑स्य॒ वित॑तो म॒हान्पूर्व॒श्चाप॑रश्च॒ यः ॥ ओ३म् तं समा॑प्नोति जू॒तिभि॒स्ततो॒ नाप॑ चिकित्सति । तेना॒मृत॑स्य भ॒क्षं दे॒वानां॒ नाव॑ रुन्धते ॥ ओ३म् उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृशे विश्वा॑य॒ सूर्य॑म् ॥ ओ३म् अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ । सूरा॑य वि॒श्वच॑क्षसे ॥ ओ३म् अदृ॑श्रन्नस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥ ओ३म् त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोचन ॥ ओ३म् प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षीः । प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥ ओ३म् येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥ ओ३म् वि द्यामे॑षि॒ रज॑स्पृ॒थ्वह॒र्मिमा॑नो अ॒क्तुभिः॑ । पश्य॒न्जन्मा॑नि सूर्य ॥ ओ३म् स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं विचक्ष॒णम् ॥ ओ३म् अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ । ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥ ओ३म् रोहि॑तो दिव॒मारु॑ह॒त्तप॑सा तप॒स्वी । स योनि॒मैति॒ स उ॑ जायते॒ पुनः॒ स दे॒वाना॒मधि॑पतिर्बभूव ॥ ओ३म् यो वि॒श्वच॑र्षणिरु॒त वि॒श्वतो॑मुखो॒ यो वि॒श्वत॑स्पाणिरु॒त वि॒श्वत॑स्पृथः । सं बा॒हुभ्यां॑ भरति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ॥ ओ३म् एक॑पा॒द्द्विप॑दो॒ भूयो॒ वि च॑क्र॒मे द्विपा॒त्त्रिपा॑दम॒भ्ये॑ति प॒श्चात् । द्विपा॑द्ध॒ षट्प॑दो॒ भूयो॒ वि च॑क्रमे॒ त एक॑पदस्त॒न्व॑१ समा॑सते ॥ ओ३म् अत॑न्द्रो या॒स्यन्ह॒रितो॒ यदास्था॒द्द्वे रू॒पे कृ॑णुते॒ रोच॑मानः । के॑तु॒मानु॒द्यन्त्सह॑मानो॒ रजां॑सि॒ विश्वा॑ आदित्य प्र॒वतो॒ वि भा॑सि ॥ ओ३म् बण्म॒हाँ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ अ॑सि । म॒हांस्ते॑ मह॒तो म॑हि॒मा त्वमा॑दित्य म॒हाँ अ॑सि ॥ ओ३म् रोच॑से दि॒वि रोच॑से अ॒न्तरि॑क्षे॒ पत॑ङ्ग पृथि॒व्यां रो॑चसे॒ रोच॑से अ॒प्स्व॑१न्तः । उ॒भा स॑मु॒द्रौ रुच्या॒ व्या॑पिथ दे॒वो दे॑वासि महि॒षः स्व॒र्जित् ॥ ओ३म् अ॒र्वाङ्प॒रस्ता॒त्प्रय॑तो व्य॒ध्व आ॒शुर्वि॑प॒श्चित्प॒तय॑न्पत॒ङ्गः । विष्णु॒र्विचि॑त्तः॒ शव॑साधि॒तिष्ठ॒न्प्र के॒तुना॑ सहते॒ विश्व॒मेज॑त् ॥ ओ३म् चि॒त्राश्चि॑कि॒त्वान्म॑हि॒षः सु॑प॒र्ण आ॑रो॒चय॒न्रोद॑सी अ॒न्तरि॑क्षम् । अ॑होरा॒त्रे परि॒ सूर्यं॒ वसा॑ने॒ प्रास्य॒ विश्वा॑ तिरतो वी॒र्या॑णि ॥ ओ३म् ति॒ग्मो वि॒भ्राज॑न्त॒न्व॑१ शिशा॑नो ऽरंग॒मासः॑ प्र॒वतो॒ ररा॑णः । ज्योति॑ष्मान्प॒क्षी म॑हि॒षो व॑यो॒धा विश्वा॒ आस्था॑त्प्र॒दिशः॒ कल्प॑मानः ॥ ओ३म् चि॒त्रं दे॒वाना॑म्के॒तुरनी॑कं॒ ज्योति॑ष्मान्प्र॒दिशः॒ सूर्य॑ उ॒द्यन् । दि॑वाक॒रो ऽति॑ द्यु॒म्नैस्तमां॑सि॒ विश्वा॑तारीद्दुरि॒तानि॑ शु॒क्रः ॥ ओ३म् चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒द्द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ ओ३म् उ॒च्चा पत॑न्तमरु॒णं सु॑प॒र्णं मध्ये॑ दि॒वस्त॒रणिं॒ भ्राज॑मानम् । पश्य॑म त्वा सवि॒तारं॒ यमा॒हुरज॑स्रं॒ ज्योति॒र्यद॑विन्द॒दत्त्रिः॑ ॥ ओ३म् दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णमदि॑त्याः पु॒त्रं ना॒थका॑म॒ उप॑ यामि भी॒तः । स नः॑ सूर्य॒ प्र ति॑र दी॒र्घमायु॒र्मा रि॑षाम सुम॒तौ ते॑ स्याम ॥ ओ३म् स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम् । स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑ ॥ ओ३म् रोहि॑तः का॒लो अ॑भव॒द्रोहि॒तो ऽग्रे॑ प्र॒जाप॑तिः । रोहि॑तो य॒ज्ञानां॒ मुखं॒ रोहि॑तः॒ स्व॑१राभ॑रत् ॥ ओ३म् रोहि॑तो लो॒को अ॑भव॒द्रोहि॒तो ऽत्य॑तप॒द्दिव॑म् । रोहि॑तो र॒श्मिभि॒र्भूमिं॑ समु॒द्रमनु॒ सं च॑रत् ॥ ओ३म् सर्वा॒ दिशः॒ सम॑चर॒द्रोहि॒तो ऽधि॑पतिर्दि॒वः । दिवं॑ समु॒द्रमाद्भूमिं॒ सर्वं॑ भू॒तं वि र॑क्षति ॥ ओ३म् आ॒रोह॑न्छु॒क्रो बृ॑ह॒तीरत॑न्द्रो॒ द्वे रू॒पे कृ॑णुते॒ रोच॑मानः । चि॒त्रश्चि॑कि॒त्वान्म॑हि॒षो वात॑माया॒ याव॑तो लो॒कान॒भि यद्वि॒भाति॑ ॥ ओ३म् अ॒भ्य॑१न्यदे॑ति॒ पर्य॒न्यद॑स्यते ऽहोरा॒त्राभ्यां॑ महि॒षः कल्प॑मानः । सूर्यं॑ व॒यं रज॑सि क्षि॒यन्तं॑ गातु॒विदं॑ हवामहे॒ नाध॑मानाः ॥ ओ३म् पृ॑थिवी॒प्रो म॑हि॒षो नाध॑मानस्य गा॒तुरद॑ब्धचक्षुः॒ परि॒ विश्वं॑ बभूव । विश्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ॥ ओ३म् पर्य॑स्य महि॒मा पृ॑थि॒वीं स॑मु॒द्रं ज्योति॑षा वि॒भ्राज॒न्परि॒ द्याम॒न्तरि॑क्षम् । सर्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ॥ ओ३म् अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षस॑म् । य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मछ॑ ॥ ओ३म् मू॒र्धाहं र॑यी॒णां मू॒र्धा स॑मा॒नानां॑ भूयासम् ॥ ओ३म् रु॒जश्च॑ मा वे॒नश्च॒ मा हा॑सिष्टां मू॒र्धा च॑ मा॒ विध॑र्मा च॒ मा हा॑सिष्टाम् ॥ ओ३म् उ॒र्वश्च॑ मा चम॒सश्च॒ मा हा॑सिष्टां ध॒र्ता च॑ मा ध॒रुण॑श्च॒ मा हा॑सिष्टाम् ॥ ओ३म् वि॑मो॒कश्च॑ मा॒र्द्रप॑विश्च॒ मा हा॑सिष्टामा॒र्द्रदा॑नुश्च मा मात॒रिश्वा॑ च॒ मा हा॑सिष्टाम् ॥ ओ३म् बृह॒स्पति॑र्म आ॒त्मा नृ॒मणा॒ नाम॒ हृद्यः॑ ॥ ओ३म् अ॑संता॒पं मे॒ हृद॑यमु॒र्वी गव्यू॑तिः समु॒द्रो अ॑स्मि॒ विध॑र्मणा ॥ ओ३म् नाभि॑र॒हं र॑यी॒णां नाभिः॑ समा॒नानां॑ भूयासम् ॥ ओ३म् स्वा॒सद॑सि सू॒षा अ॒मृतो॒ मर्त्ये॒श्वा ॥ ओ३म् मा मां प्रा॒णो हा॑सी॒न्मो अ॑पा॒नो ऽव॒हाय॒ परा॑ गात् ॥ ओ३म् सूर्यो॒ माह्नः॑ पात्व॒ग्निः पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षाद्य॒मो म॑नु॒ष्ये॑भ्यः॒ सर॑स्वती॒ पार्थि॑वेभ्यः ॥ ओ३म् प्राणा॑पनौ॒ मा मा॑ हासिष्ट॒म्मा जने॒ प्र मे॑षि ॥ ओ३म् स्व॒स्त्य॒द्योषसो॑ दो॒षस॑श्च॒ सर्व॑ आपः॒ सर्व॑गणो अशीय ॥ ओ३म् शक्व॑री स्थ प॒शवो॒ मोप॑ स्थेषुर्मि॒त्रावरु॑णौ मे प्राणापा॒नाव॒ग्निर्मे॒ दक्षं॑ दधातु ॥ ओ३म् वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान्भूयासम् ॥ ओ३म् वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यो दे॒वानां॑ भूयासम् ॥ ओ३म् वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यः प्र॒जानां॑ भूयासम् ॥ ओ३म् वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यह्प॑शू॒नां भू॑यासम् ॥ ओ३म् वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यः स॑मा॒नानां॑ भूयासम् ॥ ओ३म् उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि । द्वि॒षंश्च॒ मह्यं॒ रध्य॑तु॒ मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि । आंश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिं कृ॑धि॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् मा त्वा॑ दभन्त्सलि॒ले अ॒प्स्व॑१न्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑ । हि॒त्वाश॑स्तिं॒ दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् त्वं न॑ इन्द्र मह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् त्वं न॑ इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शंत॑मो भव । आ॒रोहं॑स्त्रिदि॒वं दि॒वो गृ॑णा॒नः सोम॑पीतये प्रि॒यधा॑मा स्व॒स्तये॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् त्वमि॑न्द्रासि विश्व॒जित्स॑र्व॒वित्पु॑रुहू॒तस्त्वमि॑न्द्र । त्वमि॑न्द्रे॒मं सु॒हवं॒ स्तोम॒मेर॑यस्व॒ स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् अद॑ब्धो दि॒वि पृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे । अ॑दब्धेन॒ ब्रह्म॑णा वावृधा॒नः स त्वं न॑ इन्द्र दि॒वि सं छर्म॑ यछ॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् या त॑ इन्द्र त॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या ते॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑ । यये॑न्द्र त॒न्वा॑३ ऽन्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॑३ शर्म॒ यछ॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् त्वामि॑न्द्र॒ ब्रह्म॑णा व॒र्धय॑न्तः स॒त्त्रं नि षे॑दु॒रृष॑यो॒ नाध॑माना॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् त्वं तृ॒तं त्वं पर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विदं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् त्वं र॑क्षसे प्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि । त्वमि॒मा विश्वा॒ भुव॒नानु॑ तिष्ठस ऋ॒तस्य॒ पन्था॒मन्वे॑षि वि॒द्वांस्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् प॒ञ्चभिः॒ परा॑ङ्तप॒स्येक॑या॒र्वाङश॑स्तिमेषि सु॒दिने॒ बाध॑मान॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् त्वमिन्द्र॒स्त्वम्म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः । तुभ्यं॑ य॒ज्ञो वि ता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् अस॑ति॒ सत्प्रति॑ष्ठितं स॒ति भू॒तं प्रति॑ष्ठितम् । भू॒तम्ह॒ भव्य॒ आहि॑तं॒ भव्यं॑ भू॒ते प्रति॑ष्ठितं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् शु॒क्रो ऽसि॑ भ्रा॒जो ऽसि॑ । स यथा॒ त्वं भ्राज॑ता भ्रा॒जो ऽस्ये॒वाहं भ्राज॑ता भ्राज्यासम् ॥ ओ३म् रुचि॑रसि रो॒चो ऽसि॑ । स यथा॒ त्वं रुच्या॑ रो॒चो ऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ च रुचिषीय ॥ ओ३म् उ॑द्य॒ते नम॑ उदाय॒ते नम॒ उदि॑ताय॒ नमः॑ । वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑ ॥ ओ३म् अ॑स्तंय॒ते नमो॑ ऽस्तमेष्य॒ते नमो॑ ऽस्तमिताय॒ नमः॑ । वि॒राजे॒ नमः॑ स्व॒राजे॒ नम॑ह्स॒म्राजे॒ नमः॑ ॥ ओ३म् उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह । स॒पत्ना॒न्मह्यं॑ र॒न्धय॒न्मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ ओ३म् आदि॑त्य॒ नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑ । अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑ पारय ॥ ओ३म् सू॑र्य नावमारुक्षः श॒तारि॑त्रां स्व॒स्तये॑ । रात्रिं॒ मात्य॑पीप॒रो ऽहः॑ स॒त्राति॑ पारय ॥ ओ३म् प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च । ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ॥ ओ३म् परि॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒हम्क॑श्यपस्य॒ ज्योति॑षा॒ वर्च॑सा च । मा मा॒ प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ॥ ओ३म् ऋ॒तेन॑ गु॒प्त ऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम् । मा मा॒ प्राप॑त्पा॒प्मा मोत मृ॒त्युर॒न्तर्द॑धे॒ ऽहं स॑लि॒लेन॑ वा॒चः ॥ ओ३म् अ॒ग्निर्मा॑ गो॒प्ता परि॑ पातु वि॒श्वतः॑ उ॒द्यन्त्सूर्यो॑ नुदतां मृत्युपा॒शान् । व्यु॒छन्ती॑रु॒षसः॒ पर्व॑ता ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम् ॥

Tuesday, April 6, 2021

Atharva veda Navagraha Suktam (Ref. Shanthi Kalpam)(Saunaka Sakha - 17.1.1-30)

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान्भूयासम् ॥ वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यो दे॒वानां॑ भूयासम् ॥ वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यः प्र॒जानां॑ भूयासम् ॥ वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यह्प॑शू॒नां भू॑यासम् ॥ वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यः स॑मा॒नानां॑ भूयासम् ॥ उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि । द्वि॒षंश्च॒ मह्यं॒ रध्य॑तु॒ मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि । आंश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिं कृ॑धि॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ मा त्वा॑ दभन्त्सलि॒ले अ॒प्स्व॑१न्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑ । हि॒त्वाश॑स्तिं॒ दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ त्वं न॑ इन्द्र मह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ त्वं न॑ इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शंत॑मो भव । आ॒रोहं॑स्त्रिदि॒वं दि॒वो गृ॑णा॒नः सोम॑पीतये प्रि॒यधा॑मा स्व॒स्तये॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ त्वमि॑न्द्रासि विश्व॒जित्स॑र्व॒वित्पु॑रुहू॒तस्त्वमि॑न्द्र । त्वमि॑न्द्रे॒मं सु॒हवं॒ स्तोम॒मेर॑यस्व॒ स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ अद॑ब्धो दि॒वि पृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे । अ॑दब्धेन॒ ब्रह्म॑णा वावृधा॒नः स त्वं न॑ इन्द्र दि॒वि सं छर्म॑ यछ॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ या त॑ इन्द्र त॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या ते॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑ । यये॑न्द्र त॒न्वा॑३ ऽन्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॑३ शर्म॒ यछ॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ त्वामि॑न्द्र॒ ब्रह्म॑णा व॒र्धय॑न्तः स॒त्त्रं नि षे॑दु॒रृष॑यो॒ नाध॑माना॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ त्वं तृ॒तं त्वं पर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विदं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ त्वं र॑क्षसे प्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि । त्वमि॒मा विश्वा॒ भुव॒नानु॑ तिष्ठस ऋ॒तस्य॒ पन्था॒मन्वे॑षि वि॒द्वांस्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ प॒ञ्चभिः॒ परा॑ङ्तप॒स्येक॑या॒र्वाङश॑स्तिमेषि सु॒दिने॒ बाध॑मान॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ त्वमिन्द्र॒स्त्वम्म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः । तुभ्यं॑ य॒ज्ञो वि ता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ अस॑ति॒ सत्प्रति॑ष्ठितं स॒ति भू॒तं प्रति॑ष्ठितम् । भू॒तम्ह॒ भव्य॒ आहि॑तं॒ भव्यं॑ भू॒ते प्रति॑ष्ठितं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ शु॒क्रो ऽसि॑ भ्रा॒जो ऽसि॑ । स यथा॒ त्वं भ्राज॑ता भ्रा॒जो ऽस्ये॒वाहं भ्राज॑ता भ्राज्यासम् ॥ रुचि॑रसि रो॒चो ऽसि॑ । स यथा॒ त्वं रुच्या॑ रो॒चो ऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ च रुचिषीय ॥ उ॑द्य॒ते नम॑ उदाय॒ते नम॒ उदि॑ताय॒ नमः॑ । वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑ ॥ अ॑स्तंय॒ते नमो॑ ऽस्तमेष्य॒ते नमो॑ ऽस्तमिताय॒ नमः॑ । वि॒राजे॒ नमः॑ स्व॒राजे॒ नम॑ह्स॒म्राजे॒ नमः॑ ॥ उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह । स॒पत्ना॒न्मह्यं॑ र॒न्धय॒न्मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ आदि॑त्य॒ नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑ । अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑ पारय ॥ सू॑र्य नावमारुक्षः श॒तारि॑त्रां स्व॒स्तये॑ । रात्रिं॒ मात्य॑पीप॒रो ऽहः॑ स॒त्राति॑ पारय ॥ प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च । ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ॥ परि॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒हम्क॑श्यपस्य॒ ज्योति॑षा॒ वर्च॑सा च । मा मा॒ प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ॥ ऋ॒तेन॑ गु॒प्त ऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम् । मा मा॒ प्राप॑त्पा॒प्मा मोत मृ॒त्युर॒न्तर्द॑धे॒ ऽहं स॑लि॒लेन॑ वा॒चः ॥ अ॒ग्निर्मा॑ गो॒प्ता परि॑ पातु वि॒श्वतः॑ उ॒द्यन्त्सूर्यो॑ नुदतां मृत्युपा॒शान् । व्यु॒छन्ती॑रु॒षसः॒ पर्व॑ता ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम् ॥

Tuesday, December 31, 2019

Atharvana Suktas in Tamil Script - Rudram

Proper display of the some of the text below may depend on webfonts, which in turn require being connected to the internet. Here is the pdf

ருத்₃ர॒ ஜலா॑ஷபே₄ஷஜ॒ நீல॑ஶிக₂ண்ட₃॒ கர்ம॑க்ருʼத் ।ப்ராஶம்॒ʼ ப்ரதி॑ப்ராஶோ ஜஹ்யர॒ஸான்க்ரு॑ʼண்வோஷதே₄ ॥

யே॑3 (அ)ஸ்யாம்ʼ ஸ்த₂ ப்ராச்யாம்॑ʼ தி₃॒ஶி ஹே॒தயோ॒ நாம॑ தே₃॒வாஸ்தேஷாம்॑ʼ வோ அ॒க்₃னிரி॑ஷவ꞉ । தே நோ॑ ம்ருʼட₃த॒ தே நோ (அ)தி₄॑ ப்₃ரூத॒ தேப்₄யோ॑ வோ॒ நம॒ஸ்தேப்₄யோ॑ வ॒꞉ ஸ்வாஹா॑ ॥

யே॑3 (அ)ஸ்யாம்ʼ ஸ்த₂ த₃க்ஷி॑ணாயாம்ʼ தி₃॒ஶ்ய॑வி॒ஷ்யவோ॒ நாம॑ தே₃॒வாஸ்தேஷாம்॑ʼ வ॒꞉ காம॒ இஷ॑வ꞉ । தே நோ॑ ம்ருʼட₃த॒ தே நோ (அ)தி₄॑ ப்₃ரூத॒ தேப்₄யோ॑ வோ॒ நம॒ஸ்தேப்₄யோ॑ வ॒꞉ ஸ்வாஹா॑ ॥

யே॑3 (அ)ஸ்யாம்ʼ ஸ்த₂ ப்ர॒தீச்யாம்॑ʼ தி₃॒ஶி வை॑ரா॒ஜா நாம॑ தே₃॒வாஸ்தேஷாம்॑ʼ வ॒ ஆப॒ இஷ॑வ꞉ । தே நோ॑ ம்ருʼட₃த॒ தே நோ (அ)தி₄॑ ப்₃ரூத॒ தேப்₄யோ॑ வோ॒ நம॒ஸ்தேப்₄யோ॑ வ॒꞉ ஸ்வாஹா॑ ॥

யே॑3 (அ)ஸ்யாம்ʼ ஸ்தோ₂தீ₃॑ச்யாம்ʼ தி₃॒ஶி ப்ர॒வித்₄ய॑ந்தோ॒ நாம॑ தே₃॒வாஸ்தேஷாம்॑ʼ வோ॒ வாத॒ இஷ॑வ꞉ । தே நோ॑ ம்ருʼட₃த॒ தே நோ (அ)தி₄॑ ப்₃ரூத॒ தேப்₄யோ॑ வோ॒ நம॒ஸ்தேப்₄யோ॑ வ॒꞉ ஸ்வாஹா॑ ॥

யே॑3 (அ)ஸ்யாம்ʼ ஸ்த₂ த்₄ரு॒வாயாம்॑ʼ தி₃॒ஶி நி॑லி॒ம்பா நாம॑ தே₃॒வாஸ்தேஷாம்॑ʼ வ॒ ஓஷ॑தீ₄॒ரிஷ॑வ꞉ । தே நோ॑ ம்ருʼட₃த॒ தே நோ (அ)தி₄॑ ப்₃ரூத॒ தேப்₄யோ॑ வோ॒ நம॒ஸ்தேப்₄யோ॑ வ॒꞉ ஸ்வாஹா॑ ॥

யே॑3 (அ)ஸ்யாம்ʼ ஸ்தோ₂ர்த்₄வாயாம்॑ʼ தி₃॒ஶ்யவ॑ஸ்வந்தோ॒ நாம॑ தே₃॒வாஸ்தேஷாம்॑ʼ வோ॒ ப்₃ருʼஹ॒ஸ்பதி॒ரிஷ॑வ꞉ । தே நோ॑ ம்ருʼட₃த॒ தே நோ (அ)தி₄॑ ப்₃ரூத॒ தேப்₄யோ॑ வோ॒ நம॒ஸ்தேப்₄யோ॑ வ॒꞉ ஸ்வாஹா॑ ॥

ப்ராசீ॒ தி₃க₃॒க்₃னிரதி₄॑பதிரஸி॒தோ ர॑க்ஷி॒தாதி₃॒த்யா இஷ॑வ꞉ । தேப்₄யோ॒ நமோ (அ)தி₄॑பதிப்₄யோ॒ நமோ॑ ரக்ஷி॒த்ருʼப்₄யோ॒ நம॒ இஷு॑ப்₄யோ॒ நம॑ ஏப்₄யோ அஸ்து । யோ॑3 (அ)ஸ்மாந்த்₃வேஷ்டி॒ யம்ʼ வ॒யம்ʼ த்₃வி॒ஷ்மஸ்தம்ʼ வோ॒ ஜம்பே₄॑ த₃த்₄ம꞉ ॥

த₃க்ஷி॑ணா॒ தி₃கி₃ந்த்₃ரோ॑ (அ)தி₄பதி॒ஸ்திர॑ஶ்சிராஜீ ரக்ஷி॒தா பி॒தர॒ இஷ॑வ꞉ । தேப்₄யோ॒ நமோ॑ (அ)தி₄பதிப்₄யோ॒ நமோ॑ ரக்ஷி॒த்ருʼப்₄யோ॒ நம॒ இஷு॑ப்₄யோ॒ நம॑ ஏப்₄யோ அஸ்து । யோ॑3 (அ)ஸ்மாந்த்₃வேஷ்டி॒ யம்ʼ வ॒யம்ʼ த்₃வி॒ஷ்மஸ்தம்ʼ வோ॒ ஜம்பே₄॑ த₃த்₄ம꞉ ॥

ப்ர॒தீசீ॒ தி₃க்₃வரு॒ணோ (அ)தி₄॑பதி॒꞉ ப்ருʼதா₃॑கூ ரக்ஷி॒தான்ன॒மிஷ॑வ꞉ । தேப்₄யோ॒ நமோ॑ (அ)தி₄பதிப்₄யோ॒ நமோ॑ ரக்ஷி॒த்ருʼப்₄யோ॒ நம॒ இஷு॑ப்₄யோ॒ நம॑ ஏப்₄யோ அஸ்து । யோ॑3 (அ)ஸ்மாந்த்₃வேஷ்டி॒ யம்ʼ வ॒யம்ʼ த்₃வி॒ஷ்மஸ்தம்ʼ வோ॒ ஜம்பே₄॑ த₃த்₄ம꞉ ॥

உதீ₃॑சீ॒ தி₃க்ஸோமோ (அ)தி₄॑பதி꞉ ஸ்வ॒ஜோ ர॑க்ஷி॒தாஶனி॒ரிஷ॑வ꞉ । தேப்₄யோ॒ நமோ॑ (அ)தி₄பதிப்₄யோ॒ நமோ॑ ரக்ஷி॒த்ருʼப்₄யோ॒ நம॒ இஷு॑ப்₄யோ॒ நம॑ ஏப்₄யோ அஸ்து । யோ॑3 (அ)ஸ்மாந்த்₃வேஷ்டி॒ யம்ʼ வ॒யம்ʼ த்₃வி॒ஷ்மஸ்தம்ʼ வோ॒ ஜம்பே₄॑ த₃த்₄ம꞉ ॥

த்₄ரு॒வா தி₃க்₃விஷ்ணு॒ரதி₄॑பதி꞉ க॒ல்மாஷ॑க்₃ரீவோ ரக்ஷி॒தா வீ॒ருத₄॒ இஷ॑வ꞉ । தேப்₄யோ॒ நமோ॑ (அ)தி₄பதிப்₄யோ॒ நமோ॑ ரக்ஷி॒த்ருʼப்₄யோ॒ நம॒ இஷு॑ப்₄யோ॒ நம॑ ஏப்₄யோ அஸ்து । யோ॑3 (அ)ஸ்மாந்த்₃வேஷ்டி॒ யம்ʼ வ॒யம்த்₃வி॒ஷ்மஸ்தம்ʼ வோ॒ ஜம்பே₄॑ த₃த்₄ம꞉ ॥

ஊ॒ர்த்₄வா தி₃க்₃ப்₃ருʼஹ॒ஸ்பதி॒ரதி₄॑பதி꞉ ஶ்வி॒த்ரோ ர॑க்ஷி॒தா வ॒ர்ஷமிஷ॑வ꞉ । தேப்₄யோ॒ நமோ॑ (அ)தி₄பதிப்₄யோ॒ நமோ॑ ரக்ஷி॒த்ருʼப்₄யோ॒ நம॒ இஷு॑ப்₄யோ॒ நம॑ ஏப்₄யோ அஸ்து । யோ॑3 (அ)ஸ்மாந்த்₃வேஷ்டி॒ யம்ʼ வ॒யம்ʼ த்₃வி॒ஷ்மஸ்தம்ʼ வோ॒ ஜம்பே₄॑ த₃த்₄ம꞉ ॥

உதி₃॒தஸ்த்ரயோ॑ அக்ரமன்வ்யா॒க்₄ர꞉ புரு॑ஷோ॒ வ்ருʼக॑꞉ । ஹிரு॒க்₃கி₄ யந்தி॒ ஸிந்த₄॑வோ॒ ஹிரு॑க்₃தே₃॒வோ வன॒ஸ்பதி॒ர்ஹிரு॑ங்னமந்து॒ ஶத்ர॑வ꞉ ॥

பரே॑ணைது ப॒தா₂ வ்ருʼக॑꞉ பர॒மேணோ॒த தஸ்க॑ர꞉ । பரே॑ண த₃॒த்வதீ॒ ரஜ்ஜு॒꞉ பரே॑ணாகா₄॒யுர॑ர்ஷது ॥

அ॒க்ஷ்யௌ॑ ச தே॒ முக₂ம்॑ʼ ச தே॒ வ்யாக்₄ர॑ ஜம்ப₄யாமஸி । ஆத்ஸர்வா॑ந்விம்ʼஶ॒திம்ʼ ந॒கா₂ன் ॥

வ்யா॒க்₄ரம்ʼ த₃॒த்வதாம்॑ʼ வ॒யம்ʼ ப்ர॑த₂॒மம்ʼ ஜ॑ம்ப₄யாமஸி । ஆது₃॑ ஷ்டே॒நமதோ₂॒ அஹிம்॑ʼ யாது॒தா₄ன॒மதோ₂॒ வ்ருʼக॑ம் ॥

யோ அ॒த்₃ய ஸ்தே॒ந ஆய॑தி॒ ஸ ஸம்பி॑ஷ்டோ॒ அபா॑யதி । ப॒தா₂ம॑பத்₄வம்॒ʼஸேனை॒த்விந்த்₃ரோ॒ வஜ்ரே॑ண ஹந்து॒ தம் ॥

மூ॒ர்ணா ம்ரு॒ʼக₃ஸ்ய॒ த₃ந்தா॒ அபி॑ஶீர்ணா உ ப்ரு॒ʼஷ்டய॑꞉ । நி॒ம்ருக்தே॑ கோ₃॒தா₄ ப₄॑வது நீ॒சாய॑ச்ச₂ஶ॒யுர்ம்ரு॒ʼக₃꞉ ॥

யத்ஸம்॒ʼயமோ॒ ந வி ய॑மோ॒ வி ய॑மோ॒ யன்ன ஸம்॒ʼயம॑꞉ । இ॑ந்த்₃ர॒ஜாஹ்ஸோ॑ம॒ஜா ஆ॑த₂ர்வ॒ணம॑ஸி வ்யாக்₄ர॒ஜம்ப₄॑நம் ॥

ப₄வா॑ஶர்வௌ ம॒ந்வே வாம்॒ʼ தஸ்ய॑ வித்தம்॒ʼ யயோ॑ர்வாமி॒த₃ம்ʼ ப்ர॒தி₃ஶி॒ யத்₃வி॒ரோச॑தே । யாவ॒ஸ்யேஶா॑தே₂ த்₃வி॒பதோ₃॒ யௌ சது॑ஷ்பத₃॒ஸ்தௌ நோ॑ முஞ்சத॒மம்ʼஹ॑ஸ꞉ ॥

யயோ॑ரப்₄ய॒ப்₄வ உ॒த யத்₃தூ₃॒ரே சி॒த்₃யௌ வி॑தி₃॒தாவி॑ஷு॒ப்₄ருʼதா॒மஸி॑ஷ்டௌ₂ । யாவ॒ஸ்யேஶ॑தே₂ த்₃வி॒பதோ₃॒ யௌ சது॑ஷ்பத₃॒ஸ்தௌ நோ॑ முஞ்சத॒மம்ʼஹ॑ஸ꞉ ॥

ஸ॑ஹஸ்ரா॒க்ஷௌ வ்ரு॑ʼத்ர॒ஹனா॑ ஹுவே॒ஹம்ʼ தூ₃॒ரேக₃॑வ்யூதீ ஸ்து॒வன்னே॑ம்யு॒க்₃ரௌ । யாவ॒ஸ்யேஶ॑தே₂ த்₃வி॒பதோ₃॒ யௌ சது॑ஷ்பத₃॒ஸ்தௌ நோ॑ முஞ்சத॒மம்ʼஹ॑ஸ꞉ ॥

யாவா॑ரே॒பா₄தே₂॑ ப₃॒ஹு ஸா॒கமக்₃ரே॒ ப்ர சேத₃ஸ்ரா॑ஷ்ட்ரமபி₄॒பா₄ம்ʼ ஜனே॑ஷு । யாவ॒ஸ்யேஶ॑தே₂ த்₃வி॒பதோ₃॒ யௌ சது॑ஷ்பத₃॒ஸ்தௌ நோ॑ முஞ்சத॒மம்ʼஹ॑ஸ꞉ ॥

யயோ॑ர்வ॒தா₄ன்னாப॒பத்₃ய॑தே॒ கஶ்ச॒நாந்தர்தே₃॒வேஷூ॒த மானு॑ஷேஷு । யாவ॒ஸ்யேஶ॑தே₂ த்₃வி॒பதோ₃॒ யௌ சது॑ஷ்பத₃॒ஸ்தௌ நோ॑ முஞ்சத॒மம்ʼஹ॑ஸ꞉ ॥

ய꞉ க்ரு॑ʼத்யா॒க்ருʼன்மூ॑ல॒க்ருʼத்₃யா॑து॒தா₄னோ॒ நி தஸ்மி॑ந்த₄த்தம்॒ʼ வஜ்ர॑மு॒க்₃ரௌ । யாவ॒ஸ்யேஶ॑தே₂ த்₃வி॒பதோ₃॒ யௌ சது॑ஷ்பத₃॒ஸ்தௌ நோ॑ முஞ்சத॒மம்ʼஹ॑ஸ꞉ ॥

அதி₄॑ நோ ப்₃ரூதம்॒ʼ ப்ருʼத॑நாஸூக்₃ரௌ॒ ஸம்ʼ வஜ்ரே॑ண ஸ்ருʼஜதம்॒ʼ ய꞉ கி॑மீ॒தீ₃ । ஸ்தௌமி॑ ப₄வாஶ॒ர்வௌ நா॑தி₂॒தோ ஜோ॑ஹவீமி॒ தௌ நோ॑ முஞ்சத॒மம்ʼஹ॑ஸ꞉ ॥

ப்₃ரஹ்ம॑ ஜஜ்ஞா॒நம்ʼ ப்ர॑த₂॒மம்ʼ பு॒ரஸ்தா॒த்₃வி ஸீ॑ம॒த꞉ ஸு॒ருசோ॑ வே॒ந ஆ॑வ꞉ । ஸ பு₃॒த்₄ன்யா॑ உப॒மா அ॑ஸ்ய வி॒ஷ்டா₂꞉ ஸ॒தஶ்ச॒ யோனி॒மஸ॑தஶ்ச॒ வி வ॑꞉ ॥

இ॒யம்ʼ பித்ர்யா॒ ராஷ்ட்ர்யே॒த்வக்₃ரே॑ ப்ரத₂॒மாய॑ ஜ॒நுஷே॑ பு₄வனே॒ஷ்டா₂꞉ । தஸ்மா॑ ஏ॒தம்ʼ ஸு॒ருசம்॑ʼ ஹ்வா॒ரம॑ஹ்யம்ʼ க₄॒ர்மம்ʼ ஶ்ரீ॑ணந்து ப்ரத₂॒மாய॑ தா₄॒ஸ்யவே॑ ॥

ப்ர யோ ஜ॒ஜ்ஞே வி॒த்₃வான॑ஸ்ய॒ ப₃ந்து₄॒ர்விஶ்வா॑ தே₃॒வானாம்॒ʼ ஜனி॑மா விவக்தி । ப்₃ரஹ்ம॒ ப்₃ரஹ்ம॑ண॒ உஜ்ஜ॑பா₄ர॒ மத்₄யா॑ந்னி॒சைரு॒ச்சை꞉ ஸ்வ॒தா₄ அ॒பி₄ ப்ர த॑ஸ்தௌ₂ ॥

ஸ ஹி வி॒த₃꞉ ஸ ப்ரு॑ʼதி₂॒வ்யா ரு॑ʼத॒ஸ்தா₂ ம॒ஹீ க்ஷேமம்॒ʼ ரோத₃॑ஸீ அஸ்கபா₄யத் । ம॒ஹான்ம॒ஹீ அஸ்க॑பா₄ய॒த்₃வி ஜா॒தோ த்₃யாம்ʼ ஸத்₃ம॒ பார்தி₂॑வம்ʼ ச॒ ரஜ॑꞉ ॥

ஸ பு₄॒த்₄ன்யாதா₃॑ஷ்ட்ர ஜ॒நுஷோ॒ (அ)ப்₄யக்₃ர॒ம்ப்₃ருʼஹ॒ஸ்பதி॑ர்தே₃॒வதா॒ தஸ்ய॑ ஸ॒ம்ராட் । அஹ॒ர்யச்சு₂॒க்ரம்ʼ ஜ்யோதி॑ஷோ॒ ஜனி॒ஷ்டாத₂॑ த்₃யு॒மந்தோ॒ வி வ॑ஸந்து॒ விப்ரா॑꞉ ॥

நூ॒நம்ʼ தத₃॑ஸ்ய கா॒வ்யோ ஹி॑நோதி ம॒ஹோ தே₃॒வஸ்ய॑ பூ॒ர்வ்யஸ்ய॒ தா₄ம॑ । ஏ॒ஷ ஜ॑ஜ்ஞே ப₃॒ஹுபி₄॑꞉ ஸா॒கமி॒த்தா₂ பூர்வே॒ அர்தே₄॒ விஷி॑தே ஸ॒ஸன்னு ॥

யோ (அ)த₂॑ர்வாணம்ʼ பி॒தரம்॑ʼ தே₃॒வப₃॑ந்து₄ம்॒ʼ ப்₃ருʼஹ॒ஸ்பதிம்॒ʼ நம॒ஸாவ॑ ச॒ க₃சா₂॑த் । த்வம்ʼ விஶ்வே॑ஷாம்ʼ ஜனி॒தா யதா₂ஸ॑꞉ க॒விர்தே₃॒வோ ந த₃பா₄॑யத்ஸ்வ॒தா₄வா॑ந் ॥

அனா॑ப்தா॒ யே வ॑꞉ ப்ரத₂॒மா யானி॒ கர்மா॑ணி சக்ரி॒ரே । வீ॒ரான்னோ॒ அத்ர॒ மா த₃॑ப₄॒ந்தத்₃வ॑ ஏ॒தத்பு॒ரோ த₃॑தே₄ ॥

ஸ॒ஹஸ்ர॑தா₄ர ஏ॒வ தே॒ ஸம॑ஸ்வரந்தி₃॒வோ நாகே॒ மது₄॑ஜிஹ்வா அஸ॒ஶ்சத॑꞉ । தஸ்ய॒ ஸ்பஶோ॒ ந நி॑ மிஷந்தி॒ பூ₄ர்ண॑ய꞉ ப॒தே₃ப॑தே₃ பா॒ஶின॑꞉ ஸந்தி॒ ஸேத॑வே ॥

க்₃ரீ॒ஷ்மோ ஹே॑ம॒ந்த꞉ ஶிஶி॑ரோ வஸ॒ந்த꞉ ஶ॒ரத்₃வ॒ர்ஷா꞉ ஸ்வி॒தே நோ॑ த₃தா₄த । ஆ நோ॒ கோ₃ஷு॒ ப₄ஜ॒தா ப்ர॒ஜாயாம்॑ʼ நிவா॒த இத்₃வ॑꞉ ஶர॒ணே ஸ்யா॑ம ॥

அ॑ந॒டு₃த்₃ப்₄ய॒ஸ்த்வம்ʼ ப்ர॑த₂॒மம்ʼ தே₄॒நுப்₄ய॒ஸ்த்வம॑ருந்த₄தி । அதே₄॑நவே॒ வய॑ஸே॒ ஶர்ம॑ யச₂॒ சது॑ஷ்பதே₃ ॥

ஶர்ம॑ யச₂॒த்வோஷ॑தி₄꞉ ஸ॒ஹ தே₃॒வீர॑ருந்த₄॒தீ । கர॒த்பய॑ஸ்வந்தம்ʼ கோ₃॒ஷ்ட₂ம॑ய॒க்ஷ்மாம்ˮ உ॒த பூரு॑ஷான் ॥

வி॒ஶ்வரூ॑பாம்ʼ ஸு॒ப₄கா₃॑ம॒சா₂வ॑தா₃மி ஜீவ॒லாம் । ஸா நோ॑ ரு॒த்₃ரஸ்யா॒ஸ்தாம்ʼ ஹே॒திம்ʼ தூ₃॒ரம்ʼ ந॑யது॒ கோ₃ப்₄ய॑꞉ ॥

மஹ்ய॒மாபோ॒ மது₄॑ம॒தே₃ர॑யந்தாம்॒ʼ மஹ்யம்॒ʼ ஸூரோ॑ அப₄ர॒ஜ்ஜ்யோதி॑ஷே॒ கம் । மஹ்யம்॑ʼ தே₃॒வா உ॒த விஶ்வே॑ தபோ॒ஜா மஹ்யம்॑ʼ தே₃॒வ꞉ ஸ॑வி॒தா வ்யசோ॑ தா₄த் ॥

அ॒ஹம்ʼ வி॑வேச ப்ருʼதி₂॒வீமு॒த த்₃யாம॒ஹம்ரு॒ʼதூம்ʼர॑ஜனயம்ʼ ஸ॒ப்த ஸா॒கம் । அ॒ஹம்ʼ ஸ॒த்யமன்ரு॑ʼதம்॒ʼ யத்₃வதா₃॑ம்ய॒ஹம்ʼ தை₃வீம்॒ʼ பரி॒ வாச॒ம்விஶ॑ஶ்ச ॥

அ॒ஹம்ʼ ஜ॑ஜான ப்ருʼதி₂॒வீமு॒த த்₃யாம॒ஹம்ரு॒ʼதூம்ʼர॑ஜனயம்ʼ ஸ॒ப்த ஸிந்தூ₄॑ந் । அ॒ஹம்ʼ ஸ॒த்வமன்ரு॑ʼதம்॒ʼ யத்₃வதா₃॑மி॒ யோ அ॑க்₃னீஷோ॒மாவஜு॑ஷே॒ ஸகா₂॑யா ॥

வை॑ஶ்வான॒ரோ ர॒ஶ்மிபி₄॑ர்ன꞉ புனாது॒ வாத॑꞉ ப்ரா॒ணேனே॑ஷி॒ரோ நபோ₄॑பி₄꞉ । த்₃யாவா॑ப்ருʼதி₂॒வீ பய॑ஸா॒ பய॑ஸ்வதீ ரு॒ʼதாவ॑ரீ யஜ்ஞியே ந புனீதாம் ॥

வை॑ஶ்வான॒ரீம்ʼ ஸூ॒ந்ருʼதா॒மா ர॑ப₄த்₄வம்॒ʼ யஸ்யா॒ ஆஶா॑ஸ்த॒ந்வோ॑ வீ॒தப்ரு॑ʼஷ்டா₂꞉ । தயா॑ க்₃ரு॒ʼணந்த॑꞉ ஸத₄॒மாதே₃॑ஷு வ॒யம்ʼ ஸ்யா॑ம॒ பத॑யோ ரயீ॒நாம் ॥

வை॑ஶ்வான॒ரீம்ʼ வர்ச॑ஸ॒ ஆ ர॑ப₄த்₄வம்ʼ ஶு॒த்₃தா₄ ப₄வ॑ந்த॒꞉ ஶுச॑ய꞉ பாவ॒கா꞉ । இ॒ஹேட₃॑யா ஸத₄॒மாத₃ம்॒ʼ மத₃॑ந்தோ॒ ஜ்யோக்ப॑ஶ்யேம॒ ஸூர்ய॑மு॒ச்சர॑ந்தம் ॥

ய॒மோ ம்ரு॒ʼத்யுர॑க₄மா॒ரோ நி॑ர்ரு॒ʼதோ₂ ப₃॒ப்₄ரு꞉ ஶ॒ர்வோ (அ)ஸ்தா॒ நீல॑ஶிக₂ண்ட₃꞉ । தே₃॑வஜ॒நா꞉ ஸேன॑யோத்தஸ்தி₂॒வாம்ʼஸ॒ஸ்தே அ॒ஸ்மாகம்॒ʼ பரி॑ வ்ருʼஞ்ஜந்து வீ॒ரான் ॥

மன॑ஸா॒ ஹோமை॒ர்ஹர॑ஸா க்₄ரு॒ʼதேன॑ ஶ॒ர்வாயாஸ்த்ர॑ உ॒த ராஜ்ஞே॑ ப₄॒வாய॑ । ந॑ம॒ஸ்யே॑ப்₄யோ॒ நம॑ ஏப்₄ய꞉ க்ருʼணோம்ய॒ந்யத்ரா॒ஸ்மத₃॒க₄வி॑ஷா நயந்து ॥

த்ராய॑த்₄வம்ʼ நோ அ॒க₄வி॑ஷாப்₄யோ வ॒தா₄த்₃விஶ்வே॑ தே₃வா மருதோ விஶ்வவேத₃ஸ꞉ । அ॒க்₃னீஷோமா॒ வரு॑ண꞉ பூ॒தத₃॑க்ஷா வாதாபர்ஜ॒ந்யயோ॑꞉ ஸும॒தௌ ஸ்யா॑ம ॥

யாம்ʼ தே॑ ரு॒த்₃ர இஷு॒மாஸ்ய॒த₃ங்கே₃॑ப்₄யோ॒ ஹ்ருʼத₃॑யாய ச । இ॒த₃ம்ʼ தாம॒த்₃ய த்வத்₃வ॒யம்ʼ விஷூ॑சீம்॒ʼ வி வ்ரு॑ʼஹாமஸி ॥

யாஸ்தே॑ ஶ॒தம்ʼ த₄॒மன॒யோ (அ)ங்கா₃॒ந்யனு॒ விஷ்டி₂॑தா꞉ । தாஸாம்॑ʼ தே॒ ஸர்வா॑ஸாம்வ॒யம்ʼ நிர்வி॒ஷாணி॑ ஹ்வயாமஸி ॥

நம॑ஸ்தே ரு॒த்₃ராஸ்ய॑தே॒ நம॒꞉ ப்ரதி॑ஹிதாயை । நமோ॑ விஸ்ரு॒ʼஜ்யமா॑நாயை॒ நமோ॒ நிப॑திதாயை ॥

யோ அ॒க்₃னௌ ரு॒த்₃ரோ யோ அ॒ப்ஸ்வ॒ந்தர்ய ஓஷ॑தீ₄ர்வீ॒ருத₄॑ ஆவி॒வேஶ॑ । ய இ॒மாவிஶ்வா॒ பு₄வ॑நானி சா॒க்ள்ருʼபே தஸ்மை॑ ரு॒த்₃ராய॒ நமோ॑ அஸ்த்வ॒க்₃னயே॑ ॥

ப₄வா॑ஶர்வௌ ம்ரு॒ʼட₃தம்॒ʼ மாபி₄ யா॑தம்॒ʼ பூ₄த॑பதீ॒ பஶு॑பதீ॒ நமோ॑ வாம் । ப்ரதி॑ஹிதா॒மாய॑தாம்॒ʼ மா வி ஸ்ரா॑ஷ்ட॒ம்மா நோ॑ ஹிம்ʼஸிஷ்டம்ʼ த்₃வி॒பதோ₃॒ மா சது॑ஷ்பத₃꞉ ॥

ஶுனே॑ க்ரோ॒ஷ்ட்ரே மா ஶரீ॑ராணி॒ கர்த॑ம॒லிக்ல॑வேப்₄யோ॒ க்₃ருʼத்₄ரே॑ப்₄யோ॒ யே ச॑ க்ரு॒ʼஷ்ணா அ॑வி॒ஷ்யவ॑꞉ । மக்ஷி॑காஸ்தே பஶுபதே॒ வயாம்॑ʼஸி தே விக₄॒ஸே மா வி॑த₃ந்த ॥

க்ரந்தா₃॑ய தே ப்ரா॒ணாய॒ யாஶ்ச॑ தே ப₄வ॒ ரோப॑ய꞉ । நம॑ஸ்தே ருத்₃ர க்ருʼண்ம꞉ ஸஹஸ்ரா॒க்ஷாயா॑மர்த்ய ॥

பு॒ரஸ்தா॑த்தே॒ நம॑꞉ க்ருʼண்ம உத்த॒ராத₃॑த₄॒ராது₃॒த । அ॑பீ₄வ॒ர்கா₃த்₃தி₃॒வஸ்பர்ய॒ந்தரி॑க்ஷாய தே॒ நம॑꞉ ॥

முகா₂॑ய தே பஶுபதே॒ யானி॒ சக்ஷூம்॑ʼஷி தே ப₄வ । த்வ॒சே ரூ॒பாய॑ ஸம்॒ʼத்₃ருʼஶே॑ ப்ரதீ॒சீனா॑ய தே॒ நம॑꞉ ॥

அங்கே₃॑ப்₄யஸ்த உ॒த₃ரா॑ய ஜி॒ஹ்வாயா॑ ஆ॒ஸ்யா॑ய தே । த₃॒த்₃ப்₄யோ க₃॒ந்தா₄ய॑ தே॒ நம॑꞉ ॥

அஸ்த்ரா॒ நீல॑ஶிக₂ண்டே₃ன ஸஹஸ்ரா॒க்ஷேண॑ வா॒ஜினா॑ । ரு॒த்₃ரேணா॑ர்த₄ககா₄॒தினா॒ தேன॒ மா ஸம॑ராமஹி ॥

ஸ நோ॑ ப₄॒வ꞉ பரி॑ வ்ருʼணக்து வி॒ஶ்வத॒ ஆப॑ இவா॒க்₃னி꞉ பரி॑ வ்ருʼணக்து நோ ப₄॒வ꞉ । மா நோ॒ (அ)பி₄ மாம்॑ʼஸ்த॒ நமோ॑ அஸ்த்வஸ்மை ॥

ச॒துர்னமோ॑ அஷ்ட॒க்ருʼத்வோ॑ ப₄॒வாய॒ த₃ஶ॒ க்ருʼத்வ॑꞉ பஶுபதே॒ நம॑ஸ்தே । தவே॒மே பஞ்ச॑ ப॒ஶவோ॒ விப₄॑க்தா॒ கா₃வோ॒ அஶ்வா॒꞉ புரு॑ஷா அஜா॒வய॑꞉ ॥

தவ॒ சத॑ஸ்ர꞉ ப்ர॒தி₃ஶ॒ஸ்தவ॒ த்₃யௌஸ்தவ॑ ப்ருʼதி₂॒வீ தவே॒த₃மு॑க்₃ரோ॒ர்வ॒ந்தரி॑க்ஷம் । தவே॒த₃ம்ʼ ஸர்வ॑மாத்ம॒ந்வத்₃யத்ப்ரா॒ணத்ப்ரு॑ʼதி₂॒வீமனு॑ ॥

உ॒ரு꞉ கோஶோ॑ வஸு॒தா₄ன॒ஸ்தவா॒யம்ʼ யஸ்மி॑ந்னி॒மா விஶ்வா॒ பு₄வ॑நான்ய॒ந்த꞉ । ஸ நோ॑ ம்ருʼட₃ பஶுபதே॒ நம॑ஸ்தே ப॒ர꞉ க்ரோ॒ஷ்டாரோ॑ அபி₄॒பா₄꞉ ஶ்வான॑꞉ ப॒ரோ ய॑ந்த்வக₄॒ருதோ₃॑ விகே॒ஶ்ய॑꞉ ॥

த₄னு॑ர்பி₃ப₄ர்ஷி॒ ஹரி॑தம்ʼ ஹிர॒ண்யயம்॑ʼ ஸஹஸ்ர॒க்₄னி ஶ॒தவ॑த₄ம்ʼ ஶிக₂ண்டி₃ன் । ரு॒த்₃ரஸ்யேஷு॑ஶ்சரதி தே₃வஹே॒திஸ்தஸ்யை॒ நமோ॑ யத॒மஸ்யாம்॑ʼ தி₃॒ஶீத꞉ ॥

யோ॒ (அ)பி₄யா॑தோ நி॒லய॑தே॒ த்வாம்ʼ ரு॑த்₃ர நி॒சிகீ॑ர்ஷதி । ப॒ஶ்சாத₃॑நு॒ப்ரயு॑ங்க்ஷே॒ தம்ʼ வி॒த்₃த₄ஸ்ய॑ பத₃॒நீரி॑வ ॥

ப₄॑வாரு॒த்₃ரௌ ஸ॒யுஜா॑ ஸம்ʼவிதா₃॒நாவு॒பா₄வு॒க்₃ரௌ ச॑ரதோ வீ॒ர்யா॑ய । தப்₄யாம்॒ʼ நமோ॑ யத॒மஸ்யா॑ம்தி₃॒ஶீத꞉ ॥

நம॑ஸ்தே (அ)ஸ்த்வாய॒தே நமோ॑ அஸ்து பராய॒தே । நம॑ஸ்தே ருத்₃ர॒ திஷ்ட₂॑த॒ ஆஸீ॑நாயோ॒த தே॒ நம॑꞉ ॥

நம॑꞉ ஸா॒யம்ʼ நம॑꞉ ப்ரா॒தர்னமோ॒ ராத்ர்யா॒ நமோ॒ தி₃வா॑ । ப₄॒வாய॑ ச ஶ॒ர்வாய॑ சோ॒பா₄ப்₄யா॑மகரம்॒ʼ நம॑꞉ ॥

ஸ॑ஹஸ்ரா॒க்ஷம॑திப॒ஶ்யம்ʼ பு॒ரஸ்தா॑த்₃ரு॒த்₃ரமஸ்ய॑ந்தம்ʼ ப₃ஹு॒தா₄ வி॑ப॒ஶ்சித॑ம் । மோபா॑ராம ஜி॒ஹ்வயேய॑மானம் ॥

ஶ்யா॒வாஶ்வம்॑ʼ க்ரு॒ʼஷ்ணமஸி॑தம்ʼ ம்ரு॒ʼணந்தம்॑ʼ பீ₄॒மம்ʼ ரத₂ம்॑ʼ கே॒ஶின॑꞉ பா॒த₃ய॑ந்தம் । பூர்வே॒ ப்ரதீ॑மோ॒ நமோ॑ அஸ்த்வஸ்மை ॥

மா நோ॒ (அ)பி₄ ஸ்ரா॑ ம॒த்யம்॑ʼ தே₃வஹே॒திம்ʼ மா ந॑꞉ க்ருத₄꞉ பஶுபதே॒ நம॑ஸ்தே । அ॒ந்யத்ரா॒ஸ்மத்₃தி₃॒வ்யாம்ʼ ஶாகா₂ம்॒ʼ வி தூ₄॑நு ॥

மா நோ॑ ஹிம்ʼஸீ॒ரதி₄॑ நோ ப்₃ரூஹி॒ பரி॑ ணோ வ்ருʼங்க்₃தி₄॒ மா க்ரு॑த₄꞉ । மா த்வயா॒ ஸம॑ராமஹி ॥

மா நோ॒ கோ₃ஷு॒ புரு॑ஷேஷு॒ மா க்₃ரு॑ʼதோ₄ நோ அஜா॒விஷு॑ । அ॒ந்யத்ரோ॑க்₃ர॒ வி வ॑ர்தய॒ பியா॑ரூணாம்ʼ ப்ர॒ஜாம்ʼ ஜ॑ஹி ॥

யஸ்ய॑ த॒க்மா காஸி॑கா ஹே॒திரேக॒மஶ்வ॑ஸ்யேவ॒ வ்ருʼஷ॑ண॒꞉ க்ரந்த₃॒ ஏதி॑ । அ॑பி₄பூ॒ர்வம்ʼ நி॒ர்ணய॑தே॒ நமோ॑ அஸ்த்வஸ்மை ॥

யோ॒ (அ)ந்தரி॑க்ஷே॒ திஷ்ட₂॑தி॒ விஷ்ட॑பி₄॒தோ (அ)ய॑ஜ்வன꞉ ப்ரம்ரு॒ʼணந்தே₃॑வபீ॒யூன் । தஸ்மை॒ நமோ॑ த₃॒ஶபி₄॒꞉ ஶக்வ॑ரீபி₄꞉ ॥

துப்₄ய॑மார॒ண்யா꞉ ப॒ஶவோ॑ ம்ரு॒ʼகா₃ வனே॑ ஹி॒தா ஹம்॒ʼஸா꞉ ஸு॑ப॒ர்ணா꞉ ஶ॑கு॒நா வயாம்॑ʼஸி । தவ॑ ய॒க்ஷம்ʼ ப॑ஶுபதே அ॒ப்ஸ்வ॒ந்தஸ்துப்₄யம்॑ʼ க்ஷரந்தி தி₃॒வ்யா ஆபோ॑ வ்ரு॒ʼதே₄ ॥

ஶி॑ஶு॒மாரா॑ அஜக₃॒ரா꞉ பு॑ரீ॒கயா॑ ஜ॒ஷா மத்ஸ்யா॑ ரஜ॒ஸா யேப்₄யோ॒ அஸ்ய॑ஸி । ந தே॑ தூ₃॒ரம்ʼ ந ப॑ரி॒ஷ்டா₂ஸ்தி॑ தே ப₄வ ஸ॒த்₃ய꞉ ஸர்வா॒ந்பரி॑ பஶ்யஸி॒ பூ₄மிம்॒ʼ பூர்வ॑ஸ்மாத்₃த₄ம்॒ʼஸ்யுத்த॑ரஸ்மின்ஸமு॒த்₃ரே ॥

மா நோ॑ ருத்₃ர த॒க்மனா॒ மா வி॒ஸேண॒ மா ந॒꞉ ஸம்ʼ ஸ்ரா॑ தி₃॒வ்யேனா॒க்₃னினா॑ । அ॒ந்யத்ரா॒ஸ்மத்₃வி॒த்₃யுதம்॑ʼ பாதயை॒தாம் ॥

ப₄॒வோ தி₃॒வோ ப₄॒வ ஈ॑ஶே ப்ருʼதி₂॒வ்யா ப₄॒வ ஆ ப॑ப்ர உ॒ர்வ॒ந்தரி॑க்ஷம் । தஸ்மை॒ நமோ॑ யத॒மஸ்யாம்॑ʼ தி₃॒ஶீத꞉ ॥

ப₄வ॑ ரஜ॒ந்யஜ॑மானாய ம்ருʼட₃ பஶூ॒நாம்ʼ ஹி ப॑ஶு॒பதி॑ர்ப₃॒பூ₄த₂॑ । ய꞉ ஶ்ர॒த்₃த₃தா₄॑தி॒ ஸந்தி॑ தே₃॒வா இதி॒ சது॑ஷ்பதே₃ த்₃வி॒பதே₃॑ (அ)ஸ்ய ம்ருʼட₃ ॥

மா நோ॑ ம॒ஹாந்த॑மு॒த மா நோ॑ அர்ப₄॒கம்ʼ மா நோ॒ வஹ॑ந்தமு॒த மா நோ॑ வக்ஷ்ய॒த꞉ । மா நோ॑ ஹிம்ʼஸீ꞉ பி॒தரம்॑ʼ மா॒தரம்॑ʼ ச॒ ஸ்வாம்ʼ த॒ந்வம்॑ʼ ருத்₃ர॒ மா ரீ॑ரிஸோ ந꞉ ॥

ரு॒த்₃ரஸ்யை॑லப₃கா॒ரேப்₄யோ॑ (அ)ஸம்ʼஸூக்தகி₃॒லேப்₄ய॑꞉ । இ॒த₃ம்ʼ ம॒ஹாஸ்யே॑ப்₄ய॒꞉ ஶ்வப்₄யோ॑ அகரம்॒ʼ நம॑꞉ ॥

நம॑ஸ்தே கோ₄॒ஷிணீ॑ப்₄யோ॒ நம॑ஸ்தே கே॒ஶினீ॑ப்₄ய꞉ । நமோ॒ நம॑ஸ்க்ருʼதாப்₄யோ॒ நம॑꞉ ஸம்பு₄ஞ்ஜ॒தீப்₄ய॑꞉ । நம॑ஸ்தே தே₃வ॒ ஸேனா॑ப்₄ய꞉ ஸ்வ॒ஸ்தி நோ॒ அப₄॑யம்ʼ ச ந꞉ ॥

ப₄॑வாஶ॒ர்வாவி॒த₃ம்ʼ ப்₃ரூ॑மோ ரு॒த்₃ரம்ʼ ப॑ஶு॒பதி॑ஶ்ச॒ ய꞉ । இஷூ॒ர்யா ஏ॑ஷாம்ʼ ஸம்ʼவி॒த்₃ம தா ந॑꞉ ஸந்து॒ ஸதா₃॑ ஶி॒வா꞉ ॥

யஸ்தே॑ ஸ॒ர்போ வ்ருʼஶ்சி॑கஸ்த்ரு॒ʼஷ்டத₃ம்॑ʼஶ்மா ஹேம॒ந்தஜ॑ப்₃தோ₄ ப்₄ருʼம॒லோ கு₃ஹா॒ ஶயே॑ । க்ரிமி॒ர்ஜின்வ॑த்ப்ருʼதி₂வி॒ யத்₃ய॒தே₃ஜ॑தி ப்ரா॒வ்ருʼஷி॒ தன்ன॒꞉ ஸர்ப॒ந்மோப॑ ஸ்ருʼப॒த்₃யச்சி₂॒வம்ʼ தேன॑ நோ ம்ருʼட₃ ॥

தஸ்மை॒ ப்ராச்யா॑ தி₃॒ஶோ அ॑ந்தர்தே₃॒ஶாத்₃ப₄॒வமி॑ஷ்வா॒ஸம॑நுஷ்டா₂॒தார॑மகுர்வன் ॥

ப₄வ॑ ஏனமிஷ்வா॒ஸ꞉ ப்ராச்யா॑ தி₃॒ஶோ அ॑ந்தர்தே₃॒ஶாத₃॑நுஷ்டா₂॒தானு॑ திஷ்ட₂தி ॥

நைனம்॑ʼ ஶ॒ர்வோ ந ப₄॒வோ நேஶா॑நோ॒ நாஸ்ய॑ ப॒ஶூன்ன ஸ॑மா॒நான்ஹி॑நஸ்தி॒ ய ஏ॒வம்ʼ வேத₃॑ ॥

தஸ்மை॒ த₃க்ஷி॑ணாயா தி₃॒ஶோ அ॑ந்தர்தே₃॒ஶாச்ச₂॒ர்வமி॑ஷ்வா॒ஸம॑நுஷ்டா₂॒தார॑மகுர்வன் ॥

ஶ॒ர்வ ஏ॑நமிஶ்வா॒ஸோ த₃க்ஷி॑ணாயா தி₃॒ஶோ அ॑ந்தர்தே₃॒ஶாத₃॑நுஷ்டா₂॒தானு॑ திஷ்ட₂தி॒ நைனம்॑ʼ ஶ॒ர்வோ ந ப₄॒வோ நேஶா॑நோ॒ நாஸ்ய॑ ப॒ஶூன்ன ஸ॑மா॒நான்ஹி॑நஸ்தி॒ ய ஏ॒வம்ʼ வேத₃॑ ॥

தஸ்மை॑ ப்ர॒தீச்யா॑ தி₃॒ஶோ அ॑ந்தர்தே₃॒ஶாத்ப॑ஶு॒பதி॑மிஷ்வா॒ஸம॑நுஷ்டா₂॒தார॑மகுர்வன் ॥

ப॑ஶு॒பதி॑ரேனமிஷ்வா॒ஸ꞉ ப்ர॒தீச்யா॑ தி₃॒ஶோ அ॑ந்தர்தே₃॒ஶாத₃॑நுஷ்டா₂॒தானு॑ திஷ்ட₂தி॒ நைனம்॑ʼ ஶ॒ர்வோ ந ப₄॒வோ நேஶ॑நோ॒ நாஸ்ய॑ ப॒ஶூன்ன ஸ॑மா॒நான்ஹி॑நஸ்தி॒ ய ஏ॒வம்ʼ வேத₃॑ ॥

தஸ்மை॑ த்₄ரு॒வாயா॑ தி₃॒ஶோ அ॑ந்தர்தே₃॒ஶாத்₃ரு॒த்₃ரமி॑ஷ்வா॒ஸம॑நுஷ்டா₂॒தார॑மகுர்வன் ॥

ரு॒த்₃ர ஏ॑நமிஷ்வா॒ஸோ த்₄ரு॒வாயா॑ தி₃॒ஶோ அ॑ந்தர்தே₃॒ஶாத₃॑நுஷ்டா₂॒தானு॑ திஷ்ட₂தி॒ நைனம்॑ʼ ஶ॒ர்வோ ந॑ ப₄॒வோ நேஶா॑நோ॒ நாஸ்ய॑ ப॒ஶூன்ன ஸ॑மா॒நான்ஹி॑நஸ்தி॒ ய ஏ॒வம்ʼ வேத₃॑ ॥

தஸ்மா॑ ஊ॒ர்த்₄வாயா॑ தி₃॒ஶோ அ॑ந்தர்தே₃॒ஶான்ம॑ஹாதே₃॒வமி॑ஷ்வா॒ஸம॑நுஷ்டா₂॒தார॑மகுர்வன் ॥

ம॑ஹாதே₃॒வ ஏ॑நமிஷ்வா॒ஸ ஊ॒ர்த்₄வாயா॑ தி₃॒ஶோ அ॑ந்தர்தே₃॒ஶாத₃॑நுஷ்டா₂॒தானு॑ திஷ்ட₂தி॒ நைனம்॑ʼ ஶ॒ர்வோ ந ப₄॒வோ நேஶா॑நோ॒ நாஸ்ய॑ ப॒ஶூன்ன ஸ॑மா॒நான்ஹி॑நஸ்தி॒ ய ஏ॒வம்ʼ வேத₃॑ ॥

தஸ்மை॒ ஸர்வே॑ப்₄யோ அந்தர்தே₃॒ஶேப்₄ய॒ ஈஶா॑நமிஷ்வா॒ஸம॑நுஷ்டா₂॒தார॑மகுர்வன் ॥

ஈஶா॑ந ஏனமிஷ்வா॒ஸ꞉ ஸர்வே॑ப்₄யோ அந்தர்தே₃॒ஶேப்₄யோ॑ (அ)னுஷ்டா₂॒தானு॑ திஷ்ட₂தி ॥

நைனம்॑ʼ ஶ॒ர்வோ ந ப₄॒வோ நேஶா॑நோ॒ நாஸ்ய॑ ப॒ஶூன்ன ஸ॑மா॒நான்ஹி॑நஸ்தி॒ ய ஏ॒வம்ʼ வேத₃॑ ॥

Friday, December 14, 2018

Atharvana udakashanti (Grantha script)

𑌕𑍌𑌶𑌿𑌕 𑌗𑍃𑌹𑍍𑌯𑌸𑍂𑌤𑍍𑌰𑍋𑌕𑍍𑌤 𑌶𑌾𑌨𑍍𑌤𑌯𑍁𑌦𑌕 𑌮𑌨𑌤𑍍𑌰𑌾𑌣𑌿

𑌓௩𑌮𑍍

𑌶𑌂 𑌨𑍋᳴ 𑌦𑍇॒𑌵𑍀𑌰॒𑌭𑌿𑌷𑍍𑌟᳴𑌯॒ 𑌆𑌪𑍋᳴ 𑌭𑌵𑌨𑍍𑌤𑍁 𑌪𑍀॒𑌤𑌯𑍇᳴ । 𑌶𑌂 𑌯𑍋𑌰॒𑌭𑌿 𑌸𑍍𑌰᳴𑌵𑌨𑍍𑌤𑍁 𑌨𑌃 ॥

𑌅॒𑌮𑍍𑌬𑌯𑍋᳴ 𑌯॒𑌨𑍍𑌤𑍍𑌯𑌧𑍍𑌵᳴𑌭𑌿𑌰𑍍𑌜𑌾॒𑌮𑌯𑍋᳴ 𑌅𑌧𑍍𑌵𑌰𑍀𑌯॒𑌤𑌾𑌮𑍍 । 𑌪𑍃॒𑌞𑍍𑌚॒𑌤𑍀𑌰𑍍𑌮𑌧𑍁᳴𑌨𑌾॒ 𑌪𑌯𑌃᳴ ॥

𑌅॒𑌮𑍂𑌰𑍍𑌯𑌾 𑌉𑌪॒ 𑌸𑍂𑌰𑍍𑌯𑍇॒ 𑌯𑌾𑌭𑌿᳴𑌰𑍍𑌵𑌾॒ 𑌸𑍂𑌰𑍍𑌯𑌃᳴ 𑌸॒𑌹 । 𑌤𑌾 𑌨𑍋᳴ 𑌹𑌿𑌨𑍍𑌵𑌨𑍍𑌤𑍍𑌵𑌧𑍍𑌵॒𑌰𑌮𑍍 ॥

𑌅॒𑌪𑍋 𑌦𑍇॒𑌵𑍀𑌰𑍁𑌪᳴ 𑌹𑍍𑌵𑌯𑍇॒ 𑌯𑌤𑍍𑌰॒ 𑌗𑌾𑌵𑌃॒ 𑌪𑌿𑌬᳴𑌨𑍍𑌤𑌿 𑌨𑌃 । 𑌸𑌿𑌨𑍍𑌧𑍁᳴𑌭𑍍𑌯𑌃॒ 𑌕𑌰𑍍𑌤𑍍𑌵𑌂᳴ 𑌹॒𑌵𑌿𑌃 ॥

𑌅॒𑌪𑍍𑌸𑍍𑌵॒𑌨𑍍𑌤𑌰॒𑌮𑍃𑌤᳴𑌮॒𑌪𑍍𑌸𑍁 𑌭𑍇᳴𑌷॒𑌜𑌮𑍍 । 𑌅॒𑌪𑌾𑌮𑍁॒𑌤 𑌪𑍍𑌰𑌶᳴𑌸𑍍𑌤𑌿𑌭𑌿॒𑌰𑌶𑍍𑌵𑌾॒ 𑌭𑌵᳴𑌥 𑌵𑌾॒𑌜𑌿𑌨𑍋॒ 𑌗𑌾𑌵𑍋᳴ 𑌭𑌵𑌥 𑌵𑌾॒𑌜𑌿𑌨𑍀𑌃᳴ ॥

𑌆𑌪𑍋॒ 𑌹𑌿 𑌷𑍍𑌠𑌾 𑌮᳴𑌯𑍋॒𑌭𑍁𑌵॒𑌸𑍍𑌤𑌾 𑌨᳴ 𑌊॒𑌰𑍍𑌜𑍇 𑌦᳴𑌧𑌾𑌤𑌨 । 𑌮॒𑌹𑍇 𑌰𑌣𑌾᳴𑌯॒ 𑌚𑌕𑍍𑌷᳴𑌸𑍇 ॥

𑌯𑍋 𑌵𑌃᳴ 𑌶𑌿॒𑌵𑌤᳴𑌮𑍋॒ 𑌰𑌸॒𑌸𑍍𑌤𑌸𑍍𑌯᳴ 𑌭𑌾𑌜𑌯𑌤𑍇॒𑌹 𑌨𑌃᳴ । 𑌉𑌶॒𑌤𑍀𑌰𑌿᳴𑌵 𑌮𑌾॒𑌤𑌰𑌃᳴ ॥

𑌤𑌸𑍍𑌮𑌾॒ 𑌅𑌰𑌂᳴ 𑌗𑌮𑌾𑌮 𑌵𑍋॒ 𑌯𑌸𑍍𑌯॒ 𑌕𑍍𑌷𑌯𑌾᳴𑌯॒ 𑌜𑌿𑌨𑍍𑌵᳴𑌥 । 𑌆𑌪𑍋᳴ 𑌜॒𑌨𑌯᳴𑌥𑌾 𑌚 𑌨𑌃 ॥

𑌈𑌶𑌾᳴𑌨𑌾॒ 𑌵𑌾𑌰𑍍𑌯𑌾᳴𑌣𑌾𑌂॒ 𑌕𑍍𑌷𑌯᳴𑌨𑍍𑌤𑍀𑌶𑍍𑌚𑌰𑍍𑌷𑌣𑍀॒𑌨𑌾𑌮𑍍 । 𑌅॒𑌪𑍋 𑌯𑌾᳴𑌚𑌾𑌮𑌿 𑌭𑍇𑌷॒𑌜𑌮𑍍 ॥

𑌶𑌂 𑌨𑍋᳴ 𑌦𑍇॒𑌵𑍀𑌰॒𑌭𑌿𑌷𑍍𑌟᳴𑌯॒ 𑌆𑌪𑍋᳴ 𑌭𑌵𑌨𑍍𑌤𑍁 𑌪𑍀॒𑌤𑌯𑍇᳴ । 𑌶𑌂 𑌯𑍋𑌰॒𑌭𑌿 𑌸𑍍𑌰᳴𑌵𑌨𑍍𑌤𑍁 𑌨𑌃 ॥

𑌅॒𑌪𑍍𑌸𑍁 𑌮𑍇॒ 𑌸𑍋𑌮𑍋᳴ 𑌅𑌬𑍍𑌰𑌵𑍀𑌦॒𑌨𑍍𑌤𑌰𑍍𑌵𑌿𑌶𑍍𑌵𑌾᳴𑌨𑌿 𑌭𑍇𑌷॒𑌜𑌾 । 𑌅॒𑌗𑍍𑌨𑌿𑌂 𑌚᳴ 𑌵𑌿॒𑌶𑍍𑌵𑌶𑌂᳴𑌭𑍁𑌵𑌮𑍍 ॥

𑌆𑌪𑌃᳴ 𑌪𑍃𑌣𑍀॒𑌤 𑌭𑍇᳴𑌷॒𑌜𑌂 𑌵𑌰𑍂᳴𑌥𑌂 𑌤॒𑌨𑍍𑌵𑍇𑌮𑌮᳴ । 𑌜𑍍𑌯𑍋𑌕𑍍𑌚॒ 𑌸𑍂𑌰𑍍𑌯𑌂᳴ 𑌦𑍃॒𑌶𑍇 ॥

𑌶𑌂 𑌨॒ 𑌆𑌪𑍋᳴ 𑌧𑌨𑍍𑌵॒𑌨𑍍𑌯𑌾 𑌶𑌮𑍁᳴ 𑌸𑌨𑍍𑌤𑍍𑌵𑌨𑍂॒𑌪𑍍𑌯𑌾𑌃᳴ । 𑌶𑌂 𑌨𑌃᳴ 𑌖𑌨𑌿॒𑌤𑍍𑌰𑌿𑌮𑌾॒ 𑌆𑌪𑌃॒ 𑌶𑌮𑍁॒ 𑌯𑌾𑌃 𑌕𑍁॒𑌮𑍍𑌭 𑌆𑌭𑍃᳴𑌤𑌾𑌃 𑌶𑌿॒𑌵𑌾 𑌨𑌃᳴ 𑌸𑌨𑍍𑌤𑍁॒ 𑌵𑌾𑌰𑍍𑌷𑌿᳴𑌕𑍀𑌃 ॥

𑌹𑌿𑌰᳴𑌣𑍍𑌯𑌵𑌰𑍍𑌣𑌾𑌃॒ 𑌶𑍁𑌚᳴𑌯𑌃 𑌪𑌾𑌵॒𑌕𑌾 𑌯𑌾𑌸𑍁᳴ 𑌜𑌾॒𑌤𑌃 𑌸᳴𑌵𑌿॒𑌤𑌾 𑌯𑌾𑌸𑍍𑌵॒𑌗𑍍𑌨𑌿𑌃 । 𑌯𑌾 𑌅॒𑌗𑍍𑌨𑌿𑌂 𑌗𑌰𑍍𑌭𑌂᳴ 𑌦𑌧𑌿॒𑌰𑍇 𑌸𑍁॒𑌵𑌰𑍍𑌣𑌾॒𑌸𑍍𑌤𑌾 𑌨॒ 𑌆𑌪𑌃॒ 𑌶𑌂 𑌸𑍍𑌯𑍋॒𑌨𑌾 𑌭᳴𑌵𑌨𑍍𑌤𑍁 ॥

𑌯𑌾𑌸𑌾𑌂॒ 𑌰𑌾𑌜𑌾॒ 𑌵𑌰𑍁᳴𑌣𑍋॒ 𑌯𑌾𑌤𑌿॒ 𑌮𑌧𑍍𑌯𑍇᳴ 𑌸𑌤𑍍𑌯𑌾𑌨𑍃॒𑌤𑍇 𑌅᳴𑌵॒𑌪𑌶𑍍𑌯॒𑌨𑍍𑌜𑌨𑌾᳴𑌨𑌾𑌮𑍍 । 𑌯𑌾 𑌅॒𑌗𑍍𑌨𑌿𑌂 𑌗𑌰𑍍𑌭𑌂᳴ 𑌦𑌧𑌿॒𑌰𑍇 𑌸𑍁॒𑌵𑌰𑍍𑌣𑌾॒𑌸𑍍𑌤𑌾 𑌨॒ 𑌆𑌪𑌃॒ 𑌶𑌂 𑌸𑍍𑌯𑍋॒𑌨𑌾 𑌭᳴𑌵𑌨𑍍𑌤𑍁 ॥

𑌯𑌾𑌸𑌾𑌂᳴ 𑌦𑍇॒𑌵𑌾 𑌦𑌿॒𑌵𑌿 𑌕𑍃॒𑌣𑍍𑌵𑌨𑍍𑌤𑌿᳴ 𑌭॒𑌕𑍍𑌷𑌂 𑌯𑌾 𑌅॒𑌨𑍍𑌤𑌰𑌿᳴𑌕𑍍𑌷𑍇 𑌬𑌹𑍁॒𑌧𑌾 𑌭𑌵𑌨𑍍𑌤𑌿 । 𑌯𑌾 𑌅॒𑌗𑍍𑌨𑌿𑌂 𑌗𑌰𑍍𑌭𑌂᳴ 𑌦𑌧𑌿॒𑌰𑍇 𑌸𑍁॒𑌵𑌰𑍍𑌣𑌾॒𑌸𑍍𑌤𑌾 𑌨॒ 𑌆𑌪𑌃॒ 𑌶𑌂 𑌸𑍍𑌯𑍋॒𑌨𑌾 𑌭᳴𑌵𑌨𑍍𑌤𑍁 ॥

𑌶𑌿॒𑌵𑍇𑌨᳴ 𑌮𑌾॒ 𑌚𑌕𑍍𑌷𑍁᳴𑌷𑌾 𑌪𑌶𑍍𑌯𑌤𑌾𑌪𑌃 𑌶𑌿॒𑌵𑌯𑌾᳴ 𑌤॒𑌨𑍍𑌵𑍋𑌪᳴ 𑌸𑍍𑌪𑍃𑌶𑌤॒ 𑌤𑍍𑌵𑌚𑌂᳴ 𑌮𑍇 । 𑌘𑍃᳴𑌤॒𑌶𑍍𑌚𑍁𑌤𑌃॒ 𑌶𑍁𑌚᳴𑌯𑍋॒ 𑌯𑌾𑌃 𑌪𑌾᳴𑌵॒𑌕𑌾𑌸𑍍𑌤𑌾 𑌨॒ 𑌆𑌪𑌃॒ 𑌶𑌂 𑌸𑍍𑌯𑍋॒𑌨𑌾 𑌭᳴𑌵𑌨𑍍𑌤𑍁 ॥

𑌨𑌿𑌃𑌸𑌾॒𑌲𑌾𑌂 𑌧𑍃॒𑌷𑍍𑌣𑍁𑌂 𑌧𑌿॒𑌷𑌣᳴𑌮𑍇𑌕𑌵𑌾॒𑌦𑍍𑌯𑌾𑌮𑍍𑌜𑌿᳴𑌘॒𑌤𑍍𑌸𑍍𑌵𑌮𑍍 । 𑌸𑌰𑍍𑌵𑌾॒𑌶𑍍𑌚𑌣𑍍𑌡᳴𑌸𑍍𑌯 𑌨॒𑌪𑍍𑌤𑍍𑌯𑍋 𑌨𑌾॒𑌶𑌯𑌾᳴𑌮𑌃 𑌸॒𑌦𑌾𑌨𑍍𑌵𑌾𑌃᳴ ॥

𑌨𑌿𑌰𑍍𑌵𑍋᳴ 𑌗𑍋॒𑌷𑍍𑌠𑌾𑌦᳴𑌜𑌾𑌮𑌸𑌿॒ 𑌨𑌿𑌰𑌕𑍍𑌷𑌾॒𑌨𑍍𑌨𑌿𑌰𑍁᳴𑌪𑌾𑌨॒𑌶𑌾𑌤𑍍 । 𑌨𑌿𑌰𑍍𑌵𑍋᳴ 𑌮𑌗𑍁𑌨𑍍𑌦𑍍𑌯𑌾 𑌦𑍁𑌹𑌿𑌤𑌰𑍋 𑌗𑍃॒𑌹𑍇𑌭𑍍𑌯᳴𑌶𑍍𑌚𑌾𑌤𑌯𑌾𑌮𑌹𑍇 ॥

𑌅॒𑌸𑍌 𑌯𑍋 𑌅᳴𑌧॒𑌰𑌾𑌦𑍍𑌗𑍃॒𑌹𑌸𑍍𑌤𑌤𑍍𑌰᳴ 𑌸𑌨𑍍𑌤𑍍𑌵𑌰𑌾॒𑌯𑍍𑌯: । 𑌤𑌤𑍍𑌰᳴ 𑌸𑍇𑌦𑌿॒𑌰𑍍𑌨𑍍𑌯𑍁𑌚𑍍𑌯𑌤𑍁॒ 𑌸𑌰𑍍𑌵𑌾᳴𑌶𑍍𑌚 𑌯𑌾𑌤𑍁𑌧𑌾॒𑌨𑍍𑌯: ॥

𑌭𑍂॒𑌤॒𑌪𑌤𑌿॒𑌰𑍍𑌨𑌿𑌰᳴𑌜॒𑌤𑍍𑌵𑌿𑌨𑍍𑌦𑍍𑌰᳴𑌶𑍍𑌚𑍇॒𑌤𑌃 𑌸॒𑌦𑌾𑌨𑍍𑌵𑌾𑌃᳴ । 𑌗𑍃॒𑌹𑌸𑍍𑌯᳴ 𑌬𑍁॒𑌧𑍍𑌨 𑌆𑌸𑍀᳴𑌨𑌾𑌸𑍍𑌤𑌾 𑌇𑌨𑍍𑌦𑍍𑌰𑍋॒ 𑌵𑌜𑍍𑌰𑍇॒𑌣𑌾𑌧𑌿᳴ 𑌤𑌿𑌷𑍍𑌠𑌤𑍁 ॥

𑌯𑌦𑌿॒ 𑌸𑍍𑌥 𑌕𑍍𑌷𑍇᳴𑌤𑍍𑌰𑌿॒𑌯𑌾𑌣𑌾𑌂॒ 𑌯𑌦𑌿᳴ 𑌵𑌾॒ 𑌪𑍁𑌰𑍁᳴𑌷𑍇𑌷𑌿𑌤𑌾𑌃 । 𑌯𑌦𑌿॒ 𑌸𑍍𑌥 𑌦𑌸𑍍𑌯𑍁᳴𑌭𑍍𑌯𑍋 𑌜𑌾॒𑌤𑌾 𑌨𑌶𑍍𑌯᳴𑌤𑍇॒𑌤𑌃 𑌸॒𑌦𑌾𑌨𑍍𑌵𑌾𑌃᳴ ॥

𑌪𑌰𑌿॒ 𑌧𑌾𑌮𑌾᳴𑌨𑍍𑌯𑌾𑌸𑌾𑌮𑌾॒𑌶𑍁𑌰𑍍𑌗𑌾𑌷𑍍𑌠𑌾᳴𑌮𑌿𑌵𑌾𑌸𑌰𑌨𑍍 । 𑌅𑌜𑍈᳴𑌷𑌂॒ 𑌸𑌰𑍍𑌵𑌾᳴𑌨𑌾॒𑌜𑍀𑌨𑍍𑌵𑍋॒ 𑌨𑌶𑍍𑌯᳴𑌤𑍇॒𑌤𑌃 𑌸॒𑌦𑌾𑌨𑍍𑌵𑌾𑌃᳴ ॥

𑌯𑍇 𑌅॒𑌗𑍍𑌨𑌯𑍋᳴ 𑌅॒𑌪𑍍𑌸𑍍𑌵᳴௧॒𑌨𑍍𑌤𑌰𑍍𑌯𑍇 𑌵𑍃॒𑌤𑍍𑌰𑍇 𑌯𑍇 𑌪𑍁𑌰𑍁᳴𑌷𑍇॒ 𑌯𑍇 𑌅𑌶𑍍𑌮᳴𑌸𑍁 । 𑌯 𑌆᳴𑌵𑌿॒𑌵𑍇𑌶𑍋𑌷᳴𑌧𑍀॒𑌰𑍍𑌯𑍋 𑌵𑌨॒𑌸𑍍𑌪𑌤𑍀𑌂॒𑌸𑍍𑌤𑍇𑌭𑍍𑌯𑍋᳴ 𑌅॒𑌗𑍍𑌨𑌿𑌭𑍍𑌯𑍋᳴ 𑌹𑍁॒𑌤𑌮᳴𑌸𑍍𑌤𑍍𑌵𑍇॒𑌤𑌤𑍍 ॥

𑌯𑌃 𑌸𑍋𑌮𑍇᳴ 𑌅॒𑌨𑍍𑌤𑌰𑍍𑌯𑍋 𑌗𑍋𑌷𑍍𑌵॒𑌨𑍍𑌤𑌰𑍍𑌯 𑌆𑌵𑌿᳴𑌷𑍍𑌟𑍋॒ 𑌵𑌯𑌃᳴𑌸𑍁॒ 𑌯𑍋 𑌮𑍃॒𑌗𑍇𑌷𑍁᳴ । 𑌯 𑌆᳴𑌵𑌿॒𑌵𑍇𑌶᳴ 𑌦𑍍𑌵𑌿॒𑌪𑌦𑍋॒ 𑌯𑌸𑍍𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌦॒𑌸𑍍𑌤𑍇𑌭𑍍𑌯𑍋᳴ 𑌅॒𑌗𑍍𑌨𑌿𑌭𑍍𑌯𑍋᳴ 𑌹𑍁॒𑌤𑌮᳴𑌸𑍍𑌤𑍍𑌵𑍇॒𑌤𑌤𑍍 ॥

𑌯 𑌇𑌨𑍍𑌦𑍍𑌰𑍇᳴𑌣 𑌸॒𑌰𑌥𑌂॒ 𑌯𑌾𑌤𑌿᳴ 𑌦𑍇॒𑌵𑍋 𑌵𑍈᳴𑌶𑍍𑌵𑌾𑌨॒𑌰 𑌉॒𑌤 𑌵𑌿᳴𑌶𑍍𑌵𑌦𑌾॒𑌵𑍍𑌯: । 𑌯𑌂 𑌜𑍋𑌹᳴𑌵𑍀𑌮𑌿॒ 𑌪𑍃𑌤᳴𑌨𑌾𑌸𑍁 𑌸𑌾𑌸॒𑌹𑌿𑌂 𑌤𑍇𑌭𑍍𑌯𑍋᳴ 𑌅॒𑌗𑍍𑌨𑌿𑌭𑍍𑌯𑍋᳴ 𑌹𑍁॒𑌤𑌮᳴𑌸𑍍𑌤𑍍𑌵𑍇॒𑌤𑌤𑍍 ॥

𑌯𑍋 𑌦𑍇॒𑌵𑍋 𑌵𑌿॒𑌶𑍍𑌵𑌾𑌦𑍍𑌯𑌮𑍁॒ 𑌕𑌾𑌮᳴𑌮𑌾॒𑌹𑍁𑌰𑍍𑌯𑌂 𑌦𑌾॒𑌤𑌾𑌰𑌂᳴ 𑌪𑍍𑌰𑌤𑌿𑌗𑍃॒𑌹𑍍𑌣𑌨𑍍𑌤᳴𑌮𑌾॒𑌹𑍁𑌃 । 𑌯𑍋 𑌧𑍀𑌰𑌃᳴ 𑌶॒𑌕𑍍𑌰𑌃 𑌪᳴𑌰𑌿॒𑌭𑍂𑌰𑌦𑌾᳴𑌭𑍍𑌯॒𑌸𑍍𑌤𑍇𑌭𑍍𑌯𑍋᳴ 𑌅॒𑌗𑍍𑌨𑌿𑌭𑍍𑌯𑍋᳴ 𑌹𑍁॒𑌤𑌮᳴𑌸𑍍𑌤𑍍𑌵𑍇॒𑌤𑌤𑍍 ॥

𑌯𑌂 𑌤𑍍𑌵𑌾॒ 𑌹𑍋𑌤𑌾᳴𑌰𑌂॒ 𑌮𑌨᳴𑌸𑌾॒𑌭𑌿 𑌸𑌂᳴𑌵𑌿॒𑌦𑍁𑌸𑍍𑌤𑍍𑌰𑌯𑍋᳴𑌦𑌶 𑌭𑍌𑌵॒𑌨𑌾𑌃 𑌪𑌞𑍍𑌚᳴ 𑌮𑌾𑌨॒𑌵𑌾𑌃 । 𑌵𑌰𑍍𑌚𑍋॒𑌧𑌸𑍇᳴ 𑌯॒𑌶𑌸𑍇᳴ 𑌸𑍂॒𑌨𑍃𑌤𑌾᳴𑌵𑌤𑍇॒ 𑌤𑍇𑌭𑍍𑌯𑍋᳴ 𑌅॒𑌗𑍍𑌨𑌿𑌭𑍍𑌯𑍋᳴ 𑌹𑍁॒𑌤𑌮᳴𑌸𑍍𑌤𑍍𑌵𑍇॒𑌤𑌤𑍍 ॥

𑌉॒𑌕𑍍𑌷𑌾𑌨𑍍𑌨𑌾᳴𑌯 𑌵॒𑌶𑌾𑌨𑍍𑌨𑌾᳴𑌯॒ 𑌸𑍋𑌮᳴𑌪𑍃𑌷𑍍𑌠𑌾𑌯 𑌵𑍇॒𑌧𑌸𑍇᳴ । 𑌵𑍈𑌶𑍍𑌵𑌾𑌨॒𑌰𑌜𑍍𑌯𑍇᳴𑌷𑍍𑌠𑍇𑌭𑍍𑌯॒𑌸𑍍𑌤𑍇𑌭𑍍𑌯𑍋᳴ 𑌅॒𑌗𑍍𑌨𑌿𑌭𑍍𑌯𑍋᳴ 𑌹𑍁॒𑌤𑌮᳴𑌸𑍍𑌤𑍍𑌵𑍇॒𑌤𑌤𑍍 ॥

𑌦𑌿𑌵𑌂᳴ 𑌪𑍃𑌥𑌿॒𑌵𑍀𑌮𑌨𑍍𑌵॒𑌨𑍍𑌤𑌰𑌿᳴𑌕𑍍𑌷॒𑌮𑍍𑌯𑍇 𑌵𑌿॒𑌦𑍍𑌯𑍁𑌤᳴𑌮𑌨𑍁𑌸𑌂॒𑌚𑌰᳴𑌨𑍍𑌤𑌿 । 𑌯𑍇 𑌦𑌿॒𑌕𑍍𑌷𑍍𑌵᳴௧𑌨𑍍𑌤𑌰𑍍𑌯𑍇 𑌵𑌾𑌤𑍇᳴ 𑌅॒𑌨𑍍𑌤𑌸𑍍𑌤𑍇𑌭𑍍𑌯𑍋᳴ 𑌅॒𑌗𑍍𑌨𑌿𑌭𑍍𑌯𑍋᳴ 𑌹𑍁॒𑌤𑌮᳴𑌸𑍍𑌤𑍍𑌵𑍇॒𑌤𑌤𑍍 ॥

𑌬𑍍𑌰𑌹𑍍𑌮᳴ 𑌜𑌜𑍍𑌞𑌾॒𑌨𑌂 𑌪𑍍𑌰᳴𑌥॒𑌮𑌂 𑌪𑍁॒𑌰𑌸𑍍𑌤𑌾॒𑌦𑍍𑌵𑌿 𑌸𑍀᳴𑌮॒𑌤𑌃 𑌸𑍁॒𑌰𑍁𑌚𑍋᳴ 𑌵𑍇॒𑌨 𑌆᳴𑌵𑌃 । 𑌸 𑌬𑍁॒𑌧𑍍𑌨𑍍𑌯𑌾 𑌉𑌪॒𑌮𑌾 𑌅᳴𑌸𑍍𑌯 𑌵𑌿॒𑌷𑍍𑌠𑌾𑌃 𑌸॒𑌤𑌶𑍍𑌚॒ 𑌯𑍋𑌨𑌿॒𑌮𑌸᳴𑌤𑌶𑍍𑌚॒ 𑌵𑌿 𑌵𑌃᳴ ॥

𑌉॒𑌤 𑌦𑍇᳴𑌵𑌾॒ 𑌅𑌵᳴𑌹𑌿𑌤𑌂॒ 𑌦𑍇𑌵𑌾॒ 𑌉𑌨𑍍𑌨᳴𑌯𑌥𑌾॒ 𑌪𑍁𑌨𑌃᳴ । 𑌉॒𑌤𑌾𑌗᳴𑌶𑍍𑌚॒𑌕𑍍𑌰𑍁𑌷𑌂᳴ 𑌦𑍇𑌵𑌾॒ 𑌦𑍇𑌵𑌾᳴ 𑌜𑍀॒𑌵𑌯᳴𑌥𑌾॒ 𑌪𑍁𑌨𑌃᳴ ॥

𑌦𑍍𑌵𑌾𑌵𑌿॒𑌮𑍌 𑌵𑌾𑌤𑍌᳴ 𑌵𑌾𑌤॒ 𑌆 𑌸𑌿𑌨𑍍𑌧𑍋॒𑌰𑌾 𑌪᳴𑌰𑌾॒𑌵𑌤𑌃᳴ । 𑌦𑌕𑍍𑌷𑌂᳴ 𑌤𑍇 𑌅॒𑌨𑍍𑌯 𑌆॒𑌵𑌾𑌤𑍁॒ 𑌵𑍍𑌯᳴𑌨𑍍𑌯𑍋 𑌵𑌾᳴𑌤𑍁॒ 𑌯𑌦𑍍𑌰𑌪𑌃᳴ ॥

𑌆 𑌵𑌾᳴𑌤 𑌵𑌾𑌹𑌿 𑌭𑍇𑌷॒𑌜𑌂 𑌵𑌿 𑌵𑌾᳴𑌤 𑌵𑌾𑌹𑌿॒ 𑌯𑌦𑍍𑌰𑌪𑌃᳴ । 𑌤𑍍𑌵𑌂 𑌹𑌿 𑌵𑌿᳴𑌶𑍍𑌵𑌭𑍇𑌷𑌜 𑌦𑍇॒𑌵𑌾𑌨𑌾𑌂᳴ 𑌦𑍂॒𑌤 𑌈𑌯᳴𑌸𑍇 ॥

𑌤𑍍𑌰𑌾𑌯᳴𑌨𑍍𑌤𑌾𑌮𑌿॒𑌮𑌾𑌂 𑌦𑍇॒𑌵𑌾𑌸𑍍𑌤𑍍𑌰𑌾𑌯᳴𑌨𑍍𑌤𑌾𑌂 𑌮॒𑌰𑍁𑌤𑌾𑌂᳴ 𑌗॒𑌣𑌾𑌃 । 𑌤𑍍𑌰𑌾𑌯᳴𑌨𑍍𑌤𑌾𑌂॒ 𑌵𑌿𑌶𑍍𑌵𑌾᳴ 𑌭𑍂॒𑌤𑌾𑌨𑌿॒ 𑌯𑌥𑌾॒𑌯𑌮᳴𑌰॒𑌪𑌾 𑌅𑌸᳴𑌤𑍍 ॥

𑌆 𑌤𑍍𑌵𑌾᳴𑌗𑌮𑌂॒ 𑌶𑌂𑌤𑌾᳴𑌤𑌿𑌭𑌿॒𑌰𑌥𑍋᳴ 𑌅𑌰𑌿॒𑌷𑍍𑌟𑌤𑌾᳴𑌤𑌿𑌭𑌿𑌃 । 𑌦𑌕𑍍𑌷𑌂᳴ 𑌤 𑌉॒𑌗𑍍𑌰𑌮𑌾𑌭𑌾᳴𑌰𑌿𑌷𑌂॒ 𑌪𑌰𑌾॒ 𑌯𑌕𑍍𑌷𑍍𑌮𑌂᳴ 𑌸𑍁𑌵𑌾𑌮𑌿 𑌤𑍇 ॥

𑌅॒𑌯𑌂 𑌮𑍇॒ 𑌹𑌸𑍍𑌤𑍋॒ 𑌭𑌗᳴𑌵𑌾𑌨॒𑌯𑌂 𑌮𑍇॒ 𑌭𑌗᳴𑌵𑌤𑍍𑌤𑌰𑌃 । 𑌅॒𑌯𑌂 𑌮𑍇᳴ 𑌵𑌿॒𑌶𑍍𑌵𑌭𑍇᳴𑌷𑌜𑍋॒ 𑌽𑌯𑌂 𑌶𑌿॒𑌵𑌾𑌭𑌿᳴𑌮𑌰𑍍𑌶𑌨𑌃 ॥

𑌹𑌸𑍍𑌤𑌾᳴𑌭𑍍𑌯𑌾𑌂॒ 𑌦𑌶᳴𑌶𑌾𑌖𑌾𑌭𑍍𑌯𑌾𑌂 𑌜𑌿॒𑌹𑍍𑌵𑌾 𑌵𑌾॒𑌚𑌃 𑌪𑍁᳴𑌰𑍋𑌗॒𑌵𑍀 । 𑌅॒𑌨𑌾॒𑌮॒𑌯𑌿॒𑌤𑍍𑌨𑍁𑌭𑍍𑌯𑌾𑌂॒ 𑌹𑌸𑍍𑌤𑌾᳴𑌭𑍍𑌯𑌾𑌂॒ 𑌤𑌾𑌭𑍍𑌯𑌾𑌂᳴ 𑌤𑍍𑌵𑌾॒𑌭𑌿 𑌮𑍃᳴𑌶𑌾𑌮𑌸𑌿 ॥

𑌅॒𑌗𑍍𑌨𑍇𑌰𑍍𑌮᳴𑌨𑍍𑌵𑍇 𑌪𑍍𑌰𑌥॒𑌮𑌸𑍍𑌯॒ 𑌪𑍍𑌰𑌚𑍇᳴𑌤𑌸𑌃॒ 𑌪𑌾𑌞𑍍𑌚᳴𑌜𑌨𑍍𑌯𑌸𑍍𑌯 𑌬𑌹𑍁॒𑌧𑌾 𑌯𑌮𑌿॒𑌨𑍍𑌧𑌤𑍇᳴ । 𑌵𑌿𑌶𑍋᳴𑌵𑌿𑌶𑌃 𑌪𑍍𑌰𑌵𑌿𑌶𑌿॒𑌵𑌾𑌂𑌸᳴𑌮𑍀𑌮𑌹𑍇॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌥𑌾᳴ 𑌹॒𑌵𑍍𑌯𑌂 𑌵𑌹᳴𑌸𑌿 𑌜𑌾𑌤𑌵𑍇𑌦𑍋॒ 𑌯𑌥𑌾᳴ 𑌯॒𑌜𑍍𑌞𑌂 𑌕॒𑌲𑍍𑌪𑌯᳴𑌸𑌿 𑌪𑍍𑌰𑌜𑌾॒𑌨𑌨𑍍 । 𑌏॒𑌵𑌾 𑌦𑍇॒𑌵𑍇𑌭𑍍𑌯𑌃᳴ 𑌸𑍁𑌮॒𑌤𑌿𑌂 𑌨॒ 𑌆 𑌵᳴𑌹॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌾𑌮᳴𑌨𑍍𑌯𑌮॒𑌨𑍍𑌨𑍁𑌪᳴𑌯𑍁𑌕𑍍𑌤𑌂॒ 𑌵𑌹𑌿᳴𑌷𑍍𑌠𑌂॒ 𑌕𑌰𑍍𑌮᳴𑌙𑍍𑌕𑌰𑍍𑌮॒𑌨𑍍𑌨𑌾𑌭᳴𑌗𑌮𑍍 । 𑌅𑌗𑍍𑌨𑌿𑌮𑍀᳴𑌡𑍇 𑌰᳴𑌕𑍍𑌷𑍋॒𑌹𑌣𑌂᳴ 𑌯𑌜𑍍𑌞॒𑌵𑍃𑌧𑌂᳴ 𑌘𑍃॒𑌤𑌾𑌹𑍁᳴𑌤𑌂॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌸𑍁𑌜𑌾᳴𑌤𑌂 𑌜𑌾॒𑌤𑌵𑍇᳴𑌦𑌸𑌮॒𑌗𑍍𑌨𑌿𑌂 𑌵𑍈᳴𑌶𑍍𑌵𑌾𑌨॒𑌰𑌂 𑌵𑌿॒𑌭𑍁𑌮𑍍 । 𑌹॒𑌵𑍍𑌯॒𑌵𑌾𑌹𑌂᳴ 𑌹𑌵𑌾𑌮𑌹𑍇॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑍇𑌨॒ 𑌋𑌷᳴𑌯𑍋 𑌬॒𑌲𑌮𑌦𑍍𑌯𑍋᳴𑌤𑌯𑌨𑍍𑌯𑍁॒𑌜𑌾 𑌯𑍇𑌨𑌾𑌸𑍁᳴𑌰𑌾𑌣𑌾॒𑌮𑌯𑍁᳴𑌵𑌨𑍍𑌤 𑌮𑌾॒𑌯𑌾𑌃 । 𑌯𑍇𑌨𑌾॒𑌗𑍍𑌨𑌿𑌨𑌾᳴ 𑌪॒𑌣𑍀𑌨𑌿𑌨𑍍𑌦𑍍𑌰𑍋᳴ 𑌜𑌿॒𑌗𑌾𑌯॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑍇𑌨᳴ 𑌦𑍇॒𑌵𑌾 𑌅॒𑌮𑍃𑌤᳴𑌮॒𑌨𑍍𑌵𑌵𑌿᳴𑌨𑍍𑌦॒𑌨𑍍𑌯𑍇𑌨𑍌𑌷᳴𑌧𑍀॒𑌰𑍍𑌮𑌧𑍁᳴𑌮𑌤𑍀॒𑌰𑌕𑍃𑌣𑍍𑌵𑌨𑍍 । 𑌯𑍇𑌨᳴ 𑌦𑍇॒𑌵𑌾𑌃 𑌸𑍍𑌵᳴௧॒𑌰𑌾𑌭᳴𑌰॒𑌨𑍍𑌤𑍍𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌸𑍍𑌯𑍇॒𑌦𑌂 𑌪𑍍𑌰॒𑌦𑌿𑌶𑌿॒ 𑌯𑌦𑍍𑌵𑌿॒𑌰𑍋𑌚᳴𑌤𑍇॒ 𑌯𑌜𑍍𑌜𑌾॒𑌤𑌂 𑌜᳴𑌨𑌿𑌤॒𑌵𑍍𑌯𑌂𑌚॒ 𑌕𑍇𑌵᳴𑌲𑌮𑍍 । 𑌸𑍍𑌤𑍌𑌮𑍍𑌯॒𑌗𑍍𑌨𑌿𑌂 𑌨᳴𑌾𑌥𑌿॒𑌤𑍋 𑌜𑍋᳴𑌹𑌵𑍀𑌮𑌿॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌇𑌨𑍍𑌦𑍍𑌰᳴𑌸𑍍𑌯 𑌮𑌨𑍍𑌮𑌹𑍇॒ 𑌶𑌶𑍍𑌵॒𑌦𑌿𑌦᳴𑌸𑍍𑌯 𑌮𑌨𑍍𑌮𑌹𑍇 𑌵𑍃𑌤𑍍𑌰॒𑌘𑍍𑌨 𑌸𑍍𑌤𑍋𑌮𑌾॒ 𑌉𑌪᳴ 𑌮𑍇॒𑌮 𑌆𑌗𑍁𑌃᳴ । 𑌯𑍋 𑌦𑌾॒𑌶𑍁𑌷𑌃᳴ 𑌸𑍁॒𑌕𑍃𑌤𑍋॒ 𑌹𑌵॒𑌮𑍇𑌤𑌿॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯 𑌉॒𑌗𑍍𑌰𑍀𑌣𑌾᳴𑌮𑍁॒𑌗𑍍𑌰𑌬𑌾᳴𑌹𑍁𑌰𑍍𑌯॒𑌯𑍁𑌰𑍍𑌯𑍋 𑌦𑌾᳴𑌨॒𑌵𑌾𑌨𑌾𑌂॒ 𑌬𑌲᳴𑌮𑌾𑌰𑍁॒𑌰𑍋𑌜᳴ । 𑌯𑍇𑌨᳴ 𑌜𑌿॒𑌤𑌾𑌃 𑌸𑌿𑌨𑍍𑌧᳴𑌵𑍋॒ 𑌯𑍇𑌨॒ 𑌗𑌾𑌵𑌃॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌶𑍍𑌚᳴𑌰𑍍𑌷𑌣𑌿॒𑌪𑍍𑌰𑍋 𑌵𑍃᳴𑌷॒𑌭𑌃 𑌸𑍍𑌵॒𑌰𑍍𑌵𑌿𑌦𑍍𑌯𑌸𑍍𑌮𑍈॒ 𑌗𑍍𑌰𑌾𑌵𑌾᳴𑌣𑌃 𑌪𑍍𑌰॒𑌵𑌦᳴𑌨𑍍𑌤𑌿 𑌨𑍃॒𑌮𑍍𑌣𑌮𑍍 । 𑌯𑌸𑍍𑌯𑌾᳴𑌧𑍍𑌵॒𑌰𑌃 𑌸॒𑌪𑍍𑌤𑌹𑍋᳴𑌤𑌾॒ 𑌮𑌦𑌿᳴𑌷𑍍𑌠𑌃॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌸𑍍𑌯᳴ 𑌵॒𑌶𑌾𑌸᳴ 𑌋𑌷॒𑌭𑌾𑌸᳴ 𑌉॒𑌕𑍍𑌷𑌣𑍋॒ 𑌯𑌸𑍍𑌮𑍈᳴ 𑌮𑍀॒𑌯𑌨𑍍𑌤𑍇॒ 𑌸𑍍𑌵𑌰᳴𑌵𑌃 𑌸𑍍𑌵॒𑌰𑍍𑌵𑌿𑌦𑍇᳴ । 𑌯𑌸𑍍𑌮𑍈᳴ 𑌶𑍁॒𑌕𑍍𑌰𑌃 𑌪𑌵᳴𑌤𑍇॒ 𑌬𑍍𑌰𑌹𑍍𑌮᳴𑌶𑍁𑌮𑍍𑌭𑌿𑌤𑌃॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌸𑍍𑌯॒ 𑌜𑍁𑌷𑍍𑌟𑌿𑌂᳴ 𑌸𑍋॒𑌮𑌿𑌨𑌃᳴ 𑌕𑌾॒𑌮𑌯᳴𑌨𑍍𑌤𑍇॒ 𑌯𑌂 𑌹𑌵᳴𑌨𑍍𑌤॒ 𑌇𑌷𑍁᳴𑌮𑌨𑍍𑌤𑌂॒ 𑌗𑌵𑌿᳴𑌷𑍍𑌟𑍌 । 𑌯𑌸𑍍𑌮𑌿᳴𑌨𑍍𑌨॒𑌰𑍍𑌕𑌃 𑌶𑌿᳴𑌶𑍍𑌰𑌿॒𑌯𑍇 𑌯𑌸𑍍𑌮𑌿॒𑌨𑍍𑌨𑍋𑌜𑌃॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌃 𑌪𑍍𑌰᳴𑌥॒𑌮𑌃 𑌕᳴𑌰𑍍𑌮॒𑌕𑍃𑌤𑍍𑌯𑌾᳴𑌯 𑌜॒𑌜𑍍𑌞𑍇 𑌯𑌸𑍍𑌯᳴ 𑌵𑍀॒𑌰𑍍𑌯᳴𑌮𑍍𑌪𑍍𑌰𑌥॒𑌮𑌸𑍍𑌯𑌾𑌨𑍁᳴𑌬𑍁𑌦𑍍𑌧𑌮𑍍 । 𑌯𑍇𑌨𑍋𑌦𑍍𑌯᳴𑌤𑍋॒ 𑌵𑌜𑍍𑌰𑍋॒𑌽𑌭𑍍𑌯𑌾𑌯॒𑌤𑌾𑌹𑌿𑌂॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌃 𑌸𑌂᳴𑌗𑍍𑌰𑌾॒𑌮𑌾𑌨𑍍𑌨᳴𑌯𑌤𑌿॒ 𑌸𑌂 𑌯𑍁॒𑌧𑍇 𑌵॒𑌶𑍀 𑌯𑌃 𑌪𑍁॒𑌷𑍍𑌟𑌾𑌨𑌿᳴ 𑌸𑌂𑌸𑍃॒𑌜𑌤𑌿᳴ 𑌦𑍍𑌵॒𑌯𑌾𑌨𑌿᳴ । 𑌸𑍍𑌤𑍌𑌮𑍀𑌨𑍍𑌦𑍍𑌰𑌂᳴ 𑌨𑌾𑌥𑌿॒𑌤𑍋 𑌜𑍋᳴𑌹𑌵𑍀𑌮𑌿॒ 𑌸 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹𑌸𑌃 ॥

𑌵𑌾॒𑌯𑍋𑌃 𑌸᳴𑌵𑌿॒𑌤𑍁𑌰𑍍𑌵𑌿॒𑌦𑌥𑌾᳴𑌨𑌿 𑌮𑌨𑍍𑌮𑌹𑍇॒ 𑌯𑌾𑌵𑌾᳴𑌤𑍍𑌮॒𑌨𑍍𑌵𑌦𑍍𑌵𑌿॒𑌶𑌥𑍋॒ 𑌯𑍌 𑌚॒ 𑌰𑌕𑍍𑌷᳴𑌥𑌃 । 𑌯𑍌 𑌵𑌿𑌶𑍍𑌵᳴𑌸𑍍𑌯 𑌪𑌰𑌿॒𑌭𑍂 𑌬᳴𑌭𑍂॒𑌵𑌥𑍁॒𑌸𑍍𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌯𑍋𑌃॒ 𑌸𑌂𑌖𑍍𑌯𑌾᳴𑌤𑌾॒ 𑌵𑌰𑌿᳴𑌮𑌾॒ 𑌪𑌾𑌿𑌰𑍍𑌥𑌵𑌾𑌨𑌿॒ 𑌯𑌾𑌭𑍍𑌯𑌾𑌂॒ 𑌰𑌜𑍋᳴ 𑌯𑍁𑌪𑌿॒𑌤𑌮॒𑌨𑍍𑌤𑌰𑌿᳴𑌕𑍍𑌷𑍇 । 𑌯𑌯𑍋𑌃᳴ 𑌪𑍍𑌰𑌾॒𑌯𑌂 𑌨𑌾𑌨𑍍𑌵𑌾᳴𑌨॒𑌶𑍇 𑌕𑌶𑍍𑌚॒𑌨 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌤𑌵᳴ 𑌵𑍍𑌰॒𑌤𑍇 𑌨𑌿 𑌵𑌿᳴𑌶𑌨𑍍𑌤𑍇॒ 𑌜𑌨𑌾᳴𑌸॒𑌸𑍍𑌤𑍍𑌵𑌯𑍍𑌯𑍁𑌦𑌿᳴𑌤𑍇॒ 𑌪𑍍𑌰𑍇𑌰᳴𑌤𑍇 𑌚𑌿𑌤𑍍𑌰𑌭𑌾𑌨𑍋 । 𑌯𑍁॒𑌵𑌂 𑌵𑌾᳴𑌯𑍋 𑌸𑌵𑌿॒𑌤𑌾 𑌚॒ 𑌭𑍁𑌵᳴𑌨𑌾𑌨𑌿 𑌰𑌕𑍍𑌷𑌥॒𑌸𑍍𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌅𑌪𑍇॒𑌤𑍋 𑌵𑌾᳴𑌯𑍋 𑌸𑌵𑌿॒𑌤𑌾 𑌚᳴ 𑌦𑍁𑌷𑍍𑌕𑍃॒𑌤𑌮𑌪॒ 𑌰𑌕𑍍𑌷𑌾𑌂᳴𑌸𑌿॒ 𑌶𑌿𑌮𑌿᳴𑌦𑌾𑌂 𑌚 𑌸𑍇𑌧𑌤𑌮𑍍 । 𑌸𑌂 𑌹𑍍𑌯𑍂𑌰𑍍𑌜𑌯𑌾᳴ 𑌸𑍃॒𑌜𑌥𑌃॒ 𑌸𑌂 𑌬𑌲𑍇᳴𑌨॒ 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌰॒𑌯𑌿𑌂 𑌮𑍇॒ 𑌪𑍋𑌷𑌂᳴ 𑌸𑌵𑌿॒𑌤𑍋𑌤 𑌵𑌾॒𑌯𑍁𑌸𑍍𑌤॒𑌨𑍂 𑌦𑌕𑍍𑌷॒𑌮𑌾 𑌸𑍁᳴𑌵𑌤𑌾𑌂 𑌸𑍁॒𑌶𑍇𑌵᳴𑌮𑍍 । 𑌅᳴𑌯॒𑌕𑍍𑌷𑍍𑌮𑌤𑌾᳴𑌤𑌿𑌂॒ 𑌮𑌹᳴ 𑌇॒𑌹 𑌧᳴𑌤𑍍𑌤𑌂॒ 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌪𑍍𑌰 𑌸𑍁᳴𑌮॒𑌤𑌿𑌂 𑌸᳴𑌵𑌿𑌤𑌰𑍍𑌵𑌾𑌯 𑌊॒𑌤𑌯𑍇॒ 𑌮𑌹᳴𑌸𑍍𑌵𑌨𑍍𑌤𑌂 𑌮𑌤𑍍𑌸॒𑌰𑌂 𑌮𑌾᳴𑌦𑌯𑌾𑌥𑌃 । 𑌅॒𑌰𑍍𑌵𑌾𑌗𑍍𑌵𑌾॒𑌮𑌸𑍍𑌯᳴ 𑌪𑍍𑌰॒𑌵𑌤𑍋॒ 𑌨𑌿 𑌯᳴𑌛𑌤𑌂॒ 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌉॒𑌪 𑌶𑍍𑌰𑍇𑌷𑍍𑌠𑌾᳴ 𑌨 𑌆॒𑌶𑌿𑌷𑍋᳴ 𑌦𑍇॒𑌵𑌯𑍋॒𑌰𑍍𑌧𑌾𑌮᳴𑌨𑍍𑌨𑌸𑍍𑌥𑌿𑌰𑌨𑍍 । 𑌸𑍍𑌤𑍌𑌮𑌿᳴ 𑌦𑍇॒𑌵𑌂 𑌸᳴𑌵𑌿॒𑌤𑌾𑌰𑌂᳴ 𑌚 𑌵𑌾॒𑌯𑍁𑌂 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌮॒𑌨𑍍𑌵𑍇 𑌵𑌾𑌂᳴ 𑌦𑍍𑌯𑌾𑌵𑌾𑌪𑍃𑌥𑌿𑌵𑍀 𑌸𑍁𑌭𑍋𑌜𑌸𑍌॒ 𑌸𑌚𑍇᳴𑌤𑌸𑍌॒ 𑌯𑍇 𑌅𑌪𑍍𑌰᳴𑌥𑍇𑌥𑌾॒𑌮𑌮𑌿᳴𑌤𑌾॒ 𑌯𑍋𑌜᳴𑌨𑌾𑌨𑌿 । 𑌪𑍍𑌰॒𑌤𑌿॒𑌷𑍍𑌠𑍇 𑌹𑍍𑌯𑌭᳴𑌵𑌤𑌂॒ 𑌵𑌸𑍂᳴𑌨𑌾𑌂॒ 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌪𑍍𑌰॒𑌤𑌿॒𑌷𑍍𑌠𑍇 𑌹𑍍𑌯𑌭᳴𑌵𑌤𑌂॒ 𑌵𑌸𑍂᳴𑌨𑌾𑌂॒ 𑌪𑍍𑌰𑌵𑍃᳴𑌦𑍍𑌧𑍇 𑌦𑍇𑌵𑍀 𑌸𑍁𑌭𑌗𑍇 𑌉𑌰𑍂𑌚𑍀 । 𑌦𑍍𑌯𑌾𑌵𑌾᳴𑌪𑍃𑌥𑌿𑌵𑍀॒ 𑌭𑌵᳴𑌤𑌂 𑌮𑍇 𑌸𑍍𑌯𑍋॒𑌨𑍇 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌅॒𑌸॒𑌨𑍍𑌤𑌾॒𑌪𑍇 𑌸𑍁॒𑌤𑌪᳴𑌸𑍌 𑌹𑍁𑌵𑍇॒ 𑌽𑌹𑌮𑍁॒𑌰𑍍𑌵𑍀 𑌗᳴𑌮𑍍𑌭𑍀॒𑌰𑍇 𑌕॒𑌵𑌿𑌭𑌿᳴𑌰𑍍𑌨𑌮॒𑌸𑍍𑌯𑍇 । 𑌦𑍍𑌯𑌾𑌵𑌾᳴𑌪𑍃𑌥𑌿𑌵𑍀॒ 𑌭𑌵᳴𑌤𑌂 𑌮𑍇 𑌸𑍍𑌯𑍋॒𑌨𑍇 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑍇 𑌅॒𑌮𑍃𑌤𑌂᳴ 𑌬𑌿𑌭𑍃॒𑌥𑍋 𑌯𑍇 𑌹॒𑌵𑍀𑌂𑌷𑌿॒ 𑌯𑍇 𑌸𑍍𑌰𑍋॒𑌤𑍍𑌯𑌾 𑌬𑌿᳴𑌭𑍃॒𑌥𑍋 𑌯𑍇 𑌮᳴𑌨𑍁॒𑌷𑍍𑌯𑌾᳴𑌨𑍍 । 𑌦𑍍𑌯𑌾𑌵𑌾᳴𑌪𑍃𑌥𑌿𑌵𑍀॒ 𑌭𑌵᳴𑌤𑌂 𑌮𑍇 𑌸𑍍𑌯𑍋॒𑌨𑍇 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑍇 𑌉॒𑌸𑍍𑌰𑌿𑌯𑌾᳴ 𑌬𑌿𑌭𑍃॒𑌥𑍋 𑌯𑍇 𑌵𑌨॒𑌸𑍍𑌪𑌤𑍀॒𑌨𑍍𑌯𑌯𑍋᳴𑌰𑍍𑌵𑌾𑌂॒ 𑌵𑌿𑌶𑍍𑌵𑌾॒ 𑌭𑍁𑌵᳴𑌨𑌾𑌨𑍍𑌯॒𑌨𑍍𑌤𑌃 । 𑌦𑍍𑌯𑌾𑌵𑌾᳴𑌪𑍃𑌥𑌿𑌵𑍀॒ 𑌭𑌵᳴𑌤𑌂 𑌮𑍇 𑌸𑍍𑌯𑍋॒𑌨𑍇 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑍇 𑌕𑍀॒𑌲𑌾𑌲𑍇᳴𑌨 𑌤॒𑌰𑍍𑌪𑌯᳴𑌥𑍋॒ 𑌯𑍇 𑌘𑍃॒𑌤𑍇𑌨॒ 𑌯𑌾𑌭𑍍𑌯𑌾᳴𑌮𑍃॒𑌤𑍇 𑌨 𑌕𑌿𑌂 𑌚॒𑌨 𑌶᳴𑌕𑍍𑌨𑍁॒𑌵𑌨𑍍𑌤𑌿᳴ । 𑌦𑍍𑌯𑌾𑌵𑌾᳴𑌪𑍃𑌥𑌿𑌵𑍀॒ 𑌭𑌵᳴𑌤𑌂 𑌮𑍇 𑌸𑍍𑌯𑍋॒𑌨𑍇 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌨𑍍𑌮𑍇𑌦𑌮᳴𑌭𑌿॒𑌶𑍋𑌚᳴𑌤𑌿॒ 𑌯𑍇𑌨᳴𑌯𑍇𑌨 𑌵𑌾 𑌕𑍃॒𑌤𑌂 𑌪𑍌𑌰𑍁᳴𑌷𑍇𑌯𑌾॒𑌨𑍍𑌨 𑌦𑍈𑌵𑌾᳴𑌤𑍍 । 𑌸𑍍𑌤𑍌𑌮𑌿॒ 𑌦𑍍𑌯𑌾𑌵𑌾᳴𑌪𑍃𑌥𑌿॒𑌵𑍀 𑌨𑌾᳴𑌥𑌿॒𑌤𑍋 𑌜𑍋᳴𑌹𑌵𑍀𑌮𑌿॒ 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌮𑍍𑌹᳴𑌸𑌃 ॥

𑌮॒𑌰𑍁𑌤𑌾𑌂᳴ 𑌮𑌨𑍍𑌵𑍇॒ 𑌅𑌧𑌿᳴ 𑌮𑍇 𑌬𑍍𑌰𑍁𑌵𑌨𑍍𑌤𑍁॒ 𑌪𑍍𑌰𑍇𑌮𑌂 𑌵𑌾𑌜𑌂॒ 𑌵𑌾𑌜᳴𑌸𑌾𑌤𑍇 𑌅𑌵𑌨𑍍𑌤𑍁 । 𑌆॒𑌶𑍂𑌨𑌿᳴𑌵 𑌸𑍁॒𑌯𑌮𑌾᳴𑌨𑌹𑍍𑌵 𑌊॒𑌤𑌯𑍇॒ 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌉𑌤𑍍𑌸॒𑌮𑌕𑍍𑌷𑌿᳴𑌤𑌂॒ 𑌵𑍍𑌯𑌚᳴𑌨𑍍𑌤𑌿॒ 𑌯𑍇 𑌸𑌦𑌾॒ 𑌯 𑌆᳴𑌸𑌿॒𑌞𑍍𑌚𑌨𑍍𑌤𑌿॒ 𑌰𑌸॒𑌮𑍋𑌷᳴𑌧𑍀𑌷𑍁 । 𑌪𑍁॒𑌰𑍋 𑌦᳴𑌧𑍇 𑌮॒𑌰𑍁𑌤𑌃॒ 𑌪𑍃𑌶𑍍𑌨𑌿᳴𑌮𑌾𑌤𑍄𑌂॒𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌪𑌯𑍋᳴ 𑌧𑍇𑌨𑍂॒𑌨𑌾𑌂 𑌰𑌸॒𑌮𑍋𑌷᳴𑌧𑍀𑌨𑌾𑌂 𑌜॒𑌵𑌮𑌰𑍍𑌵᳴𑌤𑌾𑌂 𑌕𑌵𑌯𑍋॒ 𑌯 𑌇𑌨𑍍𑌵᳴𑌥 । 𑌶॒𑌗𑍍𑌮𑌾 𑌭᳴𑌵𑌨𑍍𑌤𑍁 𑌮॒𑌰𑍁𑌤𑍋᳴ 𑌨𑌃 𑌸𑍍𑌯𑍋॒𑌨𑌾𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌅॒𑌪𑌃 𑌸᳴𑌮𑍁॒𑌦𑍍𑌰𑌾𑌦𑍍𑌦𑌿𑌵॒𑌮𑍁𑌦𑍍𑌵᳴𑌹𑌨𑍍𑌤𑌿 𑌦𑌿॒𑌵𑌸𑍍𑌪𑍃᳴𑌥𑌿॒𑌵𑍀𑌮॒𑌭𑌿 𑌯𑍇 𑌸𑍃॒𑌜𑌨𑍍𑌤𑌿᳴ । 𑌯𑍇 𑌅॒𑌦𑍍𑌭𑌿𑌰𑍀𑌶𑌾᳴𑌨𑌾 𑌮॒𑌰𑍁𑌤॒॒𑌶𑍍𑌚𑌰᳴𑌨𑍍𑌤𑌿॒ 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑍇 𑌕𑍀॒𑌲𑌾𑌲𑍇᳴𑌨 𑌤॒𑌰𑍍𑌪𑌯᳴𑌨𑍍𑌤𑌿॒ 𑌯𑍇 𑌘𑍃॒𑌤𑍇𑌨॒ 𑌯𑍇 𑌵𑌾॒ 𑌵𑌯𑍋॒ 𑌮𑍇𑌦᳴𑌸𑌾 𑌸𑌂𑌸𑍃॒𑌜𑌨𑍍𑌤𑌿᳴ । 𑌯𑍇 𑌅॒𑌦𑍍𑌭𑌿𑌰𑍀𑌶𑌾᳴𑌨𑌾 𑌮॒𑌰𑍁𑌤𑍋᳴ 𑌵॒𑌰𑍍𑌷𑌯᳴𑌨𑍍𑌤𑌿॒ 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌦𑍀𑌦𑌿॒𑌦𑌂 𑌮᳴𑌰𑍁𑌤𑍋॒ 𑌮𑌾𑌰𑍁᳴𑌤𑍇𑌨॒ 𑌯𑌦𑌿᳴ 𑌦𑍇𑌵𑌾॒ 𑌦𑍈𑌵𑍍𑌯𑍇᳴𑌨𑍇॒𑌦𑍃𑌗𑌾𑌰᳴ । 𑌯𑍂॒𑌯𑌮𑍀᳴𑌶𑌿𑌧𑍍𑌵𑍇 𑌵𑌸𑌵॒𑌸𑍍𑌤𑌸𑍍𑌯॒ 𑌨𑌿𑌷𑍍𑌕𑍃᳴𑌤𑍇॒𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌤𑌿॒𑌗𑍍𑌮𑌮𑌨𑍀᳴𑌕𑌮𑍍𑌵𑌿𑌦𑌿॒𑌤𑌂 𑌸𑌹᳴𑌸𑍍𑌵॒𑌨𑍍𑌮𑌾𑌰𑍁᳴𑌤𑌂॒ 𑌶𑌰𑍍𑌧𑌃॒ 𑌪𑍃𑌤᳴𑌨𑌾𑌸𑍂॒𑌗𑍍𑌰𑌮𑍍 । 𑌸𑍍𑌤𑍌𑌮𑌿᳴ 𑌮॒𑌰𑍁𑌤𑍋᳴ 𑌨𑌾𑌥𑌿॒𑌤𑍋 𑌜𑍋᳴𑌹𑌵𑍀𑌮𑌿॒ 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌭𑌵𑌾᳴𑌶𑌰𑍍𑌵𑍌 𑌮॒𑌨𑍍𑌵𑍇 𑌵𑌾𑌂॒ 𑌤𑌸𑍍𑌯᳴ 𑌵𑌿𑌤𑍍𑌤𑌂॒ 𑌯𑌯𑍋᳴𑌰𑍍𑌵𑌾𑌮𑌿॒𑌦𑌂 𑌪𑍍𑌰॒𑌦𑌿𑌶𑌿॒ 𑌯𑌦𑍍𑌵𑌿॒𑌰𑍋𑌚᳴𑌤𑍇 । 𑌯𑌾𑌵॒𑌸𑍍𑌯𑍇𑌶𑌾᳴𑌥𑍇 𑌦𑍍𑌵𑌿॒𑌪𑌦𑍋॒ 𑌯𑍌 𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌦॒𑌸𑍍𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌯𑍋᳴𑌰𑌭𑍍𑌯॒𑌧𑍍𑌵 𑌉॒𑌤 𑌯𑌦𑍍𑌦𑍂॒𑌰𑍇 𑌚𑌿॒𑌦𑍍𑌯𑍌 𑌵𑌿᳴𑌦𑌿॒𑌤𑌾𑌵𑌿᳴𑌷𑍁॒𑌭𑍃𑌤𑌾॒𑌮𑌸𑌿᳴𑌷𑍍𑌠𑍌 । 𑌯𑌾𑌵॒𑌸𑍍𑌯𑍇𑌶᳴𑌥𑍇 𑌦𑍍𑌵𑌿॒𑌪𑌦𑍋॒ 𑌯𑍌 𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌦॒𑌸𑍍𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌸॒𑌹॒𑌸𑍍𑌰𑌾॒𑌕𑍍𑌷𑍌 𑌵𑍃᳴𑌤𑍍𑌰॒𑌹𑌨𑌾᳴ 𑌹𑍁𑌵𑍇॒𑌹𑌂 𑌦𑍂॒𑌰𑍇𑌗᳴𑌵𑍍𑌯𑍂𑌤𑍀 𑌸𑍍𑌤𑍁॒𑌵𑌨𑍍𑌨𑍇᳴𑌮𑍍𑌯𑍁॒𑌗𑍍𑌰𑍌 । 𑌯𑌾𑌵॒𑌸𑍍𑌯𑍇𑌶᳴𑌥𑍇 𑌦𑍍𑌵𑌿॒𑌪𑌦𑍋॒ 𑌯𑍌 𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌦॒𑌸𑍍𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌾𑌵𑌾᳴𑌰𑍇॒𑌭𑌾𑌥𑍇᳴ 𑌬॒𑌹𑍁 𑌸𑌾॒𑌕𑌮𑌗𑍍𑌰𑍇॒ 𑌪𑍍𑌰 𑌚𑍇𑌦𑌸𑍍𑌰𑌾᳴𑌷𑍍𑌟𑍍𑌰𑌮𑌭𑌿॒𑌭𑌾𑌂 𑌜𑌨𑍇᳴𑌷𑍁 । 𑌯𑌾𑌵॒𑌸𑍍𑌯𑍇𑌶᳴𑌥𑍇 𑌦𑍍𑌵𑌿॒𑌪𑌦𑍋॒ 𑌯𑍌 𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌦॒𑌸𑍍𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌯𑍋᳴𑌰𑍍𑌵॒𑌧𑌾𑌨𑍍𑌨𑌾𑌪॒𑌪𑌦𑍍𑌯᳴𑌤𑍇॒ 𑌕𑌶𑍍𑌚॒𑌨𑌾𑌨𑍍𑌤𑌰𑍍𑌦𑍇॒𑌵𑍇𑌷𑍂॒𑌤 𑌮𑌾𑌨𑍁᳴𑌷𑍇𑌷𑍁 । 𑌯𑌾𑌵॒𑌸𑍍𑌯𑍇𑌶᳴𑌥𑍇 𑌦𑍍𑌵𑌿॒𑌪𑌦𑍋॒ 𑌯𑍌 𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌦॒𑌸𑍍𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌃 𑌕𑍃᳴𑌤𑍍𑌯𑌾॒𑌕𑍃𑌨𑍍𑌮𑍂᳴𑌲॒𑌕𑍃𑌦𑍍𑌯𑌾᳴𑌤𑍁॒𑌧𑌾𑌨𑍋॒ 𑌨𑌿 𑌤𑌸𑍍𑌮𑌿᳴𑌨𑍍𑌧𑌤𑍍𑌤𑌂॒ 𑌵𑌜𑍍𑌰᳴𑌮𑍁॒𑌗𑍍𑌰𑍌 । 𑌯𑌾𑌵॒𑌸𑍍𑌯𑍇𑌶᳴𑌥𑍇 𑌦𑍍𑌵𑌿॒𑌪𑌦𑍋॒ 𑌯𑍌 𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌦॒𑌸𑍍𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌅𑌧𑌿᳴ 𑌨𑍋 𑌬𑍍𑌰𑍂𑌤𑌂॒ 𑌪𑍃𑌤᳴𑌨𑌾𑌸𑍂𑌗𑍍𑌰𑍌॒ 𑌸𑌂 𑌵𑌜𑍍𑌰𑍇᳴𑌣 𑌸𑍃𑌜𑌤𑌂॒ 𑌯𑌃 𑌕𑌿᳴𑌮𑍀॒𑌦𑍀 । 𑌸𑍍𑌤𑍌𑌮𑌿᳴ 𑌭𑌵𑌾𑌶॒𑌰𑍍𑌵𑍌 𑌨𑌾᳴𑌥𑌿॒𑌤𑍋 𑌜𑍋᳴𑌹𑌵𑍀𑌮𑌿॒ 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌮॒𑌨𑍍𑌵𑍇 𑌵𑌾𑌂᳴ 𑌮𑌿𑌤𑍍𑌰𑌾𑌵𑌰𑍁𑌣𑌾𑌵𑍃𑌤𑌾𑌵𑍃𑌧𑍌॒ 𑌸𑌚𑍇᳴𑌤𑌸𑍌॒ 𑌦𑍍𑌰𑍁𑌹𑍍𑌵᳴𑌣𑍋॒ 𑌯𑍌 𑌨𑍁॒𑌦𑍇𑌥𑍇᳴ । 𑌪𑍍𑌰 𑌸॒𑌤𑍍𑌯𑌾𑌵𑌾᳴𑌨॒𑌮𑌵᳴𑌥𑍋॒ 𑌭𑌰𑍇᳴𑌷𑍁॒ 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌸𑌚𑍇᳴𑌤𑌸𑍌॒ 𑌦𑍍𑌰𑍁𑌹𑍍𑌵᳴𑌣𑍋॒ 𑌯𑍌 𑌨𑍁॒𑌦𑍇𑌥𑍇॒ 𑌪𑍍𑌰 𑌸॒𑌤𑍍𑌯𑌾𑌵𑌾᳴𑌨॒𑌮𑌵᳴𑌥𑍋॒ 𑌭𑌰𑍇᳴𑌷𑍁 । 𑌯𑍌 𑌗𑌛᳴𑌥𑍋 𑌨𑍃॒𑌚𑌕𑍍𑌷᳴𑌸𑍌 𑌬॒𑌭𑍍𑌰𑍁𑌣𑌾᳴ 𑌸𑍁॒𑌤𑌂 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌾𑌵𑌙𑍍𑌗𑌿᳴𑌰𑌸॒𑌮𑌵᳴𑌥𑍋॒ 𑌯𑌾𑌵॒𑌗𑌸𑍍𑌤𑌿𑌂॒ 𑌮𑌿𑌤𑍍𑌰𑌾᳴𑌵𑌰𑍁𑌣𑌾 𑌜॒𑌮𑌦᳴𑌗𑍍𑌨𑌿॒𑌮𑌤𑍍𑌤𑍍𑌰𑌿᳴𑌮𑍍 । 𑌯𑍌 𑌕॒𑌶𑍍𑌯𑌪॒𑌮𑌵᳴𑌥𑍋॒ 𑌯𑍌 𑌵𑌸𑌿᳴𑌷𑍍𑌠𑌂॒ 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑍌 𑌶𑍍𑌯𑌾॒𑌵𑌾𑌶𑍍𑌵॒𑌮𑌵᳴𑌥𑍋 𑌵𑌾𑌧𑍍𑌰𑍍𑌯॒𑌶𑍍𑌵𑌂 𑌮𑌿𑌤𑍍𑌰𑌾᳴𑌵𑌰𑍁𑌣𑌾 𑌪𑍁𑌰𑍁𑌮𑍀॒𑌢𑌮𑌤𑍍𑌤𑍍𑌰𑌿᳴𑌮𑍍 । 𑌯𑍌 𑌵𑌿᳴𑌮॒𑌦𑌮𑌵᳴𑌥𑍋 𑌸॒𑌪𑍍𑌤𑌵᳴𑌧𑍍𑌰𑌿𑌂॒ 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑍌 𑌭॒𑌰𑌦𑍍𑌵𑌾᳴𑌜॒𑌮𑌵᳴𑌥𑍋॒ 𑌯𑍌 𑌗𑌵𑌿𑌷𑍍𑌠𑌿᳴𑌰𑌂 𑌵𑌿॒𑌶𑍍𑌵𑌾𑌮𑌿᳴𑌤𑍍𑌰𑌂 𑌵𑌰𑍁𑌣 𑌮𑌿𑌤𑍍𑌰॒ 𑌕𑍁𑌤𑍍𑌸᳴𑌮𑍍 । 𑌯𑍌 𑌕॒𑌕𑍍𑌷𑍀𑌵᳴𑌨𑍍𑌤॒𑌮𑌵᳴𑌥 𑌪𑍍𑌰𑍋𑌤 𑌕𑌣𑍍𑌵𑌂॒ 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑍌 𑌮𑍇𑌧𑌾᳴𑌤𑌿𑌥𑌿॒𑌮𑌵᳴𑌥𑍋॒ 𑌯𑍌 𑌤𑍍𑌰𑌿॒𑌶𑍋𑌕𑌂॒ 𑌮𑌿𑌤𑍍𑌰𑌾᳴𑌵𑌰𑍁𑌣𑌾𑌵𑍁॒𑌶𑌨𑌾᳴𑌮𑍍𑌕𑌾॒𑌵𑍍𑌯𑌂 𑌯𑍌 । 𑌯𑍌 𑌗𑍋𑌤᳴𑌮॒𑌮𑌵᳴𑌥 𑌪𑍍𑌰𑍋𑌤 𑌮𑍁𑌗𑍍𑌦᳴𑌲𑌂॒ 𑌤𑍌 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌯𑍋॒ 𑌰𑌥𑌃᳴ 𑌸॒𑌤𑍍𑌯𑌵᳴𑌰𑍍𑌤𑍍𑌮॒ 𑌰𑍍𑌜𑍁𑌰᳴𑌶𑍍𑌮𑌿𑌰𑍍𑌮𑌿𑌥𑍁॒𑌯𑌾 𑌚𑌰᳴𑌨𑍍𑌤𑌮𑌭𑌿॒𑌯𑌾𑌤𑌿᳴ 𑌦𑍂॒𑌷𑌯᳴𑌨𑍍 । 𑌸𑍍𑌤𑍌𑌮𑌿᳴ 𑌮𑌿॒𑌤𑍍𑌰𑌾𑌵𑌰𑍁᳴𑌣𑍌 𑌨𑌾𑌥𑌿॒𑌤𑍋 𑌜𑍋᳴𑌹𑌵𑍀𑌮𑌿॒ 𑌤𑍌 𑌨𑍋 𑌮𑍁𑌞𑍍𑌚𑌤॒𑌮𑌂𑌹᳴𑌸𑌃 ॥

𑌅𑌪᳴ 𑌨𑌃॒ 𑌶𑍋𑌶𑍁᳴𑌚𑌦॒𑌘𑌮𑌗𑍍𑌨𑍇᳴ 𑌶𑍁𑌶𑍁॒𑌗𑍍𑌧𑍍𑌯𑌾 𑌰॒𑌯𑌿𑌮𑍍 । 𑌅𑌪᳴ 𑌨𑌃॒ 𑌶𑍋𑌶𑍁᳴𑌚𑌦॒𑌘𑌮𑍍 ॥

𑌸𑍁॒𑌕𑍍𑌷𑍇॒𑌤𑍍𑌰𑌿॒𑌯𑌾 𑌸𑍁᳴𑌗𑌾𑌤𑍁॒𑌯𑌾 𑌵᳴𑌸𑍂॒𑌯𑌾 𑌚᳴ 𑌯𑌜𑌾𑌮𑌹𑍇 । 𑌅𑌪᳴ 𑌨𑌃॒ 𑌶𑍋𑌶𑍁᳴𑌚𑌦॒𑌘𑌮𑍍 ॥

𑌪𑍍𑌰 𑌯𑌦𑍍𑌭𑌨𑍍𑌦𑌿᳴𑌷𑍍𑌠 𑌏𑌷𑌾𑌂॒ 𑌪𑍍𑌰𑌾𑌸𑍍𑌮𑌾𑌕𑌾᳴𑌸𑌶𑍍𑌚 𑌸𑍂॒𑌰𑌯𑌃᳴ । 𑌅𑌪᳴ 𑌨𑌃॒ 𑌶𑍋𑌶𑍁᳴𑌚𑌦॒𑌘𑌮𑍍 ॥

𑌪𑍍𑌰 𑌯𑌤𑍍𑌤𑍇᳴ 𑌅𑌗𑍍𑌨𑍇 𑌸𑍂॒𑌰𑌯𑍋॒ 𑌜𑌾𑌯𑍇᳴𑌮𑌹𑌿॒ 𑌪𑍍𑌰 𑌤𑍇᳴ 𑌵॒𑌯𑌮𑍍 । 𑌅𑌪᳴ 𑌨𑌃॒ 𑌶𑍋𑌶𑍁᳴𑌚𑌦॒𑌘𑌮𑍍 ॥

𑌪𑍍𑌰 𑌯𑌦॒𑌗𑍍𑌨𑍇𑌃 𑌸𑌹᳴𑌸𑍍𑌵𑌤𑍋 𑌵𑌿॒𑌶𑍍𑌵𑌤𑍋॒ 𑌯𑌨𑍍𑌤𑌿᳴ 𑌭𑌾॒𑌨𑌵𑌃᳴ । 𑌅𑌪᳴ 𑌨𑌃॒ 𑌶𑍋𑌶𑍁᳴𑌚𑌦॒𑌘𑌮𑍍 ॥

𑌤𑍍𑌵𑌂 𑌹𑌿 𑌵𑌿᳴𑌶𑍍𑌵𑌤𑍋𑌮𑍁𑌖 𑌵𑌿॒𑌶𑍍𑌵𑌤𑌃᳴ 𑌪𑌰𑌿॒𑌭𑍂𑌰𑌸𑌿᳴ । 𑌅𑌪᳴ 𑌨𑌃॒ 𑌶𑍋𑌶𑍁᳴𑌚𑌦॒𑌘𑌮𑍍 ॥

𑌦𑍍𑌵𑌿𑌷𑍋᳴ 𑌨𑍋 𑌵𑌿𑌶𑍍𑌵𑌤𑍋𑌮𑍁॒𑌖𑌾𑌤𑌿᳴ 𑌨𑌾॒𑌵𑍇𑌵᳴ 𑌪𑌾𑌰𑌯 । 𑌅𑌪᳴ 𑌨𑌃॒ 𑌶𑍋𑌶𑍁᳴𑌚𑌦॒𑌘𑌮𑍍 ॥

𑌸 𑌨𑌃॒ 𑌸𑌿𑌨𑍍𑌧𑍁᳴𑌮𑌿𑌵 𑌨𑌾॒𑌵𑌾𑌤𑌿᳴ 𑌪𑌰𑍍𑌷𑌾 𑌸𑍍𑌵॒𑌸𑍍𑌤𑌯𑍇᳴ । 𑌅𑌪᳴ 𑌨𑌃॒ 𑌶𑍋𑌶𑍁᳴𑌚𑌦॒𑌘𑌮𑍍 ॥

𑌪𑍁॒𑌨𑌨𑍍𑌤𑍁᳴ 𑌮𑌾 𑌦𑍇𑌵𑌜॒𑌨𑌾𑌃 𑌪𑍁॒𑌨𑌨𑍍𑌤𑍁॒ 𑌮𑌨᳴𑌵𑍋 𑌧𑌿॒𑌯𑌾 । 𑌪𑍁॒𑌨𑌨𑍍𑌤𑍁॒ 𑌵𑌿𑌶𑍍𑌵𑌾᳴ 𑌭𑍂॒𑌤𑌾𑌨𑌿॒ 𑌪𑌵᳴𑌮𑌾𑌨𑌃 𑌪𑍁𑌨𑌾𑌤𑍁 𑌮𑌾 ॥

𑌪𑌵᳴𑌮𑌾𑌨𑌃 𑌪𑍁𑌨𑌾𑌤𑍁 𑌮𑌾॒ 𑌕𑍍𑌰𑌤𑍍𑌵𑍇॒ 𑌦𑌕𑍍𑌷𑌾᳴𑌯 𑌜𑍀॒𑌵𑌸𑍇᳴ । 𑌅𑌥𑍋᳴ 𑌅𑌰𑌿॒𑌷𑍍𑌟𑌤𑌾᳴𑌤𑌯𑍇 ॥

𑌉॒𑌭𑌾𑌭𑍍𑌯𑌾𑌂᳴ 𑌦𑍇𑌵 𑌸𑌵𑌿𑌤𑌃 𑌪॒𑌵𑌿𑌤𑍍𑌰𑍇᳴𑌣 𑌸॒𑌵𑍇𑌨᳴ 𑌚 । 𑌅॒𑌸𑍍𑌮𑌾𑌨𑍍𑌪𑍁᳴𑌨𑍀𑌹𑌿॒ 𑌚𑌕𑍍𑌷᳴𑌸𑍇 ॥

𑌸॒𑌸𑍍𑌰𑍁𑌷𑍀॒𑌸𑍍𑌤𑌦॒𑌪𑌸𑍋॒ 𑌦𑌿𑌵𑌾॒ 𑌨𑌕𑍍𑌤𑌂᳴ 𑌚 𑌸॒𑌸𑍍𑌰𑍁𑌷𑍀𑌃᳴ । 𑌵𑌰𑍇᳴𑌣𑍍𑌯𑌕𑍍𑌰𑌤𑍁𑌰॒𑌹𑌮॒𑌪𑍋 𑌦𑍇॒𑌵𑍀𑌰𑍁𑌪᳴ 𑌹𑍍𑌵𑌯𑍇 ॥

𑌓𑌤𑌾॒ 𑌆𑌪𑌃᳴ 𑌕𑌰𑍍𑌮॒𑌣𑍍𑌯𑌾 𑌮𑍁॒𑌞𑍍𑌚𑌨𑍍𑌤𑍍𑌵𑌿॒𑌤𑌃 𑌪𑍍𑌰𑌣𑍀᳴𑌤𑌯𑍇 । 𑌸॒𑌦𑍍𑌯𑌃 𑌕𑍃᳴𑌣𑍍𑌵॒𑌨𑍍𑌤𑍍𑌵𑍇𑌤᳴𑌵𑍇 ॥

𑌦𑍇॒𑌵𑌸𑍍𑌯᳴ 𑌸𑌵𑌿॒𑌤𑍁𑌃 𑌸॒𑌵𑍇 𑌕𑌰𑍍𑌮᳴ 𑌕𑍃𑌣𑍍𑌵𑌨𑍍𑌤𑍁॒ 𑌮𑌾𑌨𑍁᳴𑌷𑌾𑌃 । 𑌶𑌂 𑌨𑍋᳴ 𑌭𑌵𑌨𑍍𑌤𑍍𑌵॒𑌪 𑌓𑌷᳴𑌧𑍀𑌃 𑌶𑌿॒𑌵𑌾𑌃 ॥

𑌹𑌿॒𑌮𑌵᳴𑌤𑌃॒ 𑌪𑍍𑌰 𑌸𑍍𑌰᳴𑌵𑌨𑍍𑌤𑌿॒ 𑌸𑌿𑌨𑍍𑌧𑍌᳴ 𑌸𑌮𑌹 𑌸𑌙𑍍𑌗॒𑌮𑌃 । 𑌆𑌪𑍋᳴ 𑌹॒ 𑌮𑌹𑍍𑌯𑌂॒ 𑌤𑌦𑍍𑌦𑍇॒𑌵𑍀𑌰𑍍𑌦𑌦᳴𑌨𑍍𑌹𑍃॒𑌦𑍍𑌦𑍍𑌯𑍋𑌤𑌭𑍇𑌷॒𑌜𑌮𑍍 ॥

𑌯𑌨𑍍𑌮𑍇᳴ 𑌅॒𑌕𑍍𑌷𑍍𑌯𑍋𑌰𑌾᳴𑌦𑌿॒𑌦𑍍𑌯𑍋𑌤॒ 𑌪𑌾𑌰𑍍𑌷𑍍𑌣𑍍𑌯𑍋𑌃॒ 𑌪𑍍𑌰𑌪᳴𑌦𑍋𑌶𑍍𑌚॒ 𑌯𑌤𑍍 । 𑌆𑌪॒𑌸𑍍𑌤𑌤𑍍𑌸𑌰𑍍𑌵𑌂॒ 𑌨𑌿𑌷𑍍𑌕᳴𑌰𑌨𑍍𑌭𑌿॒𑌷𑌜𑌾𑌂॒ 𑌸𑍁𑌭𑌿᳴𑌷𑌕𑍍𑌤𑌮𑌾𑌃 ॥

𑌸𑌿𑌨𑍍𑌧𑍁᳴𑌪𑌤𑍍𑌨𑍀𑌃॒ 𑌸𑌿𑌨𑍍𑌧𑍁᳴𑌰𑌾𑌜𑍍𑌞𑍀𑌃॒ 𑌸𑌰𑍍𑌵𑌾॒ 𑌯𑌾 𑌨॒𑌦𑍍𑌯𑌸𑍍𑌥𑌨᳴ । 𑌦॒𑌤𑍍𑌤 𑌨॒𑌸𑍍𑌤𑌸𑍍𑌯᳴ 𑌭𑍇𑌷॒𑌜𑌂 𑌤𑍇𑌨𑌾᳴ 𑌵𑍋 𑌭𑍁𑌨𑌜𑌾𑌮𑌹𑍈 ॥

𑌵𑌾॒𑌯𑍋𑌃 𑌪𑍂॒𑌤𑌃 𑌪॒𑌵𑌿𑌤𑍍𑌰𑍇᳴𑌣 𑌪𑍍𑌰॒𑌤𑍍𑌯𑌙𑍍𑌸𑍋𑌮𑍋॒ 𑌅𑌤𑌿᳴ 𑌦𑍍𑌰𑍁॒𑌤𑌃 । 𑌇𑌨𑍍𑌦𑍍𑌰᳴𑌸𑍍𑌯॒ 𑌯𑍁𑌜𑍍𑌯॒ 𑌸𑌖𑌾᳴ ॥

𑌆𑌪𑍋᳴ 𑌅॒𑌸𑍍𑌮𑌾𑌨𑍍𑌮𑌾॒𑌤𑌰𑌃᳴ 𑌸𑍂𑌦𑌯𑌨𑍍𑌤𑍁 𑌘𑍃॒𑌤𑍇𑌨᳴ 𑌨𑍋 𑌘𑍃𑌤॒𑌪𑍍𑌵᳴𑌹𑍍𑌪𑍁𑌨𑌨𑍍𑌤𑍁 । 𑌵𑌿𑌶𑍍𑌵𑌂॒ 𑌹𑌿 𑌰𑌿॒𑌪𑍍𑌰𑌂 𑌪𑍍𑌰॒𑌵𑌹᳴𑌨𑍍𑌤𑌿 𑌦𑍇॒𑌵𑍀𑌰𑍁𑌦𑌿𑌦𑌾᳴𑌭𑍍𑌯𑌃॒ 𑌶𑍁𑌚𑌿॒𑌰𑌾 𑌪𑍂॒𑌤 𑌏᳴𑌮𑌿 ॥

𑌯𑌤𑍍𑌕𑌿𑌂 𑌚𑍇॒𑌦𑌂 𑌵᳴𑌰𑍁𑌣॒ 𑌦𑍈𑌵𑍍𑌯𑍇॒ 𑌜𑌨𑍇᳴𑌽𑌭𑌿𑌦𑍍𑌰𑍋॒𑌹𑌂 𑌮᳴𑌨𑍁॒𑌷𑍍𑌯𑌾॒𑌶𑍍𑌚𑌰᳴𑌨𑍍𑌤𑌿 । 𑌅𑌚𑌿᳴𑌤𑍍𑌤𑍍𑌯𑌾॒ 𑌚𑍇𑌤𑍍𑌤𑌵॒ 𑌧𑌰𑍍𑌮᳴𑌾 𑌯𑍁𑌯𑍋𑌪𑌿॒𑌮 𑌮𑌾 𑌨॒𑌸𑍍𑌤𑌸𑍍𑌮𑌾॒𑌦𑍇𑌨᳴𑌸𑍋 𑌦𑍇𑌵 𑌰𑍀𑌰𑌿𑌷𑌃 ॥

𑌶𑌂 𑌚᳴ 𑌨𑍋॒ 𑌮𑌯᳴𑌶𑍍𑌚 𑌨𑍋॒ 𑌮𑌾 𑌚᳴ 𑌨𑌃॒ 𑌕𑌿𑌂 𑌚॒𑌨𑌾𑌮᳴𑌮𑌤𑍍 । 𑌕𑍍𑌷॒𑌮𑌾 𑌰𑌪𑍋॒ 𑌵𑌿𑌶𑍍𑌵𑌂᳴ 𑌨𑍋 𑌅𑌸𑍍𑌤𑍁 𑌭𑍇𑌷॒𑌜𑌂 𑌸𑌰𑍍𑌵𑌂᳴ 𑌨𑍋 𑌅𑌸𑍍𑌤𑍁 𑌭𑍇𑌷॒𑌜𑌮𑍍 ॥

𑌅॒𑌨॒𑌡𑍁𑌦𑍍𑌭𑍍𑌯॒𑌸𑍍𑌤𑍍𑌵𑌂 𑌪𑍍𑌰᳴𑌥॒𑌮𑌂 𑌧𑍇॒𑌨𑍁𑌭𑍍𑌯॒𑌸𑍍𑌤𑍍𑌵𑌮᳴𑌰𑍁𑌨𑍍𑌧𑌤𑌿 । 𑌅𑌧𑍇᳴𑌨𑌵𑍇॒ 𑌵𑌯᳴𑌸𑍇॒ 𑌶𑌰𑍍𑌮᳴ 𑌯𑌛॒ 𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌦𑍇 ॥

𑌶𑌰𑍍𑌮᳴ 𑌯𑌛॒𑌤𑍍𑌵𑍋𑌷᳴𑌧𑌿𑌃 𑌸॒𑌹 𑌦𑍇॒𑌵𑍀𑌰᳴𑌰𑍁𑌨𑍍𑌧॒𑌤𑍀 । 𑌕𑌰॒𑌤𑍍𑌪𑌯᳴𑌸𑍍𑌵𑌨𑍍𑌤𑌂 𑌗𑍋॒𑌷𑍍𑌠𑌮᳴𑌯॒𑌕𑍍𑌷𑍍𑌮𑌾𑌁 𑌉॒𑌤 𑌪𑍂𑌰𑍁᳴𑌷𑌾𑌨𑍍 ॥

𑌵𑌿॒𑌶𑍍𑌵𑌰𑍂᳴𑌪𑌾𑌂 𑌸𑍁॒𑌭𑌗𑌾᳴𑌮॒𑌛𑌾𑌵᳴𑌦𑌾𑌮𑌿 𑌜𑍀𑌵॒𑌲𑌾𑌮𑍍 । 𑌸𑌾 𑌨𑍋᳴ 𑌰𑍁॒𑌦𑍍𑌰𑌸𑍍𑌯𑌾॒𑌸𑍍𑌤𑌾𑌂 𑌹𑍇॒𑌤𑌿𑌂 𑌦𑍂॒𑌰𑌂 𑌨᳴𑌯𑌤𑍁॒ 𑌗𑍋𑌭𑍍𑌯𑌃᳴ ॥

𑌮𑌹𑍍𑌯॒𑌮𑌾𑌪𑍋॒ 𑌮𑌧𑍁᳴𑌮॒𑌦𑍇𑌰᳴𑌯𑌨𑍍𑌤𑌾𑌂॒ 𑌮𑌹𑍍𑌯𑌂॒ 𑌸𑍂𑌰𑍋᳴ 𑌅𑌭𑌰॒𑌜𑍍𑌜𑍍𑌯𑍋𑌤𑌿᳴𑌷𑍇॒ 𑌕𑌮𑍍 । 𑌮𑌹𑍍𑌯𑌂᳴ 𑌦𑍇॒𑌵𑌾 𑌉॒𑌤 𑌵𑌿𑌶𑍍𑌵𑍇᳴ 𑌤𑌪𑍋॒𑌜𑌾 𑌮𑌹𑍍𑌯𑌂᳴ 𑌦𑍇॒𑌵𑌃 𑌸᳴𑌵𑌿॒𑌤𑌾 𑌵𑍍𑌯𑌚𑍋᳴ 𑌧𑌾𑌤𑍍 ॥

𑌅॒𑌹𑌂 𑌵𑌿᳴𑌵𑍇𑌚 𑌪𑍃𑌥𑌿॒𑌵𑍀𑌮𑍁॒𑌤 𑌦𑍍𑌯𑌾𑌮॒𑌹𑌮𑍃॒𑌤𑍂𑌂𑌰᳴𑌜𑌨𑌯𑌂 𑌸॒𑌪𑍍𑌤 𑌸𑌾॒𑌕𑌮𑍍 । 𑌅॒𑌹𑌂 𑌸॒𑌤𑍍𑌯𑌮𑌨𑍃᳴𑌤𑌂॒ 𑌯𑌦𑍍𑌵𑌦𑌾᳴𑌮𑍍𑌯॒𑌹𑌂 𑌦𑍈𑌵𑍀𑌂॒ 𑌪𑌰𑌿॒ 𑌵𑌾𑌚॒𑌮𑍍𑌵𑌿𑌶᳴𑌶𑍍𑌚 ॥

𑌅॒𑌹𑌂 𑌜᳴𑌜𑌾𑌨 𑌪𑍃𑌥𑌿॒𑌵𑍀𑌮𑍁॒𑌤 𑌦𑍍𑌯𑌾𑌮॒𑌹𑌮𑍃॒𑌤𑍂𑌂𑌰᳴𑌜𑌨𑌯𑌂 𑌸॒𑌪𑍍𑌤 𑌸𑌿𑌨𑍍𑌧𑍂᳴𑌨𑍍 । 𑌅॒𑌹𑌂 𑌸॒𑌤𑍍𑌵𑌮𑌨𑍃᳴𑌤𑌂॒ 𑌯𑌦𑍍𑌵𑌦𑌾᳴𑌮𑌿॒ 𑌯𑍋 𑌅᳴𑌗𑍍𑌨𑍀𑌷𑍋॒𑌮𑌾𑌵𑌜𑍁᳴𑌷𑍇॒ 𑌸𑌖𑌾᳴𑌯𑌾 ॥

𑌵𑍈॒𑌶𑍍𑌵𑌾॒𑌨॒𑌰𑍋 𑌰॒𑌶𑍍𑌮𑌿𑌭𑌿᳴𑌰𑍍𑌨𑌃 𑌪𑍁𑌨𑌾𑌤𑍁॒ 𑌵𑌾𑌤𑌃᳴ 𑌪𑍍𑌰𑌾॒𑌣𑍇𑌨𑍇᳴𑌷𑌿॒𑌰𑍋 𑌨𑌭𑍋᳴𑌭𑌿𑌃 । 𑌦𑍍𑌯𑌾𑌵𑌾᳴𑌪𑍃𑌥𑌿॒𑌵𑍀 𑌪𑌯᳴𑌸𑌾॒ 𑌪𑌯᳴𑌸𑍍𑌵𑌤𑍀 𑌋॒𑌤𑌾𑌵᳴𑌰𑍀 𑌯𑌜𑍍𑌞𑌿𑌯𑍇᳴ 𑌨 𑌪𑍁𑌨𑍀𑌤𑌾𑌮𑍍 ॥

𑌵𑍈॒𑌶𑍍𑌵𑌾॒𑌨॒𑌰𑍀𑌂 𑌸𑍂॒𑌨𑍃𑌤𑌾॒𑌮𑌾 𑌰᳴𑌭𑌧𑍍𑌵𑌂॒ 𑌯𑌸𑍍𑌯𑌾॒ 𑌆𑌶𑌾᳴𑌸𑍍𑌤॒𑌨𑍍𑌵𑍋 𑌵𑍀॒𑌤𑌪𑍃᳴𑌷𑍍𑌠𑌾𑌃 । 𑌤𑌯𑌾᳴ 𑌗𑍃॒𑌣𑌨𑍍𑌤𑌃᳴ 𑌸𑌧॒𑌮𑌾𑌦𑍇᳴𑌷𑍁 𑌵॒𑌯𑌂 𑌸𑍍𑌯𑌾᳴𑌮॒ 𑌪𑌤᳴𑌯𑍋 𑌰𑌯𑍀॒𑌨𑌾𑌮𑍍 ॥

𑌵𑍈॒𑌶𑍍𑌵𑌾॒𑌨॒𑌰𑍀𑌂 𑌵𑌰𑍍𑌚᳴𑌸॒ 𑌆 𑌰᳴𑌭𑌧𑍍𑌵𑌂 𑌶𑍁॒𑌦𑍍𑌧𑌾 𑌭𑌵᳴𑌨𑍍𑌤𑌃॒ 𑌶𑍁𑌚᳴𑌯𑌃 𑌪𑌾𑌵॒𑌕𑌾𑌃 । 𑌇॒𑌹𑍇𑌡᳴𑌯𑌾 𑌸𑌧॒𑌮𑌾𑌦𑌂॒ 𑌮𑌦᳴𑌨𑍍𑌤𑍋॒ 𑌜𑍍𑌯𑍋𑌕𑍍𑌪᳴𑌶𑍍𑌯𑍇𑌮॒ 𑌸𑍂𑌰𑍍𑌯᳴𑌮𑍁॒𑌚𑍍𑌚𑌰᳴𑌨𑍍𑌤𑌮𑍍 ॥

𑌯॒𑌮𑍋 𑌮𑍃॒𑌤𑍍𑌯𑍁𑌰᳴𑌘𑌮𑌾॒𑌰𑍋 𑌨𑌿᳴𑌰𑍃॒𑌥𑍋 𑌬॒𑌭𑍍𑌰𑍁𑌃 𑌶॒𑌰𑍍𑌵𑍋𑌽𑌸𑍍𑌤𑌾॒ 𑌨𑍀𑌲᳴𑌶𑌿𑌖𑌣𑍍𑌡𑌃 । 𑌦𑍇॒॒𑌵॒𑌜॒𑌨𑌾𑌃 𑌸𑍇𑌨᳴𑌯𑍋𑌤𑍍𑌤𑌸𑍍𑌥𑌿॒𑌵𑌾𑌂𑌸॒𑌸𑍍𑌤𑍇 𑌅॒𑌸𑍍𑌮𑌾𑌕𑌂॒ 𑌪𑌰𑌿᳴ 𑌵𑍃𑌞𑍍𑌜𑌨𑍍𑌤𑍁 𑌵𑍀॒𑌰𑌾𑌨𑍍 ॥

𑌮𑌨᳴𑌸𑌾॒ 𑌹𑍋𑌮𑍈॒𑌰𑍍𑌹𑌰᳴𑌸𑌾 𑌘𑍃॒𑌤𑍇𑌨᳴ 𑌶॒𑌰𑍍𑌵𑌾𑌯𑌾𑌸𑍍𑌤𑍍𑌰᳴ 𑌉॒𑌤 𑌰𑌾𑌜𑍍𑌞𑍇᳴ 𑌭॒𑌵𑌾𑌯᳴ । 𑌨𑌮॒𑌸𑍍𑌯𑍇𑌭𑍍𑌯𑍋॒ 𑌨𑌮᳴ 𑌏𑌭𑍍𑌯𑌃 𑌕𑍃𑌣𑍋𑌮𑍍𑌯॒𑌨𑍍𑌯𑌤𑍍𑌰𑌾॒𑌸𑍍𑌮𑌦॒𑌘𑌵𑌿᳴𑌷𑌾 𑌨𑌯𑌨𑍍𑌤𑍁 ॥

𑌤𑍍𑌰𑌾𑌯᳴𑌧𑍍𑌵𑌂 𑌨𑍋 𑌅॒𑌘𑌵𑌿᳴𑌷𑌾𑌭𑍍𑌯𑍋 𑌵॒𑌧𑌾𑌦𑍍𑌵𑌿𑌶𑍍𑌵𑍇᳴ 𑌦𑍇𑌵𑌾 𑌮𑌰𑍁𑌤𑍋 𑌵𑌿𑌶𑍍𑌵𑌵𑍇𑌦𑌸𑌃 । 𑌅॒𑌗𑍍𑌨𑍀𑌷𑍋𑌮𑌾॒ 𑌵𑌰𑍁᳴𑌣𑌃 𑌪𑍂॒𑌤𑌦᳴𑌕𑍍𑌷𑌾 𑌵𑌾𑌤𑌾𑌪𑌰𑍍𑌜॒𑌨𑍍𑌯𑌯𑍋𑌃᳴ 𑌸𑍁𑌮॒𑌤𑍌 𑌸𑍍𑌯𑌾᳴𑌮 ॥

𑌵𑌿𑌶𑍍𑌵᳴𑌜𑌿𑌤𑍍𑌤𑍍𑌰𑌾𑌯𑌮𑌾॒𑌣𑌾𑌯𑍈᳴ 𑌮𑌾॒ 𑌪𑌰𑌿᳴ 𑌦𑍇𑌹𑌿 । 𑌤𑍍𑌰𑌾𑌯᳴𑌮𑌾𑌣𑍇 𑌦𑍍𑌵𑌿॒𑌪𑌾𑌚𑍍𑌚॒ 𑌸𑌰𑍍𑌵𑌂᳴ 𑌨𑍋॒ 𑌰𑌕𑍍𑌷॒ 𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌾॒𑌦𑍍 𑌯𑌚𑍍𑌚᳴ 𑌨𑌃॒ 𑌸𑍍𑌵𑌮𑍍 ॥

𑌤𑍍𑌰𑌾𑌯᳴𑌮𑌾𑌣𑍇 𑌵𑌿𑌶𑍍𑌵॒𑌜𑌿𑌤𑍇᳴ 𑌮𑌾॒ 𑌪𑌰𑌿᳴ 𑌦𑍇𑌹𑌿 । 𑌵𑌿𑌶𑍍𑌵᳴𑌜𑌿𑌦𑍍𑌦𑍍𑌵𑌿॒𑌪𑌾𑌚𑍍𑌚॒ 𑌸𑌰𑍍𑌵𑌂᳴ 𑌨𑍋॒ 𑌰𑌕𑍍𑌷॒ 𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌾॒𑌦𑍍 𑌯𑌚𑍍𑌚᳴ 𑌨𑌃॒ 𑌸𑍍𑌵𑌮𑍍 ॥

𑌵𑌿𑌶𑍍𑌵᳴𑌜𑌿𑌤𑍍𑌕𑌲𑍍𑌯𑌾॒𑌣𑍍𑌯𑍈 𑌮𑌾॒ 𑌪𑌰𑌿᳴ 𑌦𑍇𑌹𑌿 । 𑌕𑌲𑍍𑌯𑌾᳴𑌣𑌿 𑌦𑍍𑌵𑌿॒𑌪𑌾𑌚𑍍𑌚॒ 𑌸𑌰𑍍𑌵𑌂᳴ 𑌨𑍋॒ 𑌰𑌕𑍍𑌷॒ 𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌾॒𑌦𑍍 𑌯𑌚𑍍𑌚᳴ 𑌨𑌃॒ 𑌸𑍍𑌵𑌮𑍍 ॥

𑌕𑌲𑍍𑌯𑌾᳴𑌣𑌿 𑌸𑌰𑍍𑌵॒𑌵𑌿𑌦𑍇᳴ 𑌮𑌾॒ 𑌪𑌰𑌿᳴ 𑌦𑍇𑌹𑌿 । 𑌸𑌰𑍍𑌵᳴𑌵𑌿𑌦𑍍𑌦𑍍𑌵𑌿॒𑌪𑌾𑌚𑍍𑌚॒ 𑌸𑌰𑍍𑌵𑌂᳴ 𑌨𑍋॒ 𑌰𑌕𑍍𑌷॒ 𑌚𑌤𑍁᳴𑌷𑍍𑌪𑌾॒𑌦𑍍 𑌯𑌚𑍍𑌚᳴ 𑌨𑌃॒ 𑌸𑍍𑌵𑌮𑍍 ॥

𑌸𑌂॒𑌜𑍍𑌞𑌾𑌨𑌂᳴ 𑌨𑌃॒ 𑌸𑍍𑌵𑍇𑌭𑌿𑌃᳴ 𑌸𑌂॒𑌜𑍍𑌞𑌾𑌨॒𑌮𑌰᳴𑌣𑍇𑌭𑌿𑌃 । 𑌸𑌂॒𑌜𑍍𑌞𑌾𑌨᳴𑌮𑌶𑍍𑌵𑌿॒𑌨𑌾 𑌯𑍁॒𑌵𑌮𑌿॒𑌹𑌾𑌸𑍍𑌮𑌾𑌸𑍁॒ 𑌨𑌿 𑌯᳴𑌛𑌤𑌮𑍍 ॥

𑌸𑌂 𑌜𑌾᳴𑌨𑌾𑌮𑌹𑍈॒ 𑌮𑌨᳴𑌸𑌾॒ 𑌸𑌂 𑌚𑌿᳴𑌕𑌿॒𑌤𑍍𑌵𑌾 𑌮𑌾 𑌯𑍁᳴𑌷𑍍𑌮𑌹𑌿॒ 𑌮𑌨᳴𑌸𑌾॒ 𑌦𑍈𑌵𑍍𑌯𑍇᳴𑌨 । 𑌮𑌾 𑌘𑍋𑌷𑌾॒ 𑌉𑌤𑍍𑌸𑍍𑌥𑍁᳴𑌰𑍍𑌬𑌹𑍁॒𑌲𑍇 𑌵𑌿॒𑌨𑌿𑌰𑍍𑌹᳴𑌤𑍇॒ 𑌮𑍇𑌷𑍁𑌃᳴ 𑌪𑌪𑍍𑌤॒𑌦𑌿𑌨𑍍𑌦𑍍𑌰॒𑌸𑍍𑌯𑌾𑌹॒𑌨𑍍𑌯𑌾𑌗᳴𑌤𑍇 ॥

𑌯𑌦𑍍𑌯॒𑌨𑍍𑌤𑌰𑌿᳴𑌕𑍍𑌷𑍇॒ 𑌯𑌦𑌿॒ 𑌵𑌾𑌤॒ 𑌆𑌸॒ 𑌯𑌦𑌿᳴ 𑌵𑍃॒𑌕𑍍𑌷𑍇𑌷𑍁॒ 𑌯𑌦𑌿॒ 𑌵𑍋𑌲᳴𑌪𑍇𑌷𑍁 । 𑌯𑌦𑌶𑍍𑌰᳴𑌵𑌨𑍍𑌪॒𑌶𑌵᳴ 𑌉॒𑌦𑍍𑌯𑌮𑌾᳴𑌨𑌂॒ 𑌤𑌦𑍍𑌬𑍍𑌰𑌾𑌹𑍍𑌮᳴𑌣𑌂॒ 𑌪𑍁𑌨᳴𑌰॒𑌸𑍍𑌮𑌾𑌨𑍁॒𑌪𑍈𑌤𑍁᳴ ॥

𑌪𑍁𑌨᳴𑌰𑍍𑌮𑍈𑌤𑍍𑌵𑌿𑌨𑍍𑌦𑍍𑌰𑌿॒𑌯𑌂 𑌪𑍁𑌨᳴𑌰𑌾॒𑌤𑍍𑌮𑌾 𑌦𑍍𑌰𑌵𑌿᳴𑌣𑌂॒ 𑌬𑍍𑌰𑌾𑌹𑍍𑌮᳴𑌣𑌂 𑌚 । 𑌪𑍁𑌨᳴𑌰॒𑌗𑍍𑌨𑌯𑍋॒ 𑌧𑌿𑌷𑍍𑌣𑍍𑌯𑌾᳴ 𑌯𑌥𑌾𑌸𑍍𑌥𑌾॒𑌮 𑌕᳴𑌲𑍍𑌪𑌯𑌨𑍍𑌤𑌾𑌮𑌿॒𑌹𑍈𑌵 ॥

𑌶𑌿॒𑌵𑌾 𑌨𑌃॒ 𑌶𑌂𑌤᳴𑌮𑌾 𑌭𑌵 𑌸𑍁𑌮𑍃𑌡𑍀॒𑌕𑌾 𑌸᳴𑌰𑌸𑍍𑌵𑌤𑌿 । 𑌮𑌾 𑌤𑍇᳴ 𑌯𑍁𑌯𑍋𑌮 𑌸𑌂॒𑌦𑍃𑌶𑌃᳴ ॥

𑌶𑌂 𑌨𑍋॒ 𑌵𑌾𑌤𑍋᳴ 𑌵𑌾𑌤𑍁॒ 𑌶𑌂 𑌨᳴𑌸𑍍𑌤𑌪𑌤𑍁॒ 𑌸𑍂𑌰𑍍𑌯𑌃᳴ । 𑌅𑌹𑌾᳴𑌨𑌿॒ 𑌶𑌂 𑌭᳴𑌵𑌨𑍍𑌤𑍁 𑌨𑌃॒ 𑌶𑌂 𑌰𑌾𑌤𑍍𑌰𑍀॒ 𑌪𑍍𑌰𑌤𑌿᳴ 𑌧𑍀𑌯𑌤𑌾𑌂॒ 𑌶𑌮𑍁॒𑌷𑌾 𑌨𑍋॒ 𑌵𑍍𑌯𑍁᳴𑌛𑌤𑍁 ॥

𑌅॒𑌗𑍍𑌨𑌿𑌮𑍍𑌬𑍍𑌰𑍂᳴𑌮𑍋॒ 𑌵𑌨॒𑌸𑍍𑌪𑌤𑍀॒𑌨𑍋𑌷᳴𑌧𑍀𑌰𑍁॒𑌤 𑌵𑍀॒𑌰𑍁𑌧𑌃᳴ । 𑌇𑌨𑍍𑌦𑍍𑌰𑌂॒ 𑌬𑍃𑌹॒𑌸𑍍𑌪𑌤𑌿𑌂॒ 𑌸𑍂𑌰𑍍𑌯𑌂॒ 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌬𑍍𑌰𑍂॒𑌮𑍋 𑌰𑌾𑌜𑌾᳴𑌨𑌂॒ 𑌵𑌰𑍁᳴𑌣𑌂 𑌮𑌿॒𑌤𑍍𑌰𑌂 𑌵𑌿𑌷𑍍𑌣𑍁॒𑌮𑌥𑍋॒ 𑌭𑌗᳴𑌮𑍍 । 𑌅𑌂𑌶𑌂॒𑌵𑌿𑌵᳴𑌸𑍍𑌵𑌨𑍍𑌤𑌂 𑌬𑍍𑌰𑍂𑌮॒𑌸𑍍𑌤𑍇𑌨𑍋᳴𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌹𑍍 ॥

𑌬𑍍𑌰𑍂॒𑌮𑍋 𑌦𑍇॒𑌵𑌂 𑌸᳴𑌵𑌿॒𑌤𑌾𑌰𑌂᳴ 𑌧𑌾॒𑌤𑌾𑌰᳴𑌮𑍁॒𑌤 𑌪𑍂॒𑌷𑌣᳴𑌮𑍍 । 𑌤𑍍𑌵𑌷𑍍𑌟𑌾᳴𑌰𑌮𑌗𑍍𑌰𑌿॒𑌯𑌂 𑌬𑍍𑌰𑍂᳴𑌮॒𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌹𑍍 ॥

𑌗॒𑌨𑍍𑌧𑌰𑍍𑌵𑌾𑌪𑍍𑌸॒𑌰𑌸𑍋᳴ 𑌬𑍍𑌰𑍂𑌮𑍋 𑌅॒𑌶𑍍𑌵𑌿𑌨𑌾॒ 𑌬𑍍𑌰𑌹𑍍𑌮᳴𑌣॒𑌸𑍍𑌪𑌤𑌿᳴𑌮𑍍 । 𑌅॒𑌰𑍍𑌯॒𑌮𑌾 𑌨𑌾𑌮॒ 𑌯𑍋 𑌦𑍇॒𑌵𑌸𑍍𑌤𑍇᳴ 𑌨𑍋 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌅॒𑌹𑍋॒𑌰𑌾॒𑌤𑍍𑌰𑍇 𑌇॒𑌦𑌂 𑌬𑍍𑌰𑍂᳴𑌮𑌃 𑌸𑍂𑌰𑍍𑌯𑌾𑌚𑌨𑍍𑌦𑍍𑌰॒𑌮𑌸𑌾᳴𑌵𑍁॒𑌭𑌾 । 𑌵𑌿𑌶𑍍𑌵𑌾᳴𑌨𑌾𑌦𑌿॒𑌤𑍍𑌯𑌾𑌨𑍍𑌬𑍍𑌰𑍂᳴𑌮॒𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌵𑌾𑌤𑌂᳴ 𑌬𑍍𑌰𑍂𑌮𑌃 𑌪॒𑌰𑍍𑌜𑌨𑍍𑌯᳴𑌮॒𑌨𑍍𑌤𑌰𑌿᳴𑌕𑍍𑌷॒𑌮𑌥𑍋॒ 𑌦𑌿𑌶𑌃᳴ । 𑌆𑌶𑌾᳴𑌶𑍍𑌚॒ 𑌸𑌰𑍍𑌵𑌾᳴ 𑌬𑍍𑌰𑍂𑌮॒𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌮𑍁॒𑌞𑍍𑌚𑌨𑍍𑌤𑍁᳴ 𑌮𑌾 𑌶𑌪॒𑌥𑍍𑌯𑌾᳴𑌦𑌹𑍋𑌰𑌾॒𑌤𑍍𑌰𑍇 𑌅𑌥𑍋᳴ 𑌉॒𑌷𑌾𑌃 । 𑌸𑍋𑌮𑍋᳴ 𑌮𑌾 𑌦𑍇॒𑌵𑍋 𑌮𑍁᳴𑌞𑍍𑌚𑌤𑍁॒ 𑌯𑌮𑌾॒𑌹𑍁𑌶𑍍𑌚॒𑌨𑍍𑌦𑍍𑌰𑌮𑌾॒ 𑌇𑌤𑌿᳴ ॥

𑌪𑌾𑌰𑍍𑌥𑌿᳴𑌵𑌾 𑌦𑌿॒𑌵𑍍𑌯𑌃 𑌪॒𑌶𑌵᳴ 𑌆𑌰॒𑌣𑍍𑌯𑌾 𑌉॒𑌤 𑌯𑍇 𑌮𑍃॒𑌗𑌾𑌃 । 𑌶॒𑌕𑍁𑌨𑍍𑌤𑌾᳴𑌨𑍍𑌪॒𑌕𑍍𑌷𑌿𑌨𑍋᳴ 𑌬𑍍𑌰𑍂𑌮॒𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌭॒𑌵𑌾॒𑌶॒𑌰𑍍𑌵𑌾𑌵𑌿॒𑌦𑌂 𑌬𑍍𑌰𑍂᳴𑌮𑍋 𑌰𑍁॒𑌦𑍍𑌰𑌂 𑌪᳴𑌶𑍁॒𑌪𑌤𑌿᳴𑌶𑍍𑌚॒ 𑌯𑌃 । 𑌇𑌷𑍂॒𑌰𑍍𑌯𑌾 𑌏᳴𑌷𑌾𑌂 𑌸𑌂𑌵𑌿॒𑌦𑍍𑌮 𑌤𑌾 𑌨𑌃᳴ 𑌸𑌨𑍍𑌤𑍁॒ 𑌸𑌦𑌾᳴ 𑌶𑌿॒𑌵𑌾𑌃 ॥

𑌦𑌿𑌵𑌂᳴ 𑌬𑍍𑌰𑍂𑌮𑍋॒ 𑌨𑌕𑍍𑌷᳴𑌤𑍍𑌰𑌾𑌣𑌿॒ 𑌭𑍂𑌮𑌿𑌂᳴ 𑌯॒𑌕𑍍𑌷𑌾𑌣𑌿॒ 𑌪𑌰𑍍𑌵᳴𑌤𑌾𑌨𑍍 । 𑌸𑌮𑍁॒𑌦𑍍𑌰𑌾 𑌨॒𑌦𑍍𑌯𑍋᳴ 𑌵𑍇𑌶॒𑌨𑍍𑌤𑌾𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌮𑍍𑌹᳴𑌸𑌃 ॥

𑌸𑌪𑍍𑌤॒𑌰𑍍𑌷𑍀𑌨𑍍𑌵𑌾 𑌇॒𑌦𑌂 𑌬𑍍𑌰𑍂᳴𑌮𑍋॒𑌽𑌪𑍋 𑌦𑍇॒𑌵𑍀𑌃 𑌪𑍍𑌰॒𑌜𑌾𑌪᳴𑌤𑌿𑌮𑍍 । 𑌪𑌿॒𑌤𑍄𑌨𑍍𑌯॒𑌮𑌶𑍍𑌰𑍇᳴𑌷𑍍𑌠𑌾𑌨𑍍𑌬𑍍𑌰𑍂𑌮॒𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑍇 𑌦𑍇॒𑌵𑌾 𑌦𑌿᳴𑌵𑌿॒𑌷𑌦𑍋᳴ 𑌅𑌨𑍍𑌤𑌰𑌿𑌕𑍍𑌷॒𑌸𑌦᳴𑌶𑍍𑌚॒ 𑌯𑍇 । 𑌪𑍃॒𑌥𑌿॒𑌵𑍍𑌯𑌾𑌂 𑌶॒𑌕𑍍𑌰𑌾 𑌯𑍇 𑌶𑍍𑌰𑌿॒𑌤𑌾𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌆॒𑌦𑌿॒𑌤𑍍𑌯𑌾 𑌰𑍁॒𑌦𑍍𑌰𑌾 𑌵𑌸᳴𑌵𑍋 𑌦𑌿॒𑌵𑌿 𑌦𑍇॒𑌵𑌾 𑌅𑌥᳴𑌰𑍍𑌵𑌾𑌨𑌃 । 𑌅𑌙𑍍𑌗𑌿᳴𑌰𑌸𑍋 𑌮𑌨𑍀॒𑌷𑌿𑌣॒𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯॒𑌜𑍍𑌞𑌂 𑌬𑍍𑌰𑍂᳴𑌮𑍋॒ 𑌯𑌜᳴𑌮𑌾𑌨॒𑌮𑍃𑌚𑌃॒ 𑌸𑌾𑌮𑌾᳴𑌨𑌿 𑌭𑍇𑌷॒𑌜𑌾 । 𑌯𑌜𑍂𑌂᳴𑌷𑌿॒ 𑌹𑍋𑌤𑍍𑌰𑌾᳴ 𑌬𑍍𑌰𑍂𑌮॒𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌪𑌞𑍍𑌚᳴ 𑌰𑌾॒𑌜𑍍𑌯𑌾𑌨𑌿᳴ 𑌵𑍀॒𑌰𑍁𑌧𑌾𑌂॒ 𑌸𑍋𑌮᳴𑌶𑍍𑌰𑍇𑌷𑍍𑌠𑌾𑌨𑌿 𑌬𑍍𑌰𑍂𑌮𑌃 । 𑌦॒𑌰𑍍𑌭𑍋 𑌭॒𑌙𑍍𑌗𑍋 𑌯𑌵𑌃॒ 𑌸𑌹॒𑌸𑍍𑌤𑍇𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌅॒𑌰𑌾𑌯𑌾᳴𑌨𑍍𑌬𑍍𑌰𑍂𑌮𑍋॒ 𑌰𑌕𑍍𑌷𑌾𑌂᳴𑌸𑌿 𑌸॒𑌰𑍍𑌪𑌾𑌨𑍍𑌪𑍁᳴𑌣𑍍𑌯𑌜॒𑌨𑌾𑌨𑍍𑌪𑌿॒𑌤𑍄𑌨𑍍 । 𑌮𑍃॒𑌤𑍍𑌯𑍂𑌨𑍇𑌕᳴𑌶𑌤𑌂 𑌬𑍍𑌰𑍂𑌮॒𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌋॒𑌤𑍂𑌨𑍍𑌬𑍍𑌰𑍂᳴𑌮 𑌋𑌤𑍁॒𑌪𑌤𑍀᳴𑌨𑌾𑌰𑍍𑌤॒𑌵𑌾𑌨𑍁॒𑌤 𑌹𑌾᳴𑌯॒𑌨𑌾𑌨𑍍 । 𑌸𑌮𑌾𑌃᳴ 𑌸𑌂𑌵𑌤𑍍𑌸॒𑌰𑌾𑌨𑍍𑌮𑌾𑌸𑌾𑌂॒𑌸𑍍𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌏𑌤᳴ 𑌦𑍇𑌵𑌾 𑌦𑌕𑍍𑌷𑌿𑌣॒𑌤𑌃 𑌪॒𑌶𑍍𑌚𑌾𑌤𑍍𑌪𑍍𑌰𑌾𑌞𑍍𑌚᳴ 𑌉॒𑌦𑍇𑌤᳴ । 𑌪𑍁॒𑌰𑌸𑍍𑌤𑌾᳴𑌦𑍁𑌤𑍍𑌤॒𑌰𑌾𑌚𑍍𑌛॒𑌕𑍍𑌰𑌾 𑌵𑌿𑌶𑍍𑌵𑍇᳴ 𑌦𑍇॒𑌵𑌾𑌃 𑌸॒𑌮𑍇𑌤𑍍𑌯॒ 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌵𑌿𑌶𑍍𑌵𑌾᳴𑌨𑍍𑌦𑍇॒𑌵𑌾𑌨𑌿॒𑌦𑌂 𑌬𑍍𑌰𑍂᳴𑌮𑌃 𑌸॒𑌤𑍍𑌯𑌸𑌂᳴𑌧𑌾𑌨𑍃𑌤॒𑌾𑌵𑍃𑌧𑌃᳴ । 𑌵𑌿𑌶𑍍𑌵𑌾᳴𑌭𑌿𑌃॒ 𑌪𑌤𑍍𑌨𑍀᳴𑌭𑌿𑌃 𑌸॒𑌹 𑌤𑍇𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌸𑌰𑍍𑌵𑌾᳴𑌨𑍍𑌦𑍇॒𑌵𑌾𑌨𑌿॒𑌦𑌂 𑌬𑍍𑌰𑍂᳴𑌮𑌃 𑌸॒𑌤𑍍𑌯𑌸𑌂᳴𑌧𑌾𑌨𑍃𑌤𑌾॒𑌵𑍃𑌧𑌃᳴ । 𑌸𑌰𑍍𑌵𑌾᳴𑌭𑌿𑌃॒ 𑌪𑌤𑍍𑌨𑍀᳴𑌭𑌿𑌃 𑌸॒𑌹 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌭𑍂॒𑌤𑌂 𑌬𑍍𑌰𑍂᳴𑌮𑍋 𑌭𑍂𑌤॒𑌪𑌤𑌿𑌂᳴ 𑌭𑍂॒𑌤𑌾𑌨𑌾᳴𑌮𑍁॒𑌤 𑌯𑍋 𑌵॒𑌶𑍀 । 𑌭𑍂॒𑌤𑌾𑌨𑌿॒𑌸𑌰𑍍𑌵𑌾᳴ 𑌸𑌂॒𑌗𑌤𑍍𑌯॒ 𑌤𑍇 𑌨𑍋᳴ 𑌮𑍁𑌞𑍍𑌚॒𑌨𑍍𑌤𑍍𑌵𑌂𑌹᳴𑌸𑌃 ॥

𑌯𑌾 𑌦𑍇॒𑌵𑍀𑌃 𑌪𑌞𑍍𑌚᳴ 𑌪𑍍𑌰॒𑌦𑌿𑌶𑍋॒ 𑌯𑍇 𑌦𑍇॒𑌵𑌾 𑌦𑍍𑌵𑌾𑌦᳴𑌶॒ 𑌰𑍍𑌤𑌵᳴𑌹𑍍 । 𑌸𑌂॒𑌵॒𑌤𑍍𑌸॒𑌰𑌸𑍍𑌯॒ 𑌯𑍇 𑌦𑌂𑌷𑍍𑌟𑍍𑌰𑌾॒𑌸𑍍𑌤𑍇 𑌨𑌃᳴ 𑌸𑌨𑍍𑌤𑍁॒ 𑌸𑌦𑌾᳴ 𑌶𑌿॒𑌵𑌾𑌃 ॥

𑌯𑌨𑍍𑌮𑌾𑌤᳴𑌲𑍀 𑌰𑌥𑌕𑍍𑌰𑍀॒𑌤𑌮॒𑌮𑍃𑌤𑌂॒ 𑌵𑍇𑌦᳴ 𑌭𑍇𑌷॒𑌜𑌮𑍍 । 𑌤𑌦𑌿𑌨𑍍𑌦𑍍𑌰𑍋᳴ 𑌅॒𑌪𑍍𑌸𑍁 𑌪𑍍𑌰𑌾𑌵𑍇᳴𑌶𑌯॒𑌤𑍍𑌤𑌦𑌾᳴𑌪𑍋 𑌦𑌤𑍍𑌤 𑌭𑍇𑌷॒𑌜𑌮𑍍 ॥

𑌶𑌂 𑌨𑍋᳴ 𑌦𑍇॒𑌵𑍀𑌰॒𑌭𑌿𑌷𑍍𑌟᳴𑌯॒ 𑌆𑌪𑍋᳴ 𑌭𑌵𑌨𑍍𑌤𑍁 𑌪𑍀॒𑌤𑌯𑍇᳴ । 𑌶𑌂 𑌯𑍋𑌰॒𑌭𑌿 𑌸𑍍𑌰᳴𑌵𑌨𑍍𑌤𑍁 𑌨𑌃 ॥

Sunday, August 26, 2018

atharvana mahashanti japam (अथर्वण महाशान्ति जपम्)

अथर्वण शान्ति कल्पोक्त​ अथर्वण महाशान्ति जपम्
(अथर्वण वेद परिसिष्टे द्वात्रिंशतितम भागानुसारेण​; प्रमाण सखम्)

(1) oṃ bhūs tat savituḥ (Gayathri) śaṃ no devīḥ (1.6) śāntā dyauḥ  (19.9) śaṃ na indrāgnī (19.10) śaṃ no vāto vātu (7.72.1) uṣā apa svasus tama (19.12.1) iti śāntigaṇaḥ ||

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वशं॑भुवम् ॥
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॑३ मम॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
शं न॒ आपो॑ धन्व॒न्या॑३ शमु॑ सन्त्वनू॒प्याः॑ । शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः । शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ॥

शा॒न्ता द्यौः शा॒न्ता पृ॑थि॒वी शा॒न्तमि॒दमु॒र्व॑१न्तरि॑क्षम् । शा॒न्ता उ॑द॒न्वती॒रापः॑ शा॒न्ता नः॑ स॒न्त्वोष॑धीः ॥
शा॒न्तानि॑ पूर्वरू॒पाणि॑ शा॒न्तं नो॑ अस्तु कृताकृ॒तम् । शा॒न्तं भू॒तं च॒ भव्यं॑ च॒ सर्व॑मे॒व शम॑स्तु नः ॥
इ॒यं या प॑रमे॒ष्ठिनी॒ वाग्दे॒वी ब्रह्म॑संशिता । ययै॒व स॑सृ॒जे घो॒रं तयै॒व शान्ति॑रस्तु नः ॥
इ॒दं यत्प॑रमे॒ष्ठिनं॒ मनो॑ वां॒ ब्रह्म॑संशितम् । येनै॒व स॑सृ॒जे घो॒रं तेनै॒व शान्ति॑रस्तु नः ॥
इ॒मानि॒ यानि॒ पञ्चे॑न्द्रि॒यानि॒ मनः॑षष्ठानि मे हृ॒दि ब्रह्म॑णा॒ संशि॑तानि । यैरे॒व स॑सृ॒जे घो॒रं तैरे॒व शान्ति॑रस्तु नः ॥
शं नो॑ मि॒त्रः शं वरु॑णः॒ शं विष्णुः॒ शं प्र॒जाप॑तिः । शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॑ भवत्वर्य॒मा ॥
शं नो॑ मि॒त्रः शं वरु॑णः॒ शं वि॒वस्वां॒ छमन्त॑कः । उ॒त्पाताः॒ पार्थि॑वा॒न्तरि॑क्षाः॒ शं नो॑ दि॒विच॑रा॒ ग्रहाः॑ ॥
शं नो॒ भूमि॑र्वेप्यमा॒ना शमु॒ल्का निर्ह॑तं च॒ यत् । शं गावो॒ लोहि॑तक्षीराः॒ शं भूमि॒रव॑ तीर्य॒तीः ॥
नक्ष॑त्रमु॒ल्काभिह॑तं॒ शम॑स्तु नः॒ शं नो॑ ऽभिचा॒राः शमु॑ सन्तु कृ॒त्याः । शं नो॒ निखा॑ता व॒ल्गाः शमु॒ल्का दे॑शोपस॒र्गाः शमु॑ नो भवन्तु ॥
शं नो॒ ग्रहा॑श्चान्द्रम॒साः शमा॑दि॒त्यश्च॑ राहु॒णा । शं नो॑ मृ॒त्युर्धू॒मके॑तुः॒ शं रु॒द्रास्ति॒ग्मते॑जसः ॥
शं रु॒द्राः शं वस॑वः॒ शमा॑दि॒त्याः शम॒ग्नयः॑ । शं नो॑ मह॒र्षयो॑ दे॒वाः शं दे॒वाः शं बृह॒स्पतिः॑ ॥
ब्रह्म॑ प्र॒जाप॑तिर्धा॒ता लो॒का वेदाः॑ सप्तऋ॒षयो॒ ऽग्नयः॑ । तैर्मे॑ कृ॒तं स्व॒स्त्यय॑न॒मिन्द्रो॑ मे॒ शर्म॑ यछतु ब्र॒ह्मा मे॒ शर्म॑ यछतु । विश्वे॑ मे दे॒वाः शर्म॑ यछन्तु॒ सर्वे॑ मे दे॒वाः शर्म॑ यछन्तु ॥
यानि॒ कानि॑ चिच्छा॒न्तानि॑ लो॒के स॑प्तऋ॒षयो॑ वि॒दुः । सर्वा॑णि॒ शं भ॑वन्तु मे॒ शं मे॑ अ॒स्त्वभ॑यं मे अस्तु ॥
पृ॑थि॒वी शान्ति॑र॒न्तरि॑क्षं॒ शान्ति॒र्द्यौः शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्ति॒र्वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑ मे दे॒वाः शान्तिः॒ सर्वे॑ मे देवाः॒ शान्तिः॒ शान्तिः॒ शान्तिः॒ शान्ति॑भिः । यदि॒ह घो॒रं यदि॒ह क्रू॒रं यदि॒ह पा॒पं तच्छा॒न्तं तच्छि॒वं सर्व॑मे॒व शम॑स्तु नः ॥

शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॑ इन्द्रा॒वरु॑णा रा॒तह॑व्या । शमि॑न्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ॥
शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुरं॑धिः॒ शमु॑ सन्तु॒ रायः॑ । शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥
शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ । शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ॥
शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम् । शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ॥
शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु । शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥
शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ । शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥
शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा॑णः॒ शमु॑ सन्तु य॒ज्ञाः । शं नः॒ स्वरू॑नां मि॒तयो॑ भवन्तु॒ शं नः॑ प्र॒स्व॑१ शम्व॑स्तु॒ वेदिः॑ ॥
शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं नो॑ भवन्तु प्र॒दिश॒श्चत॑स्रः । शं नः॒ पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ शमु॑ स॒न्त्वाप॑ह् ॥
शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवन्तु म॒रुतः॑ स्व॒र्काः । शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥
शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवन्तू॒षसो॑ विभा॒तीः । शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु शं॒भुः ॥

शं नो॒ वातो॑ वातु॒ शं न॑स्तपतु॒ सूर्यः॑ । अहा॑नि॒ शं भ॑वन्तु नः॒ शं रात्री॒ प्रति॑ धीयतां । शं उ॒षा नो॒ व्यु॑छतु ॥
उ॒षा अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ । अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥

(2) kṛtyāpratiharaṇo dūṣyā dūṣir asi (2.11) īśānāṃ tvā (4.17) samaṃ jyotir (4.18) uto asy abandhukṛd (4.19) ye purastāt (4.40) suparṇas tvā (5.14) yāṃ te cakruḥ (5.31) pratīcīnaphalo (7.69.1-2) yad duṣkṛtam  ayaṃ pratisaro (8.5) yāṃ kalpayantīti (10.1) kṛtyāpratiharaṇāni || iti kṛtyāgaṇaḥ ||

दूष्या॒ दूषि॑रसि हे॒त्या हे॒तिर॑सि मे॒न्या मे॒निर॑सि । आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं का॑म ॥
स्र॒क्त्यो ऽसि॑ प्रतिष॒रो ऽसि॑ प्रत्यभि॒चर॑णो ऽसि । आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं का॑म ॥
प्रति॒ तम॒भि च॑र॒ यो ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं का॑म ॥
सू॒रिर॑सि वर्चो॒धा अ॑सि तनू॒पानो॑ ऽसि । आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं का॑म ॥
शु॒क्रो ऽसि॑ भ्रा॒जो ऽसि॒ स्व॑रसि॒ ज्योति॑रसि । आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं का॑म ॥

ईशा॑णां त्वा भेष॒जाना॒मुज्जे॑ष॒ आ र॑भामहे । च॒क्रे स॒हस्र॑वीर्य॒म्सर्व॑स्मा ओषधे त्वा ॥
स॑त्य॒जितं॑ शपथ॒याव॑नीं॒ सह॑मानां पुनःस॒राम् । सर्वाः॒ सम॒ह्व्योष॑धीरि॒तो नः॑ पारया॒दिति॑ ॥
या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे । या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा ॥
यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्नी॑ललोहि॒ते । आ॒मे मां॒से कृ॒त्यां यां च॒क्रुस्तया॑ कृत्या॒कृतो॑ जहि ॥
दौष्व॑प्न्यं॒ दौर्जी॑वित्यं॒ रक्षो॑ अ॒भ्व॑मरा॒य्यः॑ । दु॒र्णाम्नीः॒ सर्वा॑ दु॒र्वाच॒स्ता अ॒स्मन्ना॑शयामसि ॥
क्षु॑धामा॒रं तृ॑ष्णामा॒रम॒गोता॑मनप॒त्यता॑म् । अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥
तृ॑ष्णामा॒रं क्षु॑धामा॒रं अथो॑ अक्षपराज॒यम् । अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥
अ॑पामा॒र्ग ओष॑धीनां॒ सर्वा॑सा॒मेक॒ इद्व॒शी । तेन॑ ते मृज्म॒ आस्थि॑त॒मथ॒ त्वम॑ग॒दश्च॑र ॥
स॒मं ज्योतिः॒ सूर्ये॒णाह्ना॒ रात्री॑ स॒माव॑ती । कृ॑णोमि स॒त्यमू॒तये॑ ऽर॒साः स॑न्तु॒ कृत्व॑रीः ॥
यो दे॑वाः कृ॒त्यां कृ॒त्वा हरा॒दवि॑दुषो गृ॒हम् । व॒त्सो धा॒रुरि॑व मा॒तरं॒ तं प्र॒त्यगुप॑ पद्यताम् ॥
अ॒मा कृ॒त्वा पा॒प्मानं॒ यस्तेना॒न्यं जिघां॑सति । अश्मा॑न॒स्तस्यां॑ द॒ग्धायां॑ बहु॒लाः पट्क॑रिक्रति ॥
सह॑स्रधाम॒न्विशि॑खा॒न्विग्री॑वां छायया॒ त्वम् । प्रति॑ स्म च॒क्रुषे॑ कृ॒त्यां प्रि॒यां प्रि॒याव॑ते हर ॥
अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम् । यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म् । च॒कार॑ भ॒द्रम॒स्मभ्य॑मा॒त्मने॒ तप॑न॒म्तु सः ॥
अ॑पामा॒र्गो ऽप॑ मार्ष्टु क्षेत्रि॒यं श॒पथ॑श्च॒ यः । अपाह॑ यातुधा॒नीरप॒ सर्वा॑ अरा॒य्यः॑ ॥
अ॑प॒मृज्य॑ यातु॒धाना॒नप॒ सर्वा॑ अरा॒य्यः॑ । अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥
उ॒तो अ॒स्यब॑न्धुकृदु॒तो अ॑सि॒ नु जा॑मि॒कृत् । उ॒तो कृ॑त्या॒कृतः॑ प्र॒जां न॒दमि॒वा छि॑न्धि॒ वार्षि॑कम् ॥
ब्रा॑ह्म॒णेन॒ पर्यु॑क्तासि॒ कण्वे॑न नार्ष॒देन॑ । सेने॑वैषि॒ त्विषी॑मती॒ न तत्र॑ भ॒यम॑स्ति॒ यत्र॑ प्रा॒प्नोष्यो॑षधे ॥
अग्र॑मे॒ष्योष॑धीनां॒ ज्योति॑षेवाभिदी॒पय॑न् । उ॒त त्रा॒तासि॒ पाक॒स्याथो॑ ह॒न्तासि॑ र॒क्षसः॑ ॥
यद॒दो दे॒वा असु॑रां॒स्त्वयाग्रे॑ नि॒रकु॑र्वत । तत॒स्त्वमध्यो॑षधे ऽपामा॒र्गो अ॑जायथाः ॥
वि॑भिन्द॒ती श॒तशा॑खा विभि॒न्दन्नाम॑ ते पि॒ता । प्र॒त्यग्वि भि॑न्धि॒ त्वं तं यो अ॒स्मां अ॑भि॒दास॑ति ॥
अस॒द्भूम्याः॒ सम॑भव॒त्तद्यामे॑ति म॒हद्व्यचः॑ । तद्वै ततो॑ विधूपा॒यत्प्र॒त्यक्क॒र्तार॑मृछतु ॥
प्र॒त्यङ्हि सं॑ब॒भूवि॑थ प्रती॒चीन॑पल॒स्त्वम् । सर्वा॒न्मच्छ॒पथा॒मधि॒ वरी॑यो यावया व॒धम् ॥
श॒तेन॑ मा॒ परि॑ पाहि स॒हस्रे॑णा॒भि र॑क्षा मा । इन्द्र॑स्ते वीरुधां पत उ॒ग्र ओ॒ज्मान॒मा द॑धत् ॥

सु॑प॒र्णस्त्वान्व॑विन्दत्सूक॒रस्त्वा॑खनन्न॒सा । दिप्सौ॑षधे॒ त्वं दिप्स॑न्त॒मव॑ कृत्या॒कृतं॑ जहि ॥
अव॑ जहि यातु॒धाना॒नव॑ कृत्या॒कृतं॑ जहि । अथो॒ यो अ॒स्मान्दिप्स॑ति॒ तमु॒ त्वं ज॑ह्योषधे ॥
रि॑श्यस्येव परीशा॒सं प॑रि॒कृत्य॒ परि॑ त्व॒चः । कृ॒त्यां कृ॑त्या॒कृते॑ देवा नि॒ष्कमि॑व॒ प्रति॑ मुञ्चत ॥
पुनः॑ कृ॒त्यां कृ॑त्या॒कृते॑ हस्त॒गृह्य॒ परा॑ णय । स॑म॒क्षम॑स्म॒ आ धे॑हि॒ यथा॑ कृत्या॒कृत॒म्हन॑त् ॥
कृ॒त्याः स॑न्तु कृत्या॒कृते॑ श॒पथः॑ शपथीय॒ते । सु॒खो रथ॑ इव वर्ततां कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ॥
यदि॒ स्त्री यदि॑ वा॒ पुमा॑न्कृ॒त्यां च॒कार॑ पा॒प्मने॑ । तामु॒ तस्मै॑ नयाम॒स्यश्व॑मिवाश्वाभि॒धान्या॑ ॥
यदि॒ वासि॑ दे॒वकृ॑ता॒ यदि॑ वा॒ पुरु॑षैः कृ॒ता । तां त्वा॒ पुन॑र्णयाम॒सीन्द्रे॑ण स॒युजा॑ व॒यम् ॥
अग्ने॑ पृतनाषा॒ट्पृत॑नाः सहस्व । पुनः॑ कृ॒त्यां कृ॑त्या॒कृते॑ प्रति॒हर॑णेन हरामसि ॥
कृत॑व्यधनि॒ विद्य॒ तं यश्च॒कार॒ तमिज्ज॑हि । न त्वामच॑क्रुषे व॒यं व॒धाय॒ सं शि॑शीमहि ॥
पु॒त्र इ॑व पि॒तरं॑ गछ स्व॒ज इ॑वा॒भिष्ठि॑तो दश । ब॒न्धमि॑वावक्रा॒मी ग॑छ॒ कृत्ये॑ कृत्या॒कृतं॒ पुनः॑ ॥
उदे॒णीव॑ वार॒ण्य॑भि॒स्कन्धं॑ मृ॒गीव॑ । कृ॒त्या क॒र्तार॑मृछतु ॥
इष्वा॒ ऋजी॑यः पततु॒ द्यावा॑पृथिवी॒ तं प्रति॑ । सा तं मृ॒गमि॑व गृह्णतु कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ॥
अ॒ग्निरि॑वैतु प्रति॒कूल॑मनु॒कूल॑मिवोद॒कम् । सु॒खो रथ॑ इव वर्ततां कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ॥

यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्मि॒श्रधा॑न्ये । आ॒मे मां॒से कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑ । अव्यां॑ ते कृ॒त्यां याम्च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
यां ते॑ च॒क्रुरेक॑शपे पशू॒नामु॑भ॒याद॑ति । ग॑र्द॒भे कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
यां ते॑ च॒क्रुर॑मू॒लायां॑ वल॒गं वा॑ नरा॒च्याम् । क्षेत्रे॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
यां ते॑ च॒क्रुर्गार्ह॑पत्ये पूर्वा॒ग्नावु॒त दु॒श्चित॑ह् । शाला॑यां कृ॒त्यां याम्च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
यां ते॑ च॒क्रुः स॒भायां॒ याम्च॒क्रुर॑धि॒देव॑ने । अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
यां ते॑ च॒क्रुः सेना॑यां॒ यां च॒क्रुरि॑ष्वायु॒धे । दु॑न्दु॒भौ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
यां ते॑ कृ॒त्याम्कूपे॑ ऽवद॒धुः श्म॑शा॒ने वा॑ निच॒ख्नुः । सद्म॑नि कृ॒त्याम्यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
यां ते॑ च॒क्रुः पु॑रुषा॒स्थे अ॒ग्नौ संक॑सुके च॒ याम् । म्रो॒कं नि॑र्दा॒हं क्र॒व्यादं॒ पुनः॒ प्रति॑ हरामि॒ ताम् ॥
अप॑थे॒ना ज॑भारैनां॒ तां प॒थेतः प्र हि॑ण्मसि । अधी॑रो मर्या॒धीरे॑भ्यः॒ सं ज॑भा॒राचि॑त्त्या ॥
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म् । च॒कार॑ भ॒द्रम॒स्मभ्य॑मभ॒गो भग॑वद्भ्यः ॥
कृ॑त्या॒कृत॑म्वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म् । इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥

प्र॑ती॒चीन॑पलो॒ हि त्वमपा॑मार्ग रु॒रोहि॑थ । सर्वा॒न्मच्छ॒पथा॒मधि॒ वरी॑यो यवया इ॒तः ॥
यद्दु॑ष्कृ॒तं यच्छम॑लं॒ यद्वा॑ चेरिम पा॒पया॑ । त्वया॒ तद्वि॑श्वतोमु॒खापा॑मा॒र्गाप॑ मृज्महे ॥

अ॒यं प्र॑तिस॒रो म॒णिर्वी॒रो वी॒राय॑ बध्यते । वी॒र्य॑वान्त्सपत्न॒हा शूर॑वीरः परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
अ॒यं म॒णिः स॑पत्न॒हा सु॒वीरः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः । प्र॒त्यक्कृ॒त्या दू॒षय॑न्नेति वी॒रः ॥
अ॒नेनेन्द्रो॑ म॒णिना॑ वृ॒त्रम॑हन्न॒नेनासु॑रा॒न्परा॑भावयन्मनी॒षी । अ॒नेना॑जय॒द्द्यावा॑पृथि॒वी उ॒भे इ॒मे अ॒नेना॑जयत्प्र॒दिश॒श्चत॑स्रः ॥
अ॒यं स्रा॒क्त्यो म॒णिः प्र॑तीव॒र्तः प्र॑तिस॒रः । ओज॑स्वान्विमृ॒धो व॒शी सो अ॒स्मान्पा॑तु स॒र्वतः॑ ॥
तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पतिः॑ सवि॒ता तदिन्द्रः॑ । ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥
अ॒न्तर्द॑धे॒ द्यावा॑पृथि॒वी उ॒ताह॑रु॒त सूर्य॑म् । ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥
ये स्रा॒क्त्यं म॒णिं जना॒ वर्मा॑णि कृ॒ण्वते॑ । सूर्य॑ इव॒ दिव॑मा॒रुह्य॒ वि कृ॒त्या बा॑धते व॒शी ॥
स्रा॒क्त्येन॑ म॒णिना॒ ऋषि॑णेव मनी॒षिणा॑ । अजै॑षं॒ सर्वाः॒ पृत॑ना॒ वि मृधो॑ हन्मि र॒क्षसः॑ ॥
याः कृ॒त्या आ॑ङ्गिर॒सीर्याः कृ॒त्या आ॑सु॒रीर्याः । कृ॒त्याः स्व॒यंकृ॑ता॒ या उ॑ चा॒न्येभि॒राभृ॑ताः । उ॒भयी॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तिं ना॒व्या॑३ अति॑ ॥
अ॒स्मै म॒णिं वर्म॑ बध्नन्तु दे॒वा इन्द्रो॒ विष्णुः॑ सवि॒ता रु॒द्रो अ॒ग्निः । प्र॒जाप॑तिः परमे॒ष्ठी वि॒राड्वै॑श्वान॒र ऋष॑यश्च॒ सर्वे॑ ॥
उत्त॒मो अ॒स्योष॑धीनामन॒ड्वान्जग॑तामिव व्या॒घ्रः श्वप॑दामिव । यमैछा॒मावि॑दाम॒ तं प्र॑ति॒स्पाश॑न॒मन्ति॑तम् ॥
स इद्व्या॒घ्रो भ॑व॒त्यथो॑ सिं॒हो अथो॒ वृषा॑ । अथो॑ सपत्न॒कर्श॑नो॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
नैनं॑ घ्नन्त्यप्स॒रसो॒ न ग॑न्ध॒र्वा न मर्त्याः॑ । सर्वा॒ दिशो॒ वि रा॑जति॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
क॒श्यप॒स्त्वाम॑सृजत क॒श्यप॑स्त्वा॒ समै॑रयत् । अबि॑भ॒स्त्वेन्द्रो॒ मानु॑षे॒ बिभ्र॑त्संश्रेषि॒णे ऽज॑यत् । म॒णिं स॒हस्र॑वीर्यं॒ वर्म॑ दे॒वा अ॑कृण्वत ॥
यस्त्वा॑ कृ॒त्याभि॒र्यस्त्वा॑ दी॒क्षाभि॑र्य॒ज्ञैर्यस्त्वा॒ जिघां॑सति । प्र॒त्यक्त्वमि॑न्द्र॒ तं ज॑हि॒ वज्रे॑ण श॒तप॑र्वणा ॥
अ॒यमिद्वै प्र॑तीव॒र्त ओज॑स्वान्संज॒यो म॒णिः । प्र॒जां धनं॑ च रक्षतु परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
अ॑सप॒त्नं नो॑ अध॒राद॑सप॒त्नं न॑ उत्त॒रात् । इन्द्रा॑सप॒त्नं नः॑ प॒श्चाज्ज्योतिः॑ शूर पु॒रस्कृ॑धि ॥
वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑ । वर्म॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ वर्म॑ धा॒ता द॑धातु मे ॥
अै॑न्द्रा॒ग्नं वर्म॑ बहु॒लं यदु॒ग्रं विश्वे॑ दे॒वा नाति॒विध्य॑न्ति॒ सर्वे॑ । तन्मे॑ त॒न्वं॑ त्रायतां स॒र्वतो॑ बृ॒हदायु॑ष्मां ज॒रद॑ष्टि॒र्यथासा॑नि ॥
आ मा॑रुक्षद्देवम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये । इ॒मं मे॒थिम॑भि॒संवि॑शध्वं तनू॒पानं॑ त्रि॒वरू॑थ॒मोज॑से ॥
अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम् । दी॑र्घायु॒त्वाय॑ श॒तशा॑रदा॒यायु॑ष्मान्ज॒रद॑ष्टि॒र्यथास॑त् ॥
स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी । इन्द्रो॑ बध्नातु ते म॒णिं जि॑गी॒वाँ अप॑राजितः । सो॑म॒पा अ॑भयङ्क॒रो वृषा॑ । स त्वा॑ रक्षतु स॒र्वतो॒ दिवा॒ नक्तं॑ च वि॒श्वतः॑ ॥

यां क॒ल्पय॑न्ति वह॒तौ व॒धूमि॑व वि॒श्वरू॑पां॒ हस्त॑कृतां चिकि॒त्सवः॑ । सारादे॒त्वप॑ नुदाम एनाम् ॥
शी॑र्ष॒ण्वती॑ न॒स्वती॑ क॒र्णिणी॑ कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा । सारादे॒त्वप॑ नुदाम एनाम् ॥
शू॒द्रकृ॑ता॒ राज॑कृता॒ स्त्रीकृ॑ता ब्र॒ह्मभिः॑ कृ॒ता । जा॒या पत्या॑ नु॒त्तेव॑ क॒र्तारं॒ बन्ध्वृ॑छतु ॥
अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम् । यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥
अ॒घम॑स्त्वघ॒कृते॑ श॒पथः॑ शपथीय॒ते । प्र॒त्यक्प्र॑ति॒प्रहि॑ण्मो॒ यथा॑ कृत्या॒कृतं॒ हन॑त् ॥
प्र॑ती॒चीन॑ आङ्गिर॒सो ऽध्य॑क्षो नः पु॒रोहि॑तः । प्र॒तीचीः॑ कृ॒त्या आ॒कृत्या॒मून्कृ॑त्या॒कृतो॑ जहि ॥
यस्त्वो॒वाच॒ परे॒हीति॑ प्रति॒कूल॑मुदा॒य्य॑म् । तं कृ॑त्ये ऽभि॒निव॑र्तस्व॒ मास्मानि॑छो अना॒गसः॑ ॥
यस्ते॒ परूं॑षि संद॒धौ रथ॑स्येव॒ र्भुर्धि॒या । तं ग॑छ॒ तत्र॒ ते ऽय॑न॒मज्ञा॑तस्ते॒ ऽयं जनः॑ ॥
ये त्वा॑ कृ॒त्वाले॑भि॒रे वि॑द्व॒ला अ॑भिचा॒रिणः॑ । शं॒भ्वि॑३दं कृ॑त्या॒दूष॑णं प्रतिव॒र्त्म पु॑नःस॒रं तेन॑ त्वा स्नपयामसि ॥
यद्दु॒र्भगां॒ प्रस्न॑पितां मृ॒तव॑त्सामुपेयि॒म । अपै॑तु॒ सर्वं॒ मत्पा॒पं द्रवि॑णं॒ मोप॑ तिष्ठतु ॥
यत्ते॑ पि॒तृभ्यो॒ दद॑तो य॒ज्ञे वा॒ नाम॑ जगृ॒हुः । सं॑दे॒श्या॑३त्सर्व॑स्मात्पा॒पादि॒मा मु॑ञ्चन्तु॒ त्वौष॑धीः ॥
दे॑वैन॒सात्पित्र्या॑न्नामग्रा॒हात्सं॑दे॒श्या॑दभि॒निष्कृ॑तात् । मु॒ञ्चन्तु॑ त्वा वी॒रुधो॑ वीर्येण॒ ब्रह्म॑णा ऋ॒ग्भिः पय॑सा॒ ऋषी॑णाम् ॥
यथा॒ वात॑श्च्या॒वय॑ति॒ भूम्या॑ रे॒णुम॒न्तरि॑क्षाच्चा॒भ्रम् । ए॒वा मत्सर्वं॑ दुर्भू॒तं ब्रह्म॑नुत्त॒मपा॑यति ॥
अप॑ क्राम॒ नान॑दती॒ विन॑द्धा गर्द॒भीव॑ । क॒र्तॄन्न॑क्षस्वे॒तो नु॒त्ता ब्रह्म॑णा वी॒र्या॑वता ॥
अ॒यं पन्थाः॑ कृ॒त्येति॑ त्वा नयामो ऽभि॒प्रहि॑तां॒ प्रति॑ त्वा॒ प्र हि॑ण्मः । तेना॒भि या॑हि भञ्ज॒त्यन॑स्वतीव वा॒हिनी॑ वि॒श्वरू॑पा कुरू॒तिनी॑ ॥
परा॑क्ते॒ ज्योति॒रप॑थं ते अ॒र्वाग॒न्यत्रा॒स्मदय॑ना कृणुष्व । परे॑णेहि नव॒तिं ना॒व्या॑३ अति॑ दु॒र्गाः स्रो॒त्या मा क्ष॑णिष्ठाः॒ परे॑हि ॥
वात॑ इव वृ॒क्षान्नि मृ॑णीहि पा॒दय॒ मा गामश्वं॒ पुरु॑ष॒मुच्छि॑ष एषाम् । क॒र्तॄन्नि॒वृत्ये॒तः कृ॑त्ये ऽप्रजा॒स्त्वाय॑ बोधय ॥
यां ते॑ ब॒र्हिषि॒ यां श्म॑शा॒ने क्षेत्रे॑ कृ॒त्यां व॑ल॒गं वा॑ निच॒ख्नुः । अ॒ग्नौ वा॑ त्वा॒ गार्ह॑पत्ये ऽभिचे॒रुः पाकं॒ सन्तं॒ धीर॑तरा अना॒गस॑म् ॥
उ॒पाहृ॑त॒मनु॑बुद्धं॒ निखा॑तं॒ वैरं॑ त्सा॒र्यन्व॑विदाम॒ कर्त्र॑म् । तदे॑तु॒ यत॒ आभृ॑तं॒ तत्राश्व॑ इव॒ वि व॑र्ततां॒ हन्तु॑ कृत्या॒कृतः॑ प्र॒जाम् ॥
स्वा॑य॒सा अ॒सयः॑ सन्ति नो गृ॒हे वि॒द्मा ते॑ कृत्ये यति॒धा परूं॑षि । उत्ति॑ष्ठै॒व परे॑ही॒तो ऽज्ञा॑ते॒ किमि॒हेछ॑सि ॥
ग्री॒वास्ते॑ कृत्ये॒ पादौ॒ चापि॑ कर्त्स्यामि॒ निर्द्र॑व ।  इ॑न्द्रा॒ग्नी अ॒स्मान्र॑क्षतां॒ यौ प्र॒जानां॑ प्र॒जाव॑ती ॥
सोमो॒ राजा॑धि॒पा मृ॑डि॒ता च॑ भू॒तस्य॑ नः॒ पत॑यो मृडयन्तु ॥
भ॑वाश॒र्वाव॑स्यतां पाप॒कृते॑ कृत्या॒कृते॑ । दु॒ष्कृते॑ वि॒द्युतं॑ देवहे॒तिम् ॥
यद्ये॒यथ॑ द्वि॒पदी॒ चतु॑ष्पदी कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा । सेतो ऽष्टाप॑दी भू॒त्वा पुनः॒ परे॑हि दुछुने ॥
अ॒भ्य॒क्ताक्ता॒ स्व॑रंकृता॒ सर्वं॒ भर॑न्ती दुरि॒तं परे॑हि । जा॑नीहि कृत्ये क॒र्तारं॑ दुहि॒तेव॑ पि॒तरं॒ स्वम् ॥
परे॑हि कृत्ये॒ मा ति॑ष्ठो वि॒द्धस्ये॑व प॒दं न॑य । मृ॒गः स मृ॑ग॒युस्त्वं न त्वा॒ निक॑र्तुमर्हति ॥
उ॒त ह॑न्ति पूर्वा॒सिनं॑ प्रत्या॒दायाप॑र॒ इष्वा॑ । उ॒त पूर्व॑स्य निघ्न॒तो नि ह॒न्त्यप॑रः॒ प्रति॑ ॥
ए॒तद्धि शृ॒णु मे॒ वचो ऽथे॑हि॒ यत॑ ए॒यथ॑ । यस्त्वा॑ च॒कार॒ तं प्रति॑ ॥
अ॑नागोह॒त्या वै भी॒मा कृ॑त्ये॒ मा नो॒ गामश्वं॒ पुरु॑षं वधीः । यत्र॑य॒त्रासि॒ निहि॑ता॒ तत॒स्त्वोत्था॑पयामसि प॒र्णाल्लघी॑यसी भव ॥
यदि॒ स्थ तम॒सावृ॑ता॒ जाले॑न॒भिहि॑ता इव । सर्वाः॑ सं॒लुप्ये॒तः कृ॒त्याः पुनः॑ क॒र्त्रे प्र हि॑ण्मसि ॥
कृ॑त्या॒कृतो॑ वल॒गिनो॑ ऽभिनिष्का॒रिणः॑ प्र॒जाम् । मृ॑णी॒हि कृ॑त्ये॒ मोच्छि॑षो॒ ऽमून्कृ॑त्या॒कृतो॑ जहि ॥
यथा॒ सूर्यो॑ मु॒च्यते॒ तम॑स॒स्परि॒ रात्रिं॒ जहा॑त्यु॒षस॑श्च के॒तून् । ए॒वाहं सर्वं॑ दुर्भू॒तं कर्त्रं॑ कृत्या॒कृता॑ कृ॒तं ह॒स्तीव॒ रजो॑ दुरि॒तं ज॑हामि ॥

(3) cātanaḥ stuvānam (1.7) idaṃ havir (1.8) ye 'māvāsyām (1.16) upa prāgān (1.28) niḥsālām (2.14) arāyakṣayaṇaṃ (2.18.3-5) śaṃ no devī pṛśniparṇy (2.25) ā paśyati (4.20) tānt satyaujās (4.36) tvayā pūrvaṃ (4.37) purastād yukto (5.29) antardāve juhuta (6.32) prāgnaye (6.34) rakṣohaṇam (8.3-4) ity anuvākaś cātanāni || iti cātanagaṇaḥ ||

स्तु॑वा॒नम॑ग्न॒ आ व॑ह यातु॒धानं॑ किमी॒दिन॑म् । त्वं हि दे॑व वन्दि॒तो ह॒न्ता दस्यो॑र्ब॒भूवि॑थ ॥
आज्य॑स्य परमेष्ठि॒न्जात॑वेद॒स्तनू॑वशिन् । अग्ने॑ तौ॒लस्य॒ प्राशा॑न यातु॒धाना॒न्वि ला॑पय ॥
वि ल॑पन्तु यातु॒धाना॑ अ॒त्त्रिणो॒ ये कि॑मी॒दिनः॑ । अथे॒दम॑ग्ने नो ह॒विरिन्द्र॑श्च॒ प्रति॑ हर्यतम् ॥
अ॒ग्निः पूर्व॒ आ र॑भतां॒ प्रेन्द्रो॑ नुदतु बाहु॒मान् । ब्रवी॑तु॒ सर्वो॑ यातु॒मान॒यम॒स्मीत्येत्य॑ ॥
पश्या॑म ते वी॒र्यं॑ जातवेदः॒ प्र णो॑ ब्रूहि यातु॒धाना॑न्नृचक्षः । त्वया॒ सर्वे॒ परि॑तप्ताः पु॒रस्ता॒त्त आ य॑न्तु प्रब्रुवा॒णा उपे॒दम् ॥
आ र॑भस्व जातवेदो॒ ऽस्माकार्था॑य जज्ञिषे । दू॒तो नो॑ अग्ने भू॒त्वा या॑तु॒धाना॒न्वि ला॑पय ॥
त्वम॑ग्ने यातु॒धाना॒नुप॑बद्धाँ इ॒हा व॑ह । अथै॑षा॒मिन्द्रो॒ वज्रे॒णापि॑ शी॒र्षाणि॑ वृश्चतु ॥

इ॒दं ह॒विर्या॑तु॒धाना॑न्ना॒दी पेन॑मिव॒ आ व॑हत् । य इ॒दं स्त्री पुमा॒नक॑रि॒ह स स्तु॑वतां॒ जनः॑ ॥
अ॒यं स्तु॑वा॒न आग॑मदि॒मं स्म॒ प्रति॑ हर्यत । बृह॑स्पते॒ वशे॑ ल॒ब्ध्वाग्नी॑षोमा॒ वि वि॑ध्यतम् ॥
या॑तु॒धान॑स्य सोमप ज॒हि प्र॒जां नय॑स्व च । नि स्तु॑वा॒नस्य॑ पातय॒ पर॒मक्ष्यु॒ताव॑रम् ॥
यत्रै॑षामग्ने॒ जनि॑मानि॒ वेत्थ॒ गुहा॑ स॒ताम॒त्त्रिणां॑ जातवेदः । तांस्त्वं ब्रह्म॑णा वावृधा॒नो ज॒ह्ये॑षां शत॒तर्ह॑मग्ने ॥

ये ऽमा॑वा॒स्या॑३ रात्रि॑मु॒दस्थु॑र्व्रा॒जम॒त्त्रिणः॑ । अ॒ग्निस्तु॒रीयो॑ यातु॒हा सो अ॒स्मभ्य॒मधि॑ ब्रवत् ॥
सीसा॒याध्या॑ह॒ वरु॑णः॒ सीसा॑या॒ग्निरुपा॑वति । सीसं॑ म॒ इन्द्रः॒ प्राय॑छ॒त्तद॒ङ्ग या॑तु॒चात॑नम् ॥
इ॒दं विष्क॑न्धं सहत इ॒दं बा॑धते अ॒त्त्रिणः॑ । अ॒नेन॒ विश्वा॑ ससहे॒ या जा॒तानि॑ पिशा॒च्याः ॥
यदि॑ नो॒ गां हंसि॒ यद्यश्वं॒ यदि॒ पूरु॑षम् । तं त्वा॒ सीसे॑न विध्यामो॒ यथा॒ नो ऽसो॒ अवी॑रहा ॥

उप॒ प्रागा॑द्दे॒वो अ॒ग्नी र॑क्षो॒हामी॑व॒चात॑नः । दह॒न्नप॑ द्वया॒विनो॑ यातु॒धाना॑न्किमी॒दिनः॑ ॥
प्रति॑ दह यातु॒धाना॒न्प्रति॑ देव किमी॒दिनः॑ । प्र॒तीचीः॑ कृष्णवर्तने॒ सं द॑ह यातुधा॒न्यः॑ ॥
या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे । या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा ॥
पु॒त्रम॑त्तु यातुधा॒नीः स्वसा॑रमु॒त न॒प्त्य॑म् । अधा॑ मि॒थो वि॑के॒श्यो॑३ वि घ्न॑तां यातुधा॒न्यो॑३ वि तृ॑ह्यन्तामरा॒य्यः॑ ॥

निः॑सा॒लां धृ॒ष्णुं धि॒षण॑मेकवा॒द्याम्जि॑घ॒त्स्व॑म् । सर्वा॒श्चण्ड॑स्य न॒प्त्यो॑ ना॒शया॑मः स॒दान्वाः॑ ॥
निर्वो॑ गो॒ष्ठाद॑जामसि॒ निरक्षा॒न्निरु॑पान॒शात् । निर्वो॑ मगुन्द्या दुहितरो गृ॒हेभ्य॑श्चातयामहे ॥
अ॒सौ यो अ॑ध॒राद्गृ॒हस्तत्र॑ सन्त्वरा॒य्यः॑ । तत्र॒ सेदि॒र्न्यु॑च्यतु॒ सर्वा॑श्च यातुधा॒न्यः॑ ॥
भू॑त॒पति॒र्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑ । गृ॒हस्य॑ बु॒ध्न आसी॑नास्ता॒ इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु ॥
यदि॒ स्थ क्षे॑त्रि॒याणां॒ यदि॑ वा॒ पुरु॑षेषिताः । यदि॒ स्थ दस्यु॑भ्यो जा॒ता नश्य॑ते॒तः स॒दान्वाः॑ ॥
परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरम् । अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑ ॥

अ॑राय॒क्षय॑णमस्यराय॒चात॑नं मे दाः॒ स्वाह॑ ॥
पि॑शाच॒क्षय॑णमसि पिशाच॒चात॑नं मे दाः॒ स्वाह॑ ॥
स॑दान्वा॒क्षय॑णमसि सदान्वा॒चात॑नं मे दाः॒ स्वाह॑ ॥

शं नो॑ दे॒वी पृ॑श्निप॒र्ण्यशं॒ निरृ॑त्या अकः । उ॒ग्रा हि क॑ण्व॒जम्भ॑नी॒ ताम॑भक्षि॒ सह॑स्वतीम् ॥
सह॑माने॒यं प्र॑थ॒मा पृ॑श्निप॒र्ण्य॑जायत । तया॒हं दु॒र्णाम्नां॒ शिरो॑ वृ॒श्चामि॑ श॒कुने॑रिव ॥
अ॒राय॑मसृ॒क्पावा॑नं॒ यश्च॑ स्पा॒तिं जिही॑र्षति । ग॑र्भा॒दं कण्वं॑ नाशय॒ पृश्नि॑पर्णि॒ सह॑स्व च ॥
गि॒रिमे॑नाँ॒ आ वे॑शय॒ कण्वा॑न्जीवित॒योप॑नान् । तांस्त्वं दे॑वि॒ पृश्नि॑पर्ण्य॒ग्निरि॑वानु॒दह॑न्निहि ॥
परा॑च एना॒न्प्र णु॑द॒ कण्वा॑न्जीवित॒योप॑नान् । तमां॑सि॒ यत्र॒ गछ॑न्ति॒ तत्क्र॒व्यादो॑ अजीगमम् ॥

आ प॑श्यति॒ प्रति॑ पश्यति॒ परा॑ पश्यति॒ पश्य॑ति । दिव॑म॒न्तरि॑क्ष॒माद्भूमिं॒ सर्वं॒ तद्दे॑वि पश्यति ॥
ति॒स्रो दिव॑स्ति॒स्रः पृ॑थि॒वीः षट्चे॒माः प्र॒दिशाः॒ पृथ॑क् । त्वया॒हं सर्वा॑ भू॒तानि॒ पश्या॑नि देव्योषधे ॥
दि॒व्यस्य॑ सुप॒र्णस्य॒ तस्य॑ हासि क॒नीनि॑का । सा भूमि॒मा रु॑रोहिथ व॒ह्यं श्रा॒न्ता व॒धूरि॑व ॥
तां मे॑ सहस्रा॒क्षो दे॒वो दक्षि॑णे॒ हस्त॒ आ द॑धत् । तया॒हं सर्वं॑ पश्यामि॒ यश्च॑ शू॒द्र उ॒तार्यः॑ ॥
आ॒विष्कृ॑णुष्व रू॒पानि॒ मात्मान॒मप॑ गूहथाः । अथो॑ सहस्रचक्षो॒ त्वं प्रति॑ पश्याः किमी॒दिनः॑ ॥
द॒र्शय॑ मा यातु॒धाना॑न्द॒र्शय॑ यातुधा॒न्यः॑ । पि॑शा॒चान्त्सर्वा॑न्दर्श॒येति॒ त्वा र॑भ ओषधे ॥
क॒श्यप॑स्य॒ चक्षु॑रसि शु॒न्याश्च॑ चतुर॒क्ष्याः । वी॒ध्रे सूर्य॑मिव॒ सर्प॑न्तं॒ मा पि॑शा॒चं ति॒रस्क॑रः ॥
उद॑ग्रभं परि॒पाणा॑द्यातु॒धानं॑ किमी॒दिन॑म् । तेना॒हं सर्वं॑ पश्याम्यु॒त शू॒द्रमु॒तार्य॑म् ॥
यो अ॒न्तरि॑क्षेण॒ पत॑ति॒ दिव॒म्यश्च॑ अति॒सर्प॑ति । भूमिं॒ यो मन्य॑ते ना॒थं तं पि॑शा॒चम्प्र द॑र्शय ॥

तान्त्स॒त्यौजाः॒ प्र द॑हत्व॒ग्निर्वै॑श्वान॒रो वृषा॑ । यो नो॑ दुर॒स्याद्दिप्सा॒च्चाथो॒ यो नो॑ अराति॒यात् ॥
यो नो॑ दि॒प्साददि॑प्सतो॒ दिप्स॑तो॒ यश्च॒ दिप्स॑ति । वै॑श्वान॒रस्य॒ दंष्ट्र॑योर॒ग्नेरपि॑ दधामि॒ तम् ॥
य आ॑ग॒रे मृ॒गय॑न्ते प्रतिक्रो॒शे ऽमा॑वा॒स्ये॑ । क्र॒व्यादो॑ अ॒न्यान्दिप्स॑तः॒ सर्वां॒स्तान्त्सह॑सा सहे ॥
सहे॑ पिशा॒चान्त्सह॒सैषां॒ द्रवि॑णं ददे । सर्वा॑न्दुरस्य॒तो ह॑न्मि॒ सं म॒ आकू॑तिरृद्यताम् ॥
ये दे॒वास्तेन॒ हास॑न्ते॒ सूर्ये॑ण मिमते ज॒वम् । न॒दीषु॒ पर्व॑तेषु॒ ये सं तैः प॒शुभि॑र्विदे ॥
तप॑नो अस्मि पिशा॒चाना॑म्व्या॒घ्रो गोम॑तामिव । श्वानः॑ सिं॒हमि॑व दृ॒ष्ट्वा ते न वि॑न्दन्ते॒ न्यञ्च॑नम् ॥
न पि॑शा॒चैः सं श॑क्नोमि॒ न स्ते॒नैः न व॑न॒र्गुभिः॑ । पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ यम॒हं ग्राम॑मावि॒शे ॥
यं ग्राम॑मावि॒शत॑ इ॒दमु॒ग्रं सहो॒ मम॑ । पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ न पा॒पमुप॑ जानते ॥
ये मा॑ क्रो॒धय॑न्ति लपि॒ता ह॒स्तिनं॑ म॒शका॑ इव । तान॒हं म॑न्ये॒ दुर्हि॑ता॒न्जने॒ अल्प॑शयूनिव ॥
अ॒भि तं निरृ॑तिर्धत्ता॒मश्व॑मिव अश्वाभि॒धान्या॑ । म॒ल्वो यो मह्यं॒ क्रुध्य॑ति॒ स उ॒ पाशा॒न्न मु॑च्यते ॥

त्वया॒ पूर्व॒मथ॑र्वाणो ज॒घ्नू रक्षां॑स्योषधे । त्वया॑ जघान क॒श्यप॒स्त्वया॒ कण्वो॑ अ॒गस्त्यः॑ ॥
त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांस्चा॑तयामहे । अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न्ग॒न्धेन॑ नाशय ॥
न॒दीं य॑न्त्वप्स॒रसो॒ ऽपां ता॒रम॑वश्व॒सम् । गु॑ल्गु॒लूः पीला॑ नल॒द्यौ॑३क्षग॑न्धिः प्रमन्द॒नी । तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
यत्रा॑श्व॒त्था न्य॒ग्रोधा॑ महावृ॒क्षाः शि॑ख॒ण्डिनः॑ । तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
यत्र॑ वः प्रे॒ङ्खा हरि॑ता॒ अर्जु॑ना उ॒त यत्रा॑घा॒ताः क॑र्क॒र्यः॑ सं॒वद॑न्ति । तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
एयम॑ग॒न्नोष॑धीनां वी॒रुधा॑म्वी॒र्या॑वती । अ॑जशृ॒ङ्ग्य॑राट॒की ती॑क्ष्णशृ॒ङ्गी व्यृ॑षतु ॥
आ॒नृत्य॑तः शिख॒ण्डिनो॑ गन्ध॒र्वस्या॑प्सराप॒तेः । भि॒नद्मि॑ मु॒ष्कावपि॑ यामि॒ शेपः॑ ॥
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर॑य॒स्मयीः॑ । ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ॥
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर्हि॑र॒ण्ययीः॑ । ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ॥
अ॑वका॒दान॑भिशो॒चान॒प्सु ज्यो॑तय माम॒कान् । पि॑शा॒चान्त्सर्वा॑नोषधे॒ प्र मृ॑णीहि॒ सह॑स्व च ॥
श्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः । प्रि॒यो दृ॒श इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स् । तमि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्या॑वता ॥
जा॒या इद्वो॑ अप्स॒रसो॒ गन्ध॑र्वाः॒ पत॑यो यु॒यम् । अप॑ धावतामर्त्या॒ मर्त्या॒न्मा स॑चध्वम् ॥

पु॒रस्ता॑द्यु॒क्तो व॑ह जातवे॒दो ऽग्ने॑ वि॒द्धि क्रि॒यमा॑ण॒म्यथे॒दम् । त्वं भि॒षग्भे॑ष॒जस्या॑सि क॒र्ता त्वया॒ गामश्वं॒ पुरु॑षं सनेम ॥
तथा॒ तद॑ग्ने कृणु जातवेदो॒ विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः । यो नो॑ दि॒देव॑ यत॒मो ज॒घास॒ यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति ॥
यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति॒ तथा॒ तद॑ग्ने कृणु जातवेदः । विश्वे॑भिर्दे॒वैर्स॒ह सं॑विदा॒नः ॥
अ॒क्ष्यौ॑३ नि वि॑ध्य॒ हृद॑यं॒ नि वि॑ध्य जि॒ह्वां नि तृ॑न्द्धि॒ प्र द॒तो मृ॑णीहि । पि॑शा॒चो अ॒स्य य॑त॒मो ज॒घासाग्ने॑ यविष्ठ॒ प्रति॑ शृणीहि ॥
यद॑स्य हृ॒तं विहृ॑तं॒ यत्परा॑भृतमा॒त्मनो॑ ज॒ग्धं य॑त॒मत्पि॑शा॒चैः । तद॑ग्ने वि॒द्वान्पुन॒रा भ॑र॒ त्वं शरी॑रे मां॒समसु॒मेर॑यामः ॥
आ॒मे सुप॑क्वे श॒बले॒ विप॑क्वे॒ यो मा॑ पिशा॒चो अश॑ने द॒दम्भ॑ । तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ॥
क्षि॒रे मा॑ म॒न्थे य॑त॒मो द॒दम्भा॑कृष्टप॒च्ये अश॑ने धा॒न्ये॑३ यः । तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ॥
अ॒पां मा॒ पाने॑ यत॒मो द॒दम्भ॑ क्र॒व्याद्या॑तू॒नाम्शय॑ने॒ शया॑नम् । तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ॥
दिवा॑ मा॒ नक्तं॑ यत॒मो द॒दम्भ॑ क्र॒व्याद्या॑तू॒नाम्शय॑ने॒ शया॑नम् । तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ॥
क्र॒व्याद॑मग्ने रुधि॒रं पि॑शा॒चं म॑नो॒हनं॑ जहि जातवेदः । तमिन्द्रो॑ वा॒जी वज्रे॑ण हन्तु छि॒नत्तु॒ सोमः॒ शिरो॑ अस्य धृ॒ष्णुः ॥
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः । स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
स॒माह॑र जातवेदो॒ यद्धृ॒तं यत्परा॑भृतम् । गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम् ॥
सोम॑स्येव जातवेदो अं॒शुरा प्या॑यताम॒यम् । अग्ने॑ विर॒प्शिनं॒ मेध्य॑मय॒क्ष्मं कृ॑णु॒ जीव॑तु ॥
ए॒तास्ते॑ अग्ने स॒मिधः॑ पिशाच॒जम्भ॑नीः । तास्त्वं जु॑षस्व॒ प्रति॑ चैना गृहाण जातवेदः ॥
ता॑र्ष्टा॒घीर॑ग्ने स॒मिधः॒ प्रति॑ गृह्णाह्य॒र्चिषा॑ । जहा॑तु क्र॒व्याद्रू॒पं यो अ॑स्य मां॒सं जिही॑र्षति ॥

अ॑न्तर्दा॒वे जु॑हुत॒ स्वे॒तद्या॑तुधान॒क्षय॑णं घृ॒तेन॑ । आ॒राद्रक्षां॑सि॒ प्रति॑ दह॒ त्वम॑ग्ने॒ न नो॑ गृ॒हाणा॒मुप॑ तीतपासि ॥
रु॒द्रो वो॑ ग्री॒वा अश॑रैत्पिशाचाह्पृ॒ष्टीर्वो ऽपि॑ शृणातु यातुधानाः । वी॒रुद्वो॑ वि॒श्वतो॑वीर्या य॒मेन॒ सम॑जीगमत् ॥
अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑ । मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥

प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम् । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
यो रक्षां॑सि नि॒जूर्व॑त्य॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

रक्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥
अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः । आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒ष्ट्वापि॑ धत्स्वा॒सन् ॥
उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रौ॑ हिं॒स्रः शिशा॒नो ऽव॑रं॒ परं॑ च । उ॒तान्तरि॑क्षे॒ परि॑ याह्यग्ने॒ जम्भैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥
अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् । प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोत्वेनम् ॥
यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम् । उ॒तान्तरि॑क्षे॒ पत॑न्तं यातु॒धानं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥
य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने इवा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः । ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ग्ध्येषाम् ॥
उ॒तार॑ब्धान्त्स्पृनुहि जातवेद उ॒तारे॑भा॒णाँ ऋ॒ष्टिभि॑र्यातु॒धाना॑न् । अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः॑ ॥
इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने यातु॒धानो॒ य इ॒दं कृ॑णोति । तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ॥
ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः । हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥
नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ । तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥ 
त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ । तम॒र्चिषा॑ स्पू॒र्जय॑न्जातवेदः सम॒क्षमे॑नम्गृण॒ते नि यु॑ङ्ग्धि ॥
यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः । म॒न्योर्मन॑सः शर॒व्या॑३ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥
परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि । परा॒र्चिषा॒ मूर॑देवान्छृणीहि॒ परा॑सु॒तृपः॒ शोशु॑चतः शृणीहि ॥
परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु सृ॒ष्टाः । वा॒चास्ते॑नं॒ शर॑व ऋछन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥
यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑ । यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥
वि॒षं गवां॑ यातु॒धाना॑ भरन्ता॒मा वृ॑श्चन्ता॒मदि॑तये दु॒रेवाः॑ । परै॑णान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥
सं॑वत्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः । पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑णि ॥
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः । स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
त्वं नो॑ अग्ने अध॒रादु॑द॒क्तस्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् । प्रति॒ त्ये ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ॥
प॒श्चात्पु॒रस्ता॑दध॒रादु॒तोत्त॒रात्क॒विः काव्ये॑न॒ परि॑ पाह्यग्ने । सखा॒ सखा॑यम॒जरो॑ जरि॒म्ने अग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ॥ 
तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑पा॒रुजो॒ येन॒ पश्य॑सि यातु॒धाना॑न् । अ॑थर्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ॥
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑तः ॥
वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ स्म र॒क्षसो॑ जहि । अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिर॒र्चिभिः॑ ॥
वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्षो॑भ्यो वि॒निक्षे॑ ॥
ये ते॒ शृङ्गे॑ अ॒जरे॑ जातवेदस्ति॒ग्महे॑ती॒ ब्रह्म॑संशिते । ताभ्यां॑ दु॒र्हार्द॑मभि॒दास॑न्तं किमी॒दिनं॑ । प्र॒त्यञ्च॑म॒र्चिषा॑ जातवेदो॒ वि नि॑क्ष्व ॥
अ॒ग्नी रक्षां॑सि सेधति शु॒क्रशो॑चि॒रम॑र्त्यः । शुचिः॑ पाव॒क ईड्यः॑ ॥ 
इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑ । परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्त्रिणः॑ ॥
इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य॒घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒माँ इ॑व । ब्र॑ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मीदिने ॥
इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् । यतो॒ नैषां॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥
इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम् । उत्त॑क्षतं स्व॒र्यं॑१ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥
इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः । तपु॑र्वधेभिर॒जरे॑भिर॒त्त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥
इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वाजिना । यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑ इव जिन्वतम् ॥
प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः । इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो मा॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हुः ॥
यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः । आप॑ इव काशिना॒ सम्गृ॑भीता॒ अस॑न्न॒स्त्वस॑तः इन्द्र व॒क्ता ॥
ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑ । अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पष्ठे॑ ॥
यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवां॒ यस्त॒नूना॑म् ।  रि॒पु स्ते॒न स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॑३ तना॑ च ॥ 
प॒रः सो अ॑स्तु त॒न्वा॑३ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑ । प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो मा॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥
सु॑विज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते । तस्यो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ ऽवति॒ हन्त्यस॑त् ॥
न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रिय॑म्मिथु॒या धा॒रय॑न्तम् । हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥
यदि॑ वा॒हमनृ॑तदेवो॒ अस्मि॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने । किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ॥
अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पुरु॑षस्य । अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥
यो माया॑तुं॒ यातु॑धाने॒त्याह॒ यो वा॑ र॒क्षाः शिचि॑र॒स्मीत्याह॑ । इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥
प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हुस्त॒न्वं॑१ गूह॑माना । व॒व्रम॑न॒न्तमव॒ सा प॑दीष्टिअ॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ॥
वि ति॑ष्ठध्वम्मरुतो वि॒क्ष्वि॑३छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन् । वयो॒ ये भू॒त्वा प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥
प्र व॑र्तय दि॒वो ऽश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि । प्रा॒क्तो अ॑पा॒क्तो अ॑ध॒रादु॑द॒क्तो ऽभि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥
ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवो ऽदा॑भ्यम् । शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नु॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥ 
इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॑३विवा॑सताम् । अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑तु र॒क्षसः॑ ॥
उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम् । सु॑प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥
मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॒दपो॑छन्तु मिथु॒ना ये कि॑मी॒दिनः॑ । पृ॑थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम् । विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम् ॥
प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम् । रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ॥ 

(4) mātṛnāmā divyo gandharva (2.2) ā paśyat (4.20)  īmaṃ me agne (6.111) yau te māta (8.6) iti mātṛnāmāni || iti mātṛgaṇaḥ ||

दि॒व्यो ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्यो॑ वि॒क्ष्वीड्यः॑ । तं त्वा॑ यौमि॒ ब्रह्म॑णा दिव्य देव॒ नम॑स्ते अस्तु दि॒वि ते॑ स॒धस्थ॑म् ॥
दि॒वि स्पृ॒ष्टो य॑ज॒तः सूर्य॑त्वगवया॒ता हर॑सो॒ दैव्य॑स्य । मृ॒डात्ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्यः॑ सु॒शेवाः॑ ॥
अ॑नव॒द्याभिः॒ समु॑ जग्म आभिरप्स॒रास्वपि॑ गन्ध॒र्व आ॑सीत् । स॑मु॒द्र आ॑सां॒ सद॑नं म आहु॒र्यतः॑ स॒द्य आ च॒ परा॑ च॒ यन्ति॑ ॥
अभ्रि॑ये॒ दिद्यु॒न्नक्ष॑त्रिये॒ या वि॒श्वाव॑सुं गन्ध॒र्वं सच॑ध्वे । ताभ्यो॑ वो देवी॒र्नम॒ इत्कृ॑णोमि ॥
याः क्ल॒न्दास्तमि॑षीचयो॒ ऽक्षका॑मा मनो॒मुहः॑ । ताभ्यो॑ गन्ध॒र्वभ्यो॑ ऽप्स॒राभ्यो॑ ऽकर॒म्नमः॑ ॥

आ प॑श्यति॒ प्रति॑ पश्यति॒ परा॑ पश्यति॒ पश्य॑ति । दिव॑म॒न्तरि॑क्ष॒माद्भूमिं॒ सर्वं॒ तद्दे॑वि पश्यति ॥
ति॒स्रो दिव॑स्ति॒स्रः पृ॑थि॒वीः षट्चे॒माः प्र॒दिशाः॒ पृथ॑क् । त्वया॒हं सर्वा॑ भू॒तानि॒ पश्या॑नि देव्योषधे ॥
दि॒व्यस्य॑ सुप॒र्णस्य॒ तस्य॑ हासि क॒नीनि॑का । सा भूमि॒मा रु॑रोहिथ व॒ह्यं श्रा॒न्ता व॒धूरि॑व ॥
तां मे॑ सहस्रा॒क्षो दे॒वो दक्षि॑णे॒ हस्त॒ आ द॑धत् । तया॒हं सर्वं॑ पश्यामि॒ यश्च॑ शू॒द्र उ॒तार्यः॑ ॥
आ॒विष्कृ॑णुष्व रू॒पानि॒ मात्मान॒मप॑ गूहथाः । अथो॑ सहस्रचक्षो॒ त्वं प्रति॑ पश्याः किमी॒दिनः॑ ॥
द॒र्शय॑ मा यातु॒धाना॑न्द॒र्शय॑ यातुधा॒न्यः॑ । पि॑शा॒चान्त्सर्वा॑न्दर्श॒येति॒ त्वा र॑भ ओषधे ॥
क॒श्यप॑स्य॒ चक्षु॑रसि शु॒न्याश्च॑ चतुर॒क्ष्याः । वी॒ध्रे सूर्य॑मिव॒ सर्प॑न्तं॒ मा पि॑शा॒चं ति॒रस्क॑रः ॥
उद॑ग्रभं परि॒पाणा॑द्यातु॒धानं॑ किमी॒दिन॑म् । तेना॒हं सर्वं॑ पश्याम्यु॒त शू॒द्रमु॒तार्य॑म् ॥
यो अ॒न्तरि॑क्षेण॒ पत॑ति॒ दिव॒म्यश्च॑ अति॒सर्प॑ति । भूमिं॒ यो मन्य॑ते ना॒थं तं पि॑शा॒चम्प्र द॑र्शय ॥

इ॒मम्मे॑ अग्ने॒ पुरु॑षम्मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति । अतो ऽधि॑ ते कृणवद्भाग॒धेयं॑ य॒दानु॑न्मदि॒तो ऽस॑ति ॥
अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्य॑तम् । कृ॑णोमि वि॒द्वान्भे॑ष॒जं यथानु॑न्मदि॒तो ऽस॑सि ॥
दे॑वैन॒सादुन्म॑दित॒मुन्म॑त्त॒म्रक्ष॑स॒स्परि॑ । कृ॑णोमि वि॒द्वान्भे॑ष॒जं य॒दानु॑न्मदि॒तो ऽस॑ति ॥
पुन॑स्त्वा दुरप्स॒रसः॒ पुन॒रिन्द्रः॒ पुन॒र्भगः॑ । पुन॑स्त्वा दु॒र्विश्वे॑ दे॒वा यथा॑नुन्मदि॒तो ऽस॑सि ॥

यौ ते॑ मा॒तोन्म॒मार्ज॑ जा॒तायाः॑ पति॒वेद॑नौ । दु॒र्णामा॒ तत्र॒ मा गृ॑धद॒लिंश॑ उ॒त व॒त्सपः॑ ॥
प॑लालानुपला॒लौ शर्कुं॒ कोकं॑ मलिम्लु॒चं प॒लीज॑कम् । आ॒श्रेषं॑ व॒व्रिवा॑सस॒मृक्ष॑ग्रीवं प्रमी॒लिन॑म् ॥
मा सं वृ॑तो॒ मोप॑ सृप ऊ॒रू माव॑ सृपो ऽन्त॒रा । कृ॒णोम्य॑स्यै भेष॒जं ब॒जं दु॑र्णाम॒चात॑नम् ॥
दु॒र्णामा॑ च सु॒नामा॑ चो॒भा स॒म्वृत॑मिछतः । अ॒राया॒नप॑ हन्मः सु॒नामा॒ स्त्रैण॑मिछताम् ॥
यः कृ॒ष्णः के॒श्यसु॑र स्तम्ब॒ज उ॒त तुण्डि॑कः । अ॒राया॑नस्या मु॒ष्काभ्यां॒ भंस॒सो ऽप॑ हन्मसि ॥
अ॑नुजि॒घ्रं प्र॑मृ॒शन्तं॑ क्र॒व्याद॑मु॒त रे॑रि॒हम् । अ॒रायां॑ श्वकि॒ष्किणो॑ ब॒जः पि॒ङ्गो अ॑नीनशत् ॥
यस्त्वा॒ स्वप्ने॑ नि॒पद्य॑ते॒ भ्राता॑ भू॒त्वा पि॒तेव॑ च । ब॒जस्तान्त्स॑हतामि॒तः क्ली॒बरू॑पांस्तिरी॒तिनः॑ ॥
यस्त्वा॑ स्व॒पन्तीं॒ त्सर॑ति॒ यस्त्वा॒ दिप्स॑ति॒ जाग्र॑तीम् । छा॒यामि॑व॒ प्र तान्त्सूर्यः॑ परि॒क्राम॑न्ननीनशत् ॥
यः कृ॒णोति॑ मृ॒तव॑त्सा॒मव॑तोकामि॒मां स्त्रिय॑म् । तमो॑षधे॒ त्वं ना॑शया॒स्याः क॒मल॑मञ्जि॒वम् ॥
ये शालाः॑ परि॒नृत्य॑न्ति सा॒यं ग॑र्दभना॒दिनः॑ । कु॒सूला॒ ये च॑ कुक्षि॒लाः क॑कु॒भाः क॒रुमाः॒ स्रिमाः॑ । तानो॑षधे॒ त्वं ग॒न्धेन॑ विषू॒चीना॒न्वि ना॑शय ॥ 
ये कु॒कुन्धाः॑ कु॒किर॑भाः॒ कृत्ती॑र्दू॒र्शानि॒ बिभ्र॑ति । क्ली॒बा इ॑व प्र॒नृत्य॑न्तो॒ वने॒ ये कु॒र्वते॒ घोषं॒ तानि॒तो ना॑शयामसि ॥
ये सूर्यं॒ न तिति॑क्षन्त आ॒तप॑न्तम॒मुं दि॒वः । अ॒राया॑न्बस्तवा॒सिनो॑ दु॒र्गन्धीं॒ल्लोहि॑तास्या॒न्मक॑कान्नाशयामसि ॥
य आ॒त्मान॑मतिमा॒त्रमंस॑ आ॒धाय॒ बिभ्र॑ति । स्त्री॒णां श्रो॑णिप्रतो॒दिन॒ इन्द्र॒ रक्षां॑सि नाशय ॥
ये पूर्वे॑ ब॒ध्वो॑३ यन्ति॒ हस्ते॒ शृङ्गा॑नि॒ बिभ्र॑तः । आ॑पाके॒स्थाः प्र॑हा॒सिन॑ स्त॒म्बे ये कु॒र्वते॒ ज्योति॒स्तानि॒तो ना॑शयामसि ॥
येषा॑म्प॒श्चात्प्रप॑दानि पु॒रः पार्ष्णीः॑ पु॒रो मुखा॑ । ख॑ल॒जाः श॑कधूम॒जा उरु॑ण्डा॒ ये च॑ मट्म॒टाः कु॒म्भमु॑ष्का अया॒शवः॑ । तान॒स्या ब्र॑ह्मणस्पते प्रतीबो॒धेन॑ नाशय ॥
प॑र्यस्ता॒क्षा अप्र॑चङ्कशा अस्त्रै॒णाः स॑न्तु॒ पण्ड॑गाः । अव॑ भेषज पादय॒ य इ॒मां सं॒विवृ॑त्स॒त्यप॑तिः स्वप॒तिं स्त्रिय॑म् ॥
उ॑द्ध॒र्षिणं॒ मुनि॑केशं ज॒म्भय॑न्तं मरी॒मृशम् । उ॒पेष॑न्तमुदु॒म्बलं॑ तु॒ण्डेल॑मु॒त शालु॑डम् । प॒दा प्र वि॑ध्य॒ पार्ष्ण्या॑ स्था॒लीं गौरि॑व स्पन्द॒ना ॥
यस्ते॒ गर्भं॑ प्रतिमृ॒शाज्जा॒तं वा॑ मा॒रया॑ति ते । पि॒ङ्गस्तमु॒ग्रध॑न्वा कृ॒णोतु॑ हृदया॒विध॑म् ॥
ये अ॒म्नो ज॒तान्मा॒रय॑न्ति॒ सूति॑का अनु॒शेर॑ते । स्त्रीभा॑गान्पि॒ङ्गो ग॑न्ध॒र्वान्वातो॑ अ॒भ्रमि॑वाजतु ॥
परि॑सृष्टं धरयतु॒ यद्धि॒तं माव॑ पादि॒ तत् । गर्भं॑ त उ॒ग्रौ र॑क्षताम्भेष॒जौ नी॑विभा॒र्यौ॑ ॥ 
पवीन॒सात्त॑ङ्ग॒ल्वा॑३छाय॑कादु॒त नग्न॑कात् । प्र॒जायै॒ पत्ये॑ त्वा पि॒ङ्गः परि॑ पातु किमी॒दिनः॑ ॥
द्व्या॑स्याच्चतुर॒क्षात्पञ्च॑पदादनङ्गु॒रेः । वृन्ता॑द॒भि प्र॒सर्प॑तः॒ परि॑ पाहि वरीवृ॒तात् ॥
य आ॒मं माम्स॑मदन्ति॒ पौरु॑षेयं च॒ ये क्र॒विः । गर्भा॒न्खाद॑न्ति केश॒वास्तानि॒तो ना॑शयामसि ॥
ये सूर्या॑त्परि॒सर्प॑न्ति स्नु॒षेव॒ श्वशु॑रा॒दधि॑ । ब॒जश्च॒ तेषां॑ पि॒ङ्गश्च॒ हृद॒ये ऽधि॒ नि वि॑ध्यताम् ॥
पिङ्ग॒ रक्ष॒ जाय॑मानं॒ मा पुमां॑सं॒ स्त्रियं॑ क्रन् । आ॒ण्डादो॒ गर्भा॒न्मा द॑भ॒न्बाध॑स्वे॒तः कि॑मी॒दिनः॑ ॥
अ॑प्र॒जास्त्वं॒ मार्त॑वत्स॒माद्रोद॑म॒घमा॑व॒यम् । वृ॒क्षादि॑व॒ स्रज॑म्कृ॒त्वाप्रि॑ये॒ प्रति॑ मुञ्च॒ तत् ॥ 

(5) vāstoṣpatīya āśānām āśāpālebhya (1.31) ihaiva dhruvām (3.12.1) ṛdhaṅmantro yonim (5.1.1)  uta putraḥ  pitaram  (5.1.8) indrasya gṛho 'sī (5.6.11) ti catasro dive svāhā (5.9) aśamavarma me (5.10)  pṛthivyai śrotrāya (6.10.1) ati dhanvānīti (7.42.1) dve ūrjaṃ bibhrad iti ṣaṭ (7.62.1-6) satyaṃ bṛhad (12.1) ity anuvāko vāstoṣpatīyāni || iti vāstugaṇaḥ ||

आशा॑नामाशापा॒लेभ्य॑श्च॒तुर्भ्यो॑ अ॒मृते॑भ्यः । इ॒दं भू॒तस्याध्य॑क्षेभ्यो वि॒धेम॑ ह॒विषा॑ व॒यम् ॥
य आशा॑नामाशापा॒लाश्च॒त्वार॒ स्थन॑ देवाः । ते नो॒ निरृ॑त्याः॒ पाशे॑भ्यो मु॒ञ्चतांह॑सोअंहसः ॥
अस्रा॑मस्त्वा ह॒विषा॑ यजा॒म्यश्लो॑णस्त्वा घृ॒तेन॑ जुहोमि । य आशा॑नामाशापा॒लस्तु॒रीयो॑ दे॒वः स नः॑ सुभू॒तमे॒ह व॑क्षत् ॥
स्व॒स्ति मा॒त्र उ॒त पि॒त्रे नो॑ अस्तु स्व॒स्ति गोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः । विश्व॑म्सुभू॒तम्सु॑वि॒दत्रं॑ नो अस्तु॒ ज्योगे॒व दृ॑शेम॒ सूर्य॑म् ॥

इ॒हैव ध्रु॒वां नि मि॑नोमि॒ शालां॒ क्षेमे॑ तिष्ठाति घृ॒तमु॒क्षमा॑णा । तां त्वा॑ शाले॒ सर्व॑वीराः सु॒वीरा॒ अरि॑ष्टवीरा॒ उप॒ सं च॑रेम ॥

ऋध॑ङ्मन्त्रो॒ योनिं॒ य आ॑ब॒भूव॒मृता॑सु॒र्वर्ध॑मानः सु॒जन्मा॑ । अद॑ब्धासु॒र्भ्राज॑मा॒नो ऽहे॑व त्रि॒तो ध॒र्ता दा॑धार॒ त्रीणि॑ ॥

उ॒त पु॒त्रः पि॒तरं॑ क्ष॒त्रमी॑डे ज्ये॒ष्ठं म॒र्याद॑मह्वयन्त्स्व॒स्तये॑ । दर्श॒न्नु ता व॑रुण॒ यास्ते॑ वि॒ष्ठा आ॒वर्व्र॑ततः कृणवो॒ वपूं॑षि ॥

इन्द्र॑स्य गृ॒हो ऽसि॑ । तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ॥

दि॒वे स्वाहा॑ ॥
पृ॑थि॒व्यै स्वाहा॑ ॥
अ॒न्तरि॑क्षाय॒ स्वाहा॑ ॥
अ॒न्तरि॑क्षाय॒ स्वाहा॑ ॥
दि॒वे स्वाहा॑ ॥
पृ॑थि॒व्यै स्वाहा॑ ॥
सूर्यो॑ मे॒ चक्षु॒र्वातः॑ प्रा॒णो ऽन्तरि॑क्षमा॒त्मा पृ॑थि॒वी शरी॑रम् । अ॑स्तृ॒तो नामा॒हम॒यम॑स्मि॒ स आ॒त्मानं॒ नि द॑धे॒ द्यावा॑पृथि॒वीभ्यां॑ गोपी॒थाय॑ ॥
उदायु॒रुद्बल॒मुत्कृ॒तमुत्कृ॒त्यामुन्म॑नी॒षामुदि॑न्द्रि॒यम् । आयु॑ष्कृ॒दायु॑ष्पत्नी॒ स्वधा॑वन्तौ गो॒पा मे॑ स्तं गोपा॒यतं॑ मा । आ॑त्म॒सदौ॑ मे स्तं॒ मा मा॑ हिंसिष्टम् ॥

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॒ प्राच्या॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॒ दक्षि॑णाया दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ प्र॒तीच्या॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
अ॑श्मव॒र्म मे॑ ऽसि॒ यो मोदी॑च्या दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ ध्रु॒वाया॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
अ॑श्मव॒र्म मे॑ ऽसि॒ यो मो॒र्ध्वाया॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
बृ॑ह॒ता मन॒ उप॑ ह्वये मात॒रिश्व॑ना प्राणापा॒नौ । सूर्या॒च्चक्षु॑र॒न्तरि॑क्षा॒च्छ्रोत्रं॑ पृथि॒व्याः शरी॑रम् । सर॑स्वत्या॒ वाच॒मुप॑ ह्वयामहे मनो॒युजा॑ ॥

पृ॑थि॒व्यै श्रोत्रा॑य॒ वन॒स्पति॑भ्यो॒ ऽग्नये ऽधि॑पतये॒ स्वाहा॑ ॥

अति॒ धन्वा॒न्यत्य॒पस्त॑तर्द श्ये॒नो नृ॒चक्षा॑ अवसानद॒र्शः । तर॒न्विश्वा॒न्यव॑रा॒ रजं॒सीन्द्रे॑ण॒ सख्या॑ शि॒व आ ज॑गम्यात् ॥

ऊर्जं॒ बिभ्र॑द्वसु॒वनि॑ह्सुमे॒धा अघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण । गृ॒हानैमि॑ सु॒मना॒ वन्द॑मानो॒ रम॑ध्व॒म्मा बि॑भीत॒ मत् ॥
इ॒मे गृ॒हा म॑यो॒भुव॒ ऊर्ज॑स्वन्तः॒ पय॑स्वन्तः । पू॒र्णा वा॒मेन॒ तिष्ठ॑न्त॒स्ते नो॑ जानन्त्वाय॒तः ॥
येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन॒सो ब॒हुः । गृ॒हानुप॑ ह्वयामहे॒ ते नो॑ जानन्त्वाय॒तः ॥
उप॑हूता॒ भूरि॑धनाः॒ सखा॑यः स्वा॒दुसं॑मुदः । अ॑क्षु॒ध्या अ॑तृ॒ष्या स्त॒ गृहा॒ मास्मद्बि॑भीतन ॥
उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वयः॑ । अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ ॥
सू॒नृता॑वन्तः सु॒भगा॒ इरा॑वन्तो हसामु॒दाः । अ॑तृ॒ष्या अ॑क्सु॒ध्या स्त॒ गृहा॒ मास्मद्बि॑भीतन ॥

स॒त्यं बृ॒हदृ॒तमु॒ग्रं दी॒क्षा तपो॒ ब्रह्म॑ य॒ज्ञः पृ॑थि॒वीं धा॑रयन्ति । सा नो॑ भू॒तस्य॒ भव्य॑स्य॒ पत्न्यु॒रुं लो॒कं पृ॑थि॒वी नः॑ कृणोतु ॥
अ॑संबा॒धं म॑ध्य॒तो मा॑न॒वानां॒ यस्या॑ उ॒द्वतः॑ प्र॒वतः॑ स॒मं ब॒हु । नाना॑वीर्या॒ ओष॑धी॒र्या बिभ॑र्ति पृथि॒वी नः॑ प्रथतां॒ राध्य॑तां नः ॥
यस्यां॑ समु॒द्र उ॒त सिन्धु॒रापो॒ यस्या॒मन्नं॑ कृ॒ष्टयः॑ संबभू॒वुः । यस्या॑मि॒दं जिन्व॑ति प्रा॒णदेज॒त्सा नो॒ भूमिः॑ पूर्व॒पेये॑ दधातु ॥
यस्या॒श्चत॑स्रः प्र॒दिशः॑ पृथि॒व्या यस्या॒मन्न॑म्कृ॒ष्टयः॑ संबभू॒वुः । या बिभ॑र्ति बहु॒धा प्रा॒णदेज॒त्सा नो॒ भूमि॒र्गोष्वप्यन्ने॑ दधातु ॥
यस्यां॒ पूर्वे॑ पूर्वज॒ना वि॑चक्रि॒रे यस्यां॑ दे॒वा असु॑रान॒भ्यव॑र्तयन् । गवा॒मश्वा॑नां॒ वय॑सश्च वि॒ष्ठा भगं॒ वर्चः॑ पृथि॒वी नो॑ दधातु ॥
वि॑श्वंभ॒रा व॑सु॒धानी॑ प्रति॒ष्ठा हिर॑ण्यवक्षा॒ जग॑तो नि॒वेश॑नी । वै॑श्वान॒रं बिभ्र॑ती॒ भूमि॑र॒ग्निमिन्द्रऋ॑षभा॒ द्रवि॑णे नो दधातु ॥
यां रक्ष॑न्त्यस्व॒प्ना वि॑श्व॒दानीं॑ दे॒वा भूमिं॑ पृथि॒वीमप्र॑मादम् । सा नो॒ मधु॑ प्रि॒यं दु॑हा॒मथो॑ उक्षतु॒ वर्च॑सा ॥
यार्ण॒वे ऽधि॑ सलि॒लमग्र॒ आसी॒त्यां मा॒याभि॑र॒न्वच॑रन्मनी॒षिणः॑ । यस्या॒ हृद॑यं पर॒मे व्यो॑मन्त्स॒त्येनावृ॑तम॒मृतं॑ पृथि॒व्याः । सा नो॒ भूमि॒स्त्विषिं॒ बलं॑ रा॒ष्ट्रे द॑धातूत्त॒मे ॥
यस्या॒मापः॑ परिच॒राः स॑मा॒नीर॑होरा॒त्रे अप्र॑मादं॒ क्षर॑न्ति । सा नो॒ भूमि॒र्भूरि॑धारा॒ पयो॑ दुहा॒मथो॑ उक्षतु॒ वर्च॑सा ॥
याम॒श्विना॒वमि॑मातां॒ विष्णु॒र्यस्यां॑ विचक्र॒मे । इन्द्रो॒ यां च॒क्र आ॒त्मने॑ ऽनमि॒त्रां शची॒पतिः॑ । सा नो॒ भूमि॒र्वि सृ॑जतां मा॒ता पु॒त्राय॑ मे॒ पयः॑ ॥ 
गि॒रय॑स्ते॒ पर्व॑ता हि॒मव॒न्तो ऽर॑ण्यं ते पृथिवि स्यो॒नम॑स्तु । ब॒भ्रुं कृ॒ष्णाम्रोहि॑णीं वि॒श्वरू॑पां ध्रु॒वां भूमिं॑ पृथि॒वीमिन्द्र॑गुप्ताम् । अजी॒तो ऽह॑तो॒ अक्ष॒तो ऽध्य॑ष्ठाम्पृथि॒वीमह॑म् ॥
यत्ते॒ मध्यं॑ पृथिवि॒ यच्च॒ नभ्यं॒ यास्त॒ ऊर्ज॑स्त॒न्वः॑ संबभू॒वुः । तासु॑ नो धेह्य॒भि नः॑ पवस्व मा॒ता भूमिः॑ पु॒त्रो अ॒हं पृ॑थि॒व्याः प॒र्जन्यः॑ पि॒ता स उ॑ नः पिपर्तु ॥
यस्यां॒ वेदिं॑ परिगृ॒ह्णन्ति॒ भूम्यां॒ यस्यां॑ य॒ज्ञं त॒न्वते॑ वि॒श्वक॑र्माणः । यस्यां॑ मी॒यन्ते॒ स्वर॑वः पृथि॒व्यामू॒र्ध्वाः शु॒क्रा आहु॑त्याः पु॒रस्ता॑त् । सा नो॒ भूमि॑र्वर्धय॒द्वर्ध॑माना ॥
यो नो॒ द्वेष॑त्पृथिवि॒ यः पृ॑त॒न्याद्यो ऽभि॒दासा॒न्मन॑सा॒ यो व॒धेन॑ । तं नो॑ भूमे रन्धय पूर्वकृत्वरि ॥
त्वज्जा॒तास्त्वयि॑ चरन्ति॒ मर्त्या॒स्त्वं बि॑भर्षि द्वि॒पद॒स्त्वं चतु॑ष्पदः । तवे॒मे पृ॑थिवि॒ पञ्च॑ मान॒वा येभ्यो॒ ज्योति॑र॒मृतं॒ मर्त्ये॑भ्य उ॒द्यन्त्सूर्यो॑ र॒श्मिभि॑रात॒नोति॑ ॥
ता नः॑ प्र॒जाः सं दु॑ह्रतां सम॒ग्रा वा॒चो मधु॑ पृथिवि धेहि॒ मह्य॑म् ॥
वि॑श्व॒स्वं॑ मा॒तर॒मोष॑धीनां ध्रु॒वां भूमिं॑ पृथि॒वीं धर्म॑णा धृ॒ताम् । शि॒वां स्यो॒नामनु॑ चरेम वि॒श्वहा॑ ॥
म॒हत्स॒धस्थं॑ मह॒ती ब॒भूवि॑थ म॒हान्वेग॑ ए॒जथु॑र्वे॒पथु॑ष्टे । म॒हांस्त्वेन्द्रो॑ रक्ष॒त्यप्र॑मादम् । सा नो॑ भूमे॒ प्र रो॑चय॒ हिर॑ण्यस्येव सं॒दृशि॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
अ॒ग्निर्भूम्या॒मोष॑धीष्व॒ग्निमापो॑ बिभ्रत्य॒ग्निरश्म॑सु । अ॒ग्निर॒न्तः पुरु॑षेषु॒ गोष्वश्वे॑ष्व॒ग्नयः॑ ॥
अ॒ग्निर्दि॒व आ त॑पत्य॒ग्नेर्दे॒वस्यो॒र्व॑१न्तरि॑क्षम् । अ॒ग्निं मर्ता॑स इन्धते हव्य॒वाहं॑ घृत॒प्रिय॑म् ॥ 
अ॒ग्निवा॑साः पृथि॒व्य॑सित॒ज्ञूस्त्विषी॑मन्तं॒ संशि॑तं मा कृणोतु ॥
भूम्यां॑ दे॒वेभ्यो॑ ददति य॒ज्ञं ह॒व्यमरं॑कृतम् । भूम्यां॑ मनु॒ष्या॑ जीवन्ति स्व॒धयान्ने॑न॒ मर्त्याः॑ । सा नो॒ भूमिः॑ प्रा॒णमायु॑र्दधातु ज॒रद॑ष्टिं मा पृथि॒वी कृ॑णोतु ॥
यस्ते॑ ग॒न्धः पृ॑थिवि संब॒भूव॒ यं बिभ्र॒त्योष॑धयो॒ यमापः॑ । यं ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च भेजि॒रे तेन॑ मा सुर॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
यस्ते॑ ग॒न्धः पुष्क॑रमावि॒वेश॒ यं सं॑ज॒भ्रुः सू॒र्याया॑ विवा॒हे । अम॑र्त्याः पृथिवि ग॒न्धमग्रे॒ तेन॒ मा सु॑र॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
यस्ते॑ ग॒न्धः पुरु॑षेषु स्त्री॒षु पुं॒सु भगो॒ रुचिः॑ । यो अश्वे॑षु वी॒रेषु॒ यो मृ॒गेषू॒त ह॒स्तिषु॑ । क॒न्या॑यां॒ वर्चो॒ यद्भू॑मे॒ तेना॒स्माँ अपि॒ सं सृ॑ज॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
शि॒ला भूमि॒रश्मा॑ पां॒सुः सा भूमिः॒ संधृ॑ता धृ॒ता । तस्यै॒ हिर॑ण्यवक्षसे पृथि॒व्या अ॑करं॒ नमः॑ ॥
यस्यां॑ वृ॒क्षा वा॑नस्प॒त्या ध्रु॒वास्तिष्ठ॑न्ति वि॒श्वहा॑ । पृ॑थि॒वीं वि॒श्वधा॑यसं धृ॒ताम॒छाव॑दामसि ॥
उ॒दीरा॑णा उ॒तासी॑ना॒स्तिष्ठ॑न्तः प्र॒क्राम॑न्तः । प॒द्भ्यां द॑क्षिणस॒व्याभ्यां॒ मा व्य॑थिष्महि॒ भूम्या॑म् ॥
वि॒मृग्व॑रीं पृथि॒वीमा व॑दामि क्ष॒मां भूमिं॒ ब्रह्म॑णा वावृधा॒नाम् । ऊर्जं॑ पु॒ष्टं बिभ्र॑तीमन्नभा॒गं घृ॒तं त्वा॑भि॒ नि षी॑देम भूमे ॥
शु॒द्धा न॒ आप॑स्त॒न्वे॑ क्षरन्तु॒ यो नः॒ सेदु॒रप्रि॑ये॒ तं नि द॑ध्मः । प॒वित्रे॑ण पृथिवि॒ मोत्पु॑नामि ॥ 
यास्ते॒ प्राचीः॑ प्र॒दिशो॒ या उदी॑ची॒र्यास्ते॑ भूमे अध॒राद्याश्च॑ प॒श्चात् । स्यो॒नास्ता मह्यं॒ चर॑ते भवन्तु॒ मा नि प॑प्तं॒ भुव॑ने शिश्रिया॒णः ॥
मा नः॑ प॒श्चान्मा पु॒रस्ता॑न्नुदिष्ठा॒ मोत्त॒राद॑ध॒रादु॒त । स्व॒स्ति भू॑मे नो भव॒ मा वि॑दन्परिप॒न्थिनो॒ वरी॑यो यावया व॒धम् ॥
याव॑त्ते॒ ऽभि वि॒पश्या॑मि॒ भूमे॒ सूर्ये॑ण मे॒दिना॑ । ताव॑न्मे॒ चक्षु॒र्मा मे॒ष्टोत्त॑रामुत्तरां॒ समा॑म् ॥
यच्छया॑नः प॒र्याव॑र्ते॒ दक्षि॑णं स॒ख्यम॒भि भू॑मे पा॒र्श्वमु॑त्ता॒नास्त्वा॑ प्र॒तीचीं॒ यत्पृ॒ष्टीभि॑रधि॒शेम॑हे । मा हिं॑सी॒स्तत्र॑ नो भूमे॒ सर्व॑स्य प्रतिशीवरि ॥
यत्ते॑ भूमे वि॒खना॑मि क्षि॒प्रं तदपि॑ रोहतु । मा ते॒ मर्म॑ विमृग्वरि॒ मा ते॒ हृद॑यमर्पिपम् ॥
ग्री॒ष्मस्ते॑ भूमे व॒र्षाणि॑ श॒रद्धे॑म॒न्तः शिशि॑रो वस॒न्तः । ऋ॒तव॑स्ते॒ विहि॑ता हाय॒नीर॑होरा॒त्रे पृ॑थिवि नो दुहाताम् ॥
याप॑ स॒र्पं वि॒जमा॑ना वि॒मृग्व॑री॒ यस्या॒मास॑न्न॒ग्नयो॒ ये अ॒प्स्व॒न्तः । परा॒ दस्यू॒न्दद॑ती देवपी॒यूनिन्द्रं॑ वृणा॒ना पृ॑थि॒वी न वृ॒त्रम्श॒क्राय॑ दध्रे वृष॒भाय॒ वृष्णे॑ ॥
यस्यां॑ सदोहविर्धा॒ने यूपो॒ यस्यां॑ निमी॒यते॑ । ब्र॒ह्माणो॒ यस्या॒मर्च॑न्त्यृ॒ग्भिः साम्ना॑ यजु॒र्विदः॑ यु॒ज्यन्ते॒ यस्या॑मृ॒त्विजः॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥
यस्यां॒ पूर्वे॑ भूत॒कृत॒ ऋष॑यो॒ गा उदा॑नृ॒चुः । स॒प्त स॒त्रेण॑ वे॒धसो॑ य॒ज्ञेन॒ तप॑सा स॒ह ॥
सा नो॒ भूमि॒रा दि॑शतु॒ यद्धनं॑ का॒मया॑महे । भगो॑ अनु॒प्रयु॑ङ्क्ता॒मिन्द्र॑ एतु पुरोग॒वः ॥ 
यस्यां॒ गाय॑न्ति॒ नृत्य॑न्ति॒ भूम्यां॒ मर्त्या॒ व्यै॑लबाः । यु॒ध्यन्ते॒ यस्या॑माक्र॒न्दो यस्या॒म्वद॑ति दुन्दु॒भिः । सा नो॒ भूमिः॒ प्र णु॑दतां स॒पत्ना॑नसप॒त्नं मा॑ पृथि॒वी कृ॑णोतु ॥
यस्या॒मन्नं॑ व्रीहिय॒वौ यस्या॑ इ॒माः पञ्च॑ कृ॒ष्टयः॑ । भूम्यै॑ प॒र्जन्य॑पत्न्यै॒ नमो॑ ऽस्तु व॒र्षमे॑दसे ॥
यस्याः॒ पुरो॑ दे॒वकृ॑ताः॒ क्षेत्रे॒ यस्या॑ विकु॒र्वते॑ । प्र॒जाप॑तिः पृथि॒वीं वि॒श्वग॑र्भा॒माशा॑माशां॒ रण्यां॑ नः कृणोतु ॥
नि॒धिं बिभ्र॑ती बहु॒धा गुहा॒ वसु॑ म॒णिं हिर॑ण्यं पृथि॒वी द॑दातु मे । वसू॑नि नो वसु॒दा रास॑माना दे॒वी द॑धातु सुमन॒स्यमा॑ना ॥
जनं॒ बिभ्र॑ती बहु॒धा विवा॑चसं॒ नाना॑धर्माणं पृथि॒वी य॑थौक॒सम् । स॒हस्रं॒ धारा॒ द्रवि॑णस्य मे दुहां ध्रु॒वेव॑ धे॒नुरन॑पस्पुरन्ती ॥
यस्ते॑ स॒र्पो वृश्चि॑कस्तृ॒ष्टदं॑श्मा हेम॒न्तज॑ब्धो भृम॒लो गुहा॒ शये॑ । क्रिमि॒र्जिन्व॑त्पृथिवि॒ यद्य॒देज॑ति प्रा॒वृषि॒ तन्नः॒ सर्प॒न्मोप॑ सृप॒द्यच्छि॒वं तेन॑ नो मृड ॥
ये ते॒ पन्था॑नो ब॒हवो॑ ज॒नाय॑ना॒ रथ॑स्य॒ वर्त्मान॑सश्च॒ यात॑वे । यैः सं॒चर॑न्त्यु॒भये॑ भद्रपा॒पास्तं पन्था॑नं जयेमानमि॒त्रम॑तस्क॒रं यच्छि॒वं तेन॑ नो मृड ॥
म॒ल्वं बिभ्र॑ती गुरु॒भृद्भ॑द्रपा॒पस्य॑ नि॒धनं॑ तिति॒क्षुः । व॑रा॒हेण॑ पृथि॒वी सं॑विदा॒ना सू॑क॒राय॒ वि जि॑हीते मृ॒गाय॑ ॥
ये त॑ आर॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ताः सिं॒हा व्या॒घ्राः पु॑रु॒षाद॒श्चर॑न्ति । उ॒लं वृकं॑ पृथिवि दु॒छुना॑मि॒त ऋ॒क्षीकां॒ रक्षो॒ अप॑ बाधया॒स्मत् ॥
ये ग॑न्ध॒र्वा अ॑प्स॒रसो॒ ये चा॒रायाः॑ किमी॒दिनः॑ । पि॑शा॒चान्त्सर्वा॒ रक्षां॑सि॒ तान॒स्मद्भू॑मे यावय ॥ 
यां द्वि॒पादः॑ प॒क्षिणः॑ सं॒पत॑न्ति हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि । यस्यां॒ वातो॑ मात॒रिश्वेय॑ते॒ रजां॑सि कृ॒ण्वंश्च्या॒वयं॑श्च वृ॒क्षान् । वात॑स्य प्र॒वामु॑प॒वामनु॑ वात्य॒र्चिः ॥
यस्यां॑ कृ॒ष्णम॑रु॒णं च॒ संहि॑ते अहोरा॒त्रे विहि॑ते॒ भूम्या॒मधि॑ । व॒र्षेण॒ भूमिः॑ पृथि॒वी वृ॒तावृ॑ता॒ सा नो॑ दधातु भ॒द्रया॑ प्रि॒ये धाम॑निधामनि ॥
द्यौश्च॑ म इ॒दं पृ॑थि॒वी चा॒न्तरि॑क्षं च मे॒ व्यचः॑ । अ॒ग्निः सूर्य॒ आपो॑ मे॒धां विश्वे॑ दे॒वाश्च॒ सं द॑दुः ॥
अ॒हम॑स्मि॒ सह॑मान॒ उत्त॑रो॒ नाम॒ भूम्या॑म् । अ॑भी॒षाड॑स्मि विश्वा॒षाडाशा॑माशां विषास॒हिः ॥
अ॒दो यद्दे॑वि॒ प्रथ॑माना पु॒रस्ता॑द्दे॒वैरु॒क्ता व्यस॑र्पो महि॒त्वम् । आ त्वा॑ सुभू॒तम॑विशत्त॒दानी॒मक॑ल्पयथाः प्र॒दिश॒श्चत॑स्रः ॥
ये ग्रामा॒ यदर॑ण्यं॒ याः स॒भा अधि॒ भूम्या॑म् । ये सं॑ग्रा॒माः समि॑तय॒स्तेषु॒ चारु॑ वदेम ते ॥
अश्व॑ इव॒ रजो॑ दुधुवे॒ वि तान्जना॒न्य आक्षि॑यन्पृथि॒वीं यादजा॑यत । म॒न्द्राग्रेत्व॑री॒ भुव॑नस्य गो॒पा वन॒स्पती॑नां॒ गृभि॒रोष॑धीनाम् ॥
यद्वदा॑मि॒ मधु॑म॒त्तद्व॑दामि॒ यदीक्षे॒ तद्व॑नन्ति मा । त्विषी॑मानस्मि जूति॒मानवा॒न्यान्ह॑न्मि॒ दोध॑तः ॥
श॑न्ति॒वा सु॑र॒भिः स्यो॒ना की॒लालो॑ध्नी॒ पय॑स्वती । भूमि॒रधि॑ ब्रवीतु मे पृथि॒वी पय॑सा स॒ह ॥
म॒न्वैछ॑द्ध॒विषा॑ वि॒श्वक॑र्मा॒न्तर॑र्ण॒वे रज॑सि॒ प्रवि॑ष्टाम् । भु॑जि॒ष्य॑१ पात्रं॒ निहि॑तं॒ गुहा॒ यदा॒विर्भोगे॑ अभवन्मातृ॒मद्भ्यः॑ ॥
त्वम॑स्या॒वप॑नी॒ जना॑ना॒मदि॑तिः काम॒दुघा॑ पप्रथा॒ना । यत्त॑ ऊ॒नं तत्त॒ आ पू॑रयाति प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ॥
उ॑प॒स्थास्ते॑ अनमी॒वा अ॑य॒क्ष्मा अ॒स्मभ्यं॑ सन्तु पृथिवि॒ प्रसू॑ताः । दी॒र्घं न॒ आयुः॑ प्रति॒बुध्य॑माना व॒यं तुभ्यं॑ बलि॒हृतः॑ स्याम ॥
भूमे॑ मात॒र्नि धे॑हि मा भ॒द्रया॒ सुप्र॑तिष्ठितम् । सं॑विदा॒ना दि॒वा क॑वे श्रि॒यां मा॑ धेहि॒ भूत्या॑म् ॥

(6) pāpmahā vi devā jarasāvṛtam (3.31) apa naḥ śośucad agham (4.33) ava mā pāpmann (6.26) iti pāpmahā || iti pāpmahā gaṇaḥ ||

वि दे॒वा ज॒रसा॑वृत॒न्वि त्वम॑ग्ने॒ अरा॑त्या । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
व्यार्त्या॒ पव॑मानो॒ वि श॒क्रः पा॑पकृ॒त्यया॑ । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
वि ग्रा॒म्याः प॒शव॑ आर॒ण्यैर्व्याप॒स्तृष्ण॑यासरन् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
वी॑३ मे द्यावा॑पृथि॒वी इ॒तो वि पन्था॑नो॒ दिशं॑दिशम् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं यु॑न॒क्तीती॒दं विश्वं॒ भुव॑नं॒ वि या॑ति । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
अ॒ग्निः प्रा॒णान्त्सं द॑धाति च॒न्द्रः प्रा॒णेन॒ संहि॑तः । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
प्रा॒णेन॑ वि॒श्वतो॑वीर्यं दे॒वाः सूर्यं॒ समै॑रयन् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
आयु॑ष्मतामायु॒ष्कृतां॑ प्रा॒णेन॑ जीव॒ मा मृ॑थाः । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
प्रा॒णेन॑ प्राण॒तां प्राणे॒हैव भ॑व॒ मा मृ॑थाः । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
उदायु॑षा॒ समायु॒षोदोष॑धीनां॒ रसे॑न । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
आ प॒र्जन्य॑स्य वृ॒ष्ट्योद॑स्थामा॒मृता॑ व॒यम् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥

अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒ग्ध्या र॒यिम् । अप॑ नः॒ शोशु॑चद॒घम् ॥
सु॑क्षेत्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे । अप॑ नः॒ शोशु॑चद॒घम् ॥
प्र यद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घम् ॥
प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् । अप॑ नः॒ शोशु॑चद॒घम् ॥
प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नवः॑ । अप॑ नः॒ शोशु॑चद॒घम् ॥
त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूर॑सि । अप॑ नः॒ शोशु॑चद॒घम् ॥
द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय । अप॑ नः॒ शोशु॑चद॒घम् ॥
स नः॒ सिन्धु॑मिव ना॒वाति॑ पर्ष स्व॒स्तये॑ । अप॑ नः॒ शोशु॑चद॒घम् ॥

अव॑ मा पाप्मन्सृज व॒शी सन्मृ॑दयासि नः । आ मा॑ भ॒द्रस्य॑ लो॒के पाप्म॑न्धे॒ह्यवि॑ह्रुतम् ॥
यो नः॑ पाप्म॒न्न जहा॑सि॒ तमु॑ त्वा जहिमो व॒यम् । प॒थामनु॑ व्या॒वर्त॑ने॒ ऽन्यं पा॒प्मानु॑ पद्यताम् ॥
अ॒न्यत्रा॒स्मन्न्यु॑च्यतु सहस्रा॒क्षो अम॑र्त्यः । यं द्वेषा॑म॒ तमृ॑छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ॥

(7) takmanāśano jarāyujaḥ prathamo (1.12) yad agnir (1.25) ud agātāṃ (2.8) daśavṛkṣa muñca (2.9) kṣetriyāt tvā (2.10) hariṇasya raghuṣyado (3.7) muñcāmi tvā (3.11) bhavāśarvau manve vāṃ  (4.28) yo giriṣu (5.4) dive svāhā (5.9) agnis takmānam (5.22) agner ivāsyā (6.20) avamā pāpmantsṛja (6.26) ava jyām iva (6.42) varaṇo vārayātā (6.85) imaṃ yavaṃ (6.91) vidradhasya balāsasya (6.127) namo rūrāyeti (7.116.1) dve śīrṣaktiṃ śīrṣāmayam (9.7) iti takmanāśanāni || iti takmanāśanagaṇaḥ ||

ज॑रायु॒जः प्र॑थ॒म उ॒स्रियो॒ वृषा॑ वाताभ्र॒जा स्त॒नय॑न्नेति वृ॒ष्ट्या । स नो॑ मृडाति त॒न्व॑ ऋजु॒गो रु॒जन्य एक॒मोज॑स्त्रे॒धा वि॑चक्र॒मे ॥
अङ्गेअ॑ङ्गे शो॒चिषा॑ शिश्रिया॒णं न॑म॒स्यन्त॑स्त्वा ह॒विषा॑ विधेम । अ॒ङ्कान्त्स॑म॒ङ्कान्ह॒विषा॑ विधेम॒ यो अग्र॑भी॒त्पर्वा॑स्या॒ ग्रभी॑ता ॥
मु॒ञ्च शी॑र्ष॒क्त्या उ॒त का॒स ए॑नं॒ परु॑ष्परुरावि॒वेशा॒ यो अ॑स्य । यो अ॑भ्र॒जा वा॑त॒जा यश्च॒ शुष्मो॒ वन॒स्पती॑न्त्सचतां॒ पर्व॑तांश्च ॥
शं मे॒ पर॑स्मै॒ गात्रा॑य॒ शम॒स्त्वव॑राय मे । शं मे॑ च॒तुर्भ्यो॒ अङ्गे॑भ्यः॒ शम॑स्तु त॒न्वे॑३ मम॑ ॥

यद॒ग्निरापो॒ अद॑हत्प्र॒विश्य॒ यत्राकृ॑ण्वन्धर्म॒धृतो॒ नमां॑सि । तत्र॑ त आहुः पर॒मं ज॒नित्रं॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
यद्य॒र्चिर्यदि॒ वासि॑ शो॒चिः श॑कल्ये॒षि यदि॑ वा ते ज॒नित्र॑म् । ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
यदि॑ शो॒को यदि॑ वाभिशो॒को यदि॑ वा॒ राज्ञो॒ वरु॑ण॒स्यासि॑ पु॒त्रः । ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
नमः॑ शी॒ताय॑ त॒क्मने॒ नमो॑ रू॒राय॑ शो॒चिषे॑ कृणोमि । यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येति॒ तृती॑यकाय॒ नमो॑ अस्तु त॒क्मने॑ ॥

उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के । वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ॥
अपे॒यं रात्र्यु॑छ॒त्वपो॑छन्त्वभि॒कृत्व॑रीः । वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥
ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या । वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥
नम॑स्ते॒ लाङ्ग॑लेभ्यो॒ नम॑ ईषायु॒गेभ्यः॑ । वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥
नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्ये॑भ्यः । नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥

दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु । अथो॑ एनम्वनस्पते जी॒वानां॑ लो॒कमुन्न॑य ॥
आगा॒दुद॑गाद॒यं जी॒वानां॒ व्रात॒मप्य॑गात् । अभू॑दु पु॒त्राणां॑ पि॒ता नृ॒णां च॒ भग॑वत्तमः ॥
अधी॑ती॒रध्य॑गाद॒यमधि॑ जीवपु॒रा अ॑गान् ।श॒तं ह्य॑स्य भि॒षजः॑ स॒हस्र॑मु॒त वी॒रुधः॑ ॥
दे॒वास्ते॑ ची॒तिम॑विदन्ब्र॒ह्माण॑ उ॒त वी॒रुधः॑ । ची॒तिं ते॒ विश्वे॑ दे॒वा अवि॑द॒न्भूम्या॒मधि॑ ॥
यश्च॒कार॒ स निष्क॑र॒त्स ए॒व सुभि॑षक्तमः । स ए॒व तुभ्यं॑ भेष॒जानि॑ कृ॒णव॑द्भि॒षजा॒ शुचिः॑ ॥

क्षे॑त्रि॒यात्त्वा॒ निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् । अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु॒ शं सोमः॑ स॒हौष॑धीभिः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् । अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
शम्ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भ॒वन्तु॑ प्र॒दिश॒श्चत॑स्रः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् । अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
इ॒मा या दे॒वीः प्र॒दिश॒श्चत॑स्रो॒ वात॑पत्नीर॒भि सूर्यो॑ वि॒चष्टे॑ । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् । अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृनोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
तासु॑ त्वा॒न्तर्ज॒रस्या द॒धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिः परा॒चैः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् । अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
अमु॑क्था॒ यक्ष्मा॑द्दुरि॒ताद॑व॒द्याद्द्रु॒हः पाशा॒द्ग्राह्या॒श्चोद॑मुक्थाः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् । अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
अहा॒ अरा॑ति॒मवि॑दः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् । अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ अधि॑ दे॒वा मु॒ञ्चन्तो॑ असृज॒न्निरेन॑सः । ए॒वाहम्त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् । अ॑ना॒गस॒म्ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥

ह॑रि॒णस्य॑ रघु॒ष्यदो ऽधि॑ शी॒र्षणि॑ भेष॒जम् । स क्षे॑त्रि॒यं वि॒षाण॑या विषू॒चीन॑मनीनशत् ॥
अनु॑ त्वा हरि॒णो वृषा॑ प॒द्भिश्च॒तुर्भि॑रक्रमीत् । विषा॑णे॒ वि ष्य॑ गुष्पि॒तं यद॑स्य क्षेत्रि॒यं हृ॒दि ॥
अ॒दो यद॑व॒रोच॑ते॒ चतु॑ष्पक्षमिव छ॒दिः । तेना॑ ते॒ सर्वं॑ क्षेत्रि॒यमङ्गे॑भ्यो नाशयामसि ॥
अ॒मू ये दि॒वि सु॒भगे॑ वि॒चृतौ॒ नाम॒ तार॑के । वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ॥
आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आपो॒ विश्व॑स्य भेष॒जीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रि॒यात् ॥
यदा॑सु॒तेः क्रि॒यमा॑नायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे । वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत् ॥
अ॑पवा॒से नक्ष॑त्राणामपवा॒स उ॒षसा॑मु॒त । अपा॒स्मत्सर्वं॑ दुर्भू॒तमप॑ क्षेत्रि॒यमु॑छतु ॥

मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् । ग्राहि॑र्ज॒ग्राह॒ यद्ये॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं ए॒व । तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्शमेनं श॒तशा॑रदाय ॥
स॑हस्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम् । इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान् । श॒तं ते॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥
प्र वि॑शतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम् । व्य॒न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥
इ॒हैव स्तं॑ प्राणापानौ॒ माप॑ गातमि॒तो यु॒वम् । शरी॑रम॒स्याङ्गा॑नि ज॒रसे॑ वहतं॒ पुनः॑ ॥
ज॒रायै॑ त्वा॒ परि॑ ददामि ज॒रायै॒ नि धु॑वामि त्वा । ज॒रा त्वा॑ भ॒द्रा ने॑ष्ट॒ व्य॒न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥
अ॒भि त्वा॑ जरि॒माहि॑त॒ गामु॒क्षण॑मिव॒ रज्ज्वा॑ । यस्त्वा॑ मृ॒त्युर॒भ्यध॑त्त॒ जाय॑मानं सुपा॒शया॑ । तं ते॑ स॒त्यस्य॒ हस्ता॑भ्या॒मुद॑मुञ्च॒द्बृह॒स्पतिः॑ ॥

भवा॑शर्वौ म॒न्वे वां॒ तस्य॑ वित्तं॒ ययो॑र्वामि॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते । याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
ययो॑रभ्य॒भ्व उ॒त यद्दू॒रे चि॒द्यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स॑हस्रा॒क्षौ वृ॑त्र॒हना॑ हुवे॒हं दू॒रेग॑व्यूती स्तु॒वन्ने॑म्यु॒ग्रौ । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
यावा॑रे॒भाथे॑ ब॒हु सा॒कमग्रे॒ प्र चेदस्रा॑ष्ट्रमभि॒भां जने॑षु । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
ययो॑र्व॒धान्नाप॒पद्य॑ते॒ कश्च॒नान्तर्दे॒वेषू॒त मानु॑षेषु । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
यः कृ॑त्या॒कृन्मू॑ल॒कृद्या॑तु॒धानो॒ नि तस्मि॑न्धत्तं॒ वज्र॑मु॒ग्रौ । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
अधि॑ नो ब्रूतं॒ पृत॑नासूग्रौ॒ सं वज्रे॑ण सृजतं॒ यः कि॑मी॒दी । स्तौमि॑ भवाश॒र्वौ ना॑थि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः । कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ॥
सु॑पर्ण॒सुव॑ने गि॒रौ जा॒तं हि॒मव॑त॒स्परि॑ । धनै॑र॒भि श्रु॒त्वा य॑न्ति वि॒दुर्हि त॑क्म॒नाश॑नम् ॥
अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि । तत्रा॒मृत॑स्य॒ चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ॥
हि॑र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि । तत्रा॒मृत॑स्य॒ पुष्पं॑ दे॒वाः कुष्ठ॑मवन्वत ॥
हि॑र॒ण्ययाः॒ पन्था॑न आस॒न्नरि॑त्राणि हिर॒ण्यया॑ । नावो॑ हिर॒ण्ययी॑रास॒न्याभिः॒ कुष्ठं॑ नि॒राव॑हन् ॥
इ॒मं मे॑ कुष्ठ॒ पूरु॑षं॒ तमा व॑ह॒ तं निष्कु॑रु । तमु॑ मे अग॒दं कृ॑धि ॥
दे॒वेभ्यो॒ अधि॑ जा॒तो ऽसि॒ सोम॑स्यासि॒ सखा॑ हि॒तः । स प्रा॒णाय॑ व्या॒नाय॒ चक्षु॑षे मे अ॒स्मै मृ॑ड ॥
उद॑ङ्जा॒तो हि॒मव॑तः॒ स प्रा॒च्यां नी॑यसे॒ जन॑म् । तत्र॒ कुष्ठ॑स्य॒ नामा॑न्युत्त॒मानि॒ वि भे॑जिरे ॥
उ॑त्त॒मो नाम॑ कुष्ठस्युत्त॒मो नाम॑ ते पि॒ता । यक्ष्मं॑ च॒ सर्वं॑ ना॒शय॑ त॒क्मानं॑ चार॒सं कृ॑धि ॥
शी॑र्षाम॒यं उ॑पह॒त्याम॒क्ष्योस्त॒न्वो॑३ रपः॑ । कुष्ठ॒स्तत्सर्वं॒ निष्क॑र॒द्दैवं॑ समह॒ वृष्ण्य॑म् ॥

दि॒वे स्वाहा॑ ॥
पृ॑थि॒व्यै स्वाहा॑ ॥
अ॒न्तरि॑क्षाय॒ स्वाहा॑ ॥
अ॒न्तरि॑क्षाय॒ स्वाहा॑ ॥
दि॒वे स्वाहा॑ ॥
पृ॑थि॒व्यै स्वाहा॑ ॥
सूर्यो॑ मे॒ चक्षु॒र्वातः॑ प्रा॒णो ऽन्तरि॑क्षमा॒त्मा पृ॑थि॒वी शरी॑रम् । अ॑स्तृ॒तो नामा॒हम॒यम॑स्मि॒ स आ॒त्मानं॒ नि द॑धे॒ द्यावा॑पृथि॒वीभ्यां॑ गोपी॒थाय॑ ॥
उदायु॒रुद्बल॒मुत्कृ॒तमुत्कृ॒त्यामुन्म॑नी॒षामुदि॑न्द्रि॒यम् । आयु॑ष्कृ॒दायु॑ष्पत्नी॒ स्वधा॑वन्तौ गो॒पा मे॑ स्तं गोपा॒यतं॑ मा । आ॑त्म॒सदौ॑ मे स्तं॒ मा मा॑ हिंसिष्टम् ॥

अ॒ग्निस्त॒क्मान॒मप॑ बाधतामि॒तः सोमो॒ ग्रावा॒ वरु॑णः पू॒तद॑क्षाः । वेदि॑र्ब॒र्हिः स॒मिधः॒ शोशु॑चाना॒ अप॒ द्वेषां॑स्यमु॒या भ॑वन्तु ॥
अ॒यं यो विश्वा॒न्हरि॑तान्कृ॒णोष्यु॑च्छो॒चय॑न्न॒ग्निरि॑वाभिदु॒न्वन् । अधा॒ हि त॑क्मन्नर॒सो हि भू॒या अधा॒ न्य॑ङ्ङध॒रान्वा॒ परे॑हि ॥
यः प॑रु॒षः पा॑रुषे॒यो ऽव॑ध्वं॒स इ॑वारु॒णः । त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुवा ॥
अ॑ध॒राञ्च॒म्प्र हि॑णो॒मि नमः॑ कृ॒त्वा त॒क्मने॑ । श॑कम्भ॒रस्य॑ मुष्टि॒हा पुन॑रेतु महावृ॒षान् ॥
ओको॑ अस्य॒ मूज॑वन्त॒ ओको॑ अस्य महावृ॒षाः । याव॑ज्जा॒तस्त॑क्मं॒स्तावा॑नसि॒ बल्हि॑केषु न्योच॒रः ॥
तक्म॒न्व्या॑ल॒ वि ग॑द॒ व्य॑ङ्ग॒ भूरि॑ यावय । दा॒सीं नि॒ष्टक्व॑रीमिछ॒ ताम्वज्रे॑ण॒ सम॑र्पय ॥
तक्म॒न्मूज॑वतो गछ॒ बल्हि॑कान्वा परस्त॒राम् । शू॒द्रामि॑छ प्रप॒र्व्य॑१ तां त॑क्म॒न्वीव॑ धूनुहि ॥
म॑हावृ॒षान्मूज॑वतो॒ बन्ध्व॑द्धि प॒रेत्य॑ । प्रैतानि॑ त॒क्मने॑ ब्रूमो अन्यक्षे॒त्राणि॒ वा इ॒मा ॥
अ॑न्यक्षे॒त्रे न र॑मसे व॒शी सन्मृ॑डयासि नः । अभू॑दु॒ प्रार्थ॑स्त॒क्मा स ग॑मिष्यति॒ बल्हि॑कान् ॥
यत्त्वं शी॒तो ऽथो॑ रू॒रः स॒ह का॒सावे॑पयः । भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ॥
मा स्मै॒तान्त्सखी॑न्कुरुथा ब॒लासं॑ का॒समु॑द्यु॒गम् । मा स्मातो॒ऽर्वाङैः पुन॒स्तत्त्वा॑ तक्म॒न्नुप॑ ब्रुवे ॥
तक्म॒न्भ्रात्रा॑ ब॒लासे॑न॒ स्वस्रा॒ कासि॑कया स॒ह । पा॒प्मा भ्रातृ॑व्येण स॒ह गछा॒मुमर॑णं॒ जन॑म् ॥
तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम् । त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम् ॥
ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्यो ऽङ्गे॑भ्यो म॒गधे॑भ्यः । प्रै॒ष्यन्जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ॥

अ॒ग्नेरि॒वास्य॒ दह॑त एति शु॒ष्मिण॑ उ॒तेव॑ म॒त्तो वि॒लप॒न्नपा॑यति । अ॒न्यम॒स्मदि॑छतु॒ कं चि॑दव्र॒तस्तपु॑र्वधाय॒ नमो॑ अस्तु त॒क्मने॑ ॥
नमो॑ रु॒द्राय॒ नमो॑ अस्तु त॒क्मने॒ नमो॒ राज्ञे॒ वरु॑णाय॒ त्विषी॑मते । नमो॑ दि॒वे नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ॥
अ॒यं यो अ॑भिशोचयि॒ष्णुर्विश्वा॑ रू॒पाणि॒ हरि॑ता कृ॒णोषि॑ । तस्मै॑ ते ऽरु॒णाय॑ ब॒भ्रवे॒ नमः॑ कृणोमि॒ वन्या॑य त॒क्मने॑ ॥

अव॑ मा पाप्मन्सृज व॒शी सन्मृ॑दयासि नः । आ मा॑ भ॒द्रस्य॑ लो॒के पाप्म॑न्धे॒ह्यवि॑ह्रुतम् ॥
यो नः॑ पाप्म॒न्न जहा॑सि॒ तमु॑ त्वा जहिमो व॒यम् । प॒थामनु॑ व्या॒वर्त॑ने॒ ऽन्यं पा॒प्मानु॑ पद्यताम् ॥
अ॒न्यत्रा॒स्मन्न्यु॑च्यतु सहस्रा॒क्षो अम॑र्त्यः । यं द्वेषा॑म॒ तमृ॑छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ॥

अव॒ ज्यामि॑व॒ धन्व॑नो म॒न्युं त॑नोमि ते हृ॒दः । यथा॒ संम॑नसौ भू॒त्वा सखा॑याविव॒ सचा॑वहै ॥
सखा॑याविव सचावहा॒ अव॑ म॒न्युं त॑नोमि ते । अ॒धस्ते॒ अश्म॑नो म॒न्युमुपा॑स्यामसि॒ यो गु॒रुः ॥
अ॒भि ति॑ष्ठामि ते म॒न्युं पार्ष्ण्या॒ प्रप॑देन च । यथा॑व॒शो न वादि॑षो॒ मम॑ चित्तमु॒पाय॑सि ॥

व॑र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑ । यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ॥
इन्द्र॑स्य॒ वच॑सा व॒यं मि॒त्रस्य॒ वरु॑णस्य च । दे॒वानां॒ सर्वे॑षां वा॒चा यक्ष्मं॑ ते वारयामहे ॥
यथा॑ वृ॒त्र इ॒मा आप॑स्त॒स्तम्भ॑ वि॒श्वधा॑ य॒तीः ।ए॒वा ते॑ अ॒ग्निना॒ यक्ष्मं॑ वैश्वान॒रेण॑ वारये ॥

इ॒मं यव॑मष्टायो॒गैः ष॑द्यो॒गेभि॑रचर्कृषुः । तेना॑ ते त॒न्वो॑३ रपो॑ ऽपा॒चीन॒मप॑ व्यये ॥
न्य॑१ग्वातो॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑ । नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ॥
आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आपो॒ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥

वि॑द्र॒धस्य॑ ब॒लास॑स्य॒ लोहि॑तस्य वनस्पते । वि॒सल्प॑कस्योषधे॒ मोच्छि॑षः पिशि॒तं च॒न ॥
यौ ते॑ बलास॒ तिष्ठ॑तः॒ कक्षे॑ मु॒ष्कावप॑श्रितौ । वेदा॒हं तस्य॑ भेष॒जं ची॒पुद्रु॑रभि॒चक्ष॑णम् ॥
यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः । वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम् । परा॒ तमज्ञा॑त॒म्यक्ष्म॑मध॒राञ्चं॑ सुवामसि ॥

नमो॑ रू॒राय॒ च्यव॑नाय॒ नोद॑नाय धृ॒ष्णवे॑ । नमः॑ शी॒ताय॑ पूर्वकाम॒कृत्व॑ने ॥
यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येती॒मं म॒ण्डूक॑म् । अ॒भ्ये॑त्वव्र॒तः ॥

शीर्ष॒क्तिं शी॑र्षाम॒यं क॑र्णशू॒लं वि॑लोहि॒तम् । सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
कर्णा॑भ्यां ते॒ कङ्कू॑षेभ्यः कर्णशू॒लं वि॒सल्प॑कम् । सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
यस्य॑ हे॒तोः प्र॒च्यव॑ते॒ यक्ष्मः॑ कर्ण॒तो आ॑स्य॒तः । सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
यः कृ॒णोति॑ प्र॒मोत॑म॒न्धं कृ॒णोति॒ पूरु॑षम् । सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
अ॑ङ्गभे॒दम॑ङ्गज्व॒रम्वि॑श्वा॒ङ्ग्यं॑ वि॒सल्प॑कम् । सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
यस्य॑ भी॒मः प्र॑तीका॒श उ॑द्वे॒पय॑ति॒ पूरु॑षम् । त॒क्मानं॑ वि॒श्वशा॑रदं ब॒हिर्निर्म॑न्त्रयामहे ॥
य ऊ॒रू अ॑नु॒सर्प॒त्यथो॒ एति॑ ग॒वीनि॑के । यक्ष्मं॑ ते अ॒न्तरङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥
यदि॒ कामा॑दपका॒माद्धृद॑या॒ज्जाय॑ते॒ परि॑ । हृ॒दो ब॒लास॒मङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥
ह॑रि॒माणं॑ ते॒ अङ्गे॑भ्यो॒ ऽप्वाम॑न्त॒रोदरा॑त् । य॑क्ष्मो॒धाम॒न्तरा॒त्मनो॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
आसो॑ ब॒लासो॒ भव॑तु॒ मूत्रं॑ भवत्वा॒मय॑त् । यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥ 
ब॒हिर्बिलं॒ निर्द्र॑वतु॒ काहा॑बाहं॒ तवो॒दरा॑त् । यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
उ॒दरा॑त्ते क्लो॒म्नो नाभ्या॒ हृद॑या॒दधि॑ । यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
याः सी॒मानं॑ विरु॒जन्ति॑ मू॒र्धानं॒ प्रत्य॑र्ष॒नीः । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
या हृद॑यमुप॒र्षन्त्य॑नुत॒न्वन्ति॒ कीक॑साः । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
याः पा॒र्श्वे उ॑प॒र्षन्त्य॑नु॒निक्ष॑न्ति पृ॒ष्टीः । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
यास्ति॒रश्चीः॑ उप॒र्षन्त्य॑र्ष॒णीर्व॒क्षणा॑सु ते । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
या गुदा॑ अनु॒सर्प॑न्त्या॒न्त्राणि॑ मो॒हय॑न्ति च । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
या म॒ज्ज्ञो नि॒र्धय॑न्ति॒ परूं॑षि विरु॒जन्ति॑ च । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
ये अङ्गा॑नि म॒दय॑न्ति॒ यक्ष्मा॑सो रोप॒णास्तव॑ । यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
वि॑स॒ल्पस्य॑ विद्र॒धस्य॑ वातीका॒रस्य॑ वाल॒जेः । यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
पादा॑भ्यां ते॒ जानु॑भ्यां॒ श्रोणि॑भ्यां॒ परि॒ भंस॑सः । अनू॑कादर्ष॒णीरु॒ष्णिहा॑भ्यः शी॒र्ष्णो रोग॑मनीनशम् ॥
सं ते॑ शी॒र्ष्णः क॒पाला॑नि॒ हृद॑यस्य च॒ यो वि॒धुः । उ॒द्यन्ना॑दित्य र॒श्मिभिः॑ शी॒र्ष्णो रोग॑मनीनशो ऽङ्गभे॒दम॑शीशमः ॥ 

(8) duḥsvapnanāśanāni dauṣvapnyaṃ daurjīvityaṃ (7.24) paro 'paihi (6.45) yo na jīvo 'si (6.46) pary āvarte duṣvapnyād (7.100) yat svapne annam aśnami (7.101) yo na stāyad dipsati  (7.108.1) yo naḥ suptāṃ jāgrato (7.108.2) yan me manso duṣvapnyaṃ kāma (9.2.2-3) svapnaṃ suptvā (10.3.6) vidma te svapneti (16.5-7) trayaḥ paryāyā duḥsvapnanāśanāni || iti duḥsvapnanāśanagaṇaḥ ||

दौष्व॑प्न्य॒म्दौर्जी॑वित्यं॒ रक्षो॑ अ॒भ्व॑मरा॒य्यः॑ । दु॒र्णाम्नीः॒ सर्वा॑ दु॒र्वाच॒स्ता अ॒स्मन्ना॑शयामसि ॥

प॒रो ऽपे॑हि मनस्पाप॒ किमश॑स्तानि शंससि । परे॑हि॒ न त्वा॑ कामये वृ॒क्षां वना॑नि॒ सं च॑र गृ॒हेषु॒ गोषु॑ मे॒ मनः॑ ॥
अ॑व॒शसा॑ निः॒शसा॒ यत्प॑रा॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑ । अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥
यदि॑न्द्र ब्रह्मणस्प॒ते ऽपि॒ मृषा॒ चरा॑मसि । प्रचे॑ता न आङ्गिर॒सो दु॑रि॒तात्पा॒त्वंह॑सः ॥

यो न जी॒वो ऽसि॒ न मृ॒तो दे॒वाना॑ममृतग॒र्भो ऽसि॑ स्वप्न । व॑रुणा॒नी ते॑ मा॒ता य॒मः पि॒ताररु॒र्नामा॑सि ॥
वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः । अन्त॑को ऽसि मृ॒त्युर॑सि॒ तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ॥
यथा॑ क॒लां यथा॑ श॒पं यथ॒र्णं सं॒नय॑न्ति । ए॒वा दु॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते सं न॑यामसि ॥

प॒र्याव॑र्ते दु॒ष्वप्न्या॑त्पा॒पात्स्वप्न्या॒दभू॑त्याः । ब्रह्मा॒हमन्त॑रं कृण्वे॒ परा॒ स्वप्न॑मुखाः॒ शुचः॑ ॥

यत्स्वप्ने॒ अन्न॑म॒श्नामि॒ न प्रा॒तर॑धिग॒म्यते॑ । सर्वं॒ तद॑स्तु मे शि॒वं न॒हि तद्दृ॒ष्यते॒ दिवा॑ ॥

यो न॑ स्ता॒यद्दिप्स॑ति॒ यो न॑ आ॒विः स्वो वि॒द्वानर॑णो वा नो अग्ने । प्र॒तीच्ये॒त्वर॑णी द॒त्वती॒ तान्मैषा॑मग्ने॒ वास्तु॑ भू॒न्मो अप॑त्यम् ॥

यो नः॑ सु॒प्तान्जाग्र॑तो वाभि॒दासा॒त्तिष्ठ॑तो वा॒ चर॑तो जातवेदः । वै॑श्वान॒रेण॑ स॒युजा॑ स॒जोषा॒स्तान्प्र॒तीचो॒ निर्द॑ह जातवेदः ॥

यन्मे॒ मन॑सो॒ न प्रि॒यं चक्षु॑षो॒ यन्मे॒ बभ॑स्ति॒ नाभि॒नन्द॑ति । तद्दु॒ष्वप्न्यं॒ प्रति॑ मुञ्चामि स॒पत्ने॒ कामं॑ स्तु॒त्वोद॒हं भि॑देयम् ॥
दु॒ष्वप्न्यं॑ काम दुरि॒तं च॑ कमाप्र॒जस्ता॑मस्व॒गता॒मव॑र्तिम् । उ॒ग्र ईशा॑नः॒ प्रति॑ मुञ्च॒ तस्मि॒न्यो अ॒स्मभ्य॑मंहूर॒णा चिकि॑त्सात् ॥

स्वप्नं॑ सु॒प्त्वा यदि॒ पश्या॑सि पा॒पं मृ॒गः सृ॒तिं यति॒ धावा॒दजु॑ष्टाम् । प॑रिक्ष॒वाच्छ॒कुनेः॑ पापवा॒दाद॒यं म॒णिर्व॑र॒णो वा॑रयिष्यते ॥

वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ ग्राह्याः॑ पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः ॥
अन्त॑को ऽसि मृ॒त्युर॑सि ॥
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ॥
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निरृ॑त्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः । अन्त॑को ऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ॥
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ अभू॑त्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः । अन्त॑को ऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ॥
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निर्भू॑त्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः । अन्त॑को ऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ॥
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ परा॑भूत्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः । अन्त॑को ऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ॥
वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः ॥
अन्त॑को ऽसि मृ॒त्युर॑सि ॥
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ॥
अजै॑ष्मा॒द्यास॑नाम॒द्यामू॒मना॑गसो व॒यम् ॥
उ॒षो यस्मा॑द्दु॒ष्वप्न्या॒दभै॒ष्माप॒ तदु॑छतु ॥
द्वि॑ष॒ते तत्परा॑ वह॒ शप॑ते॒ तत्परा॑ वह ॥
यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तस्मा॑ एनद्गमयामः ॥
उ॒षा दे॒वी वा॒चा सं॑विदा॒ना वाग्दे॒व्यु॒षसा॑ संविदा॒ना ॥
उ॒षस्पति॑र्वा॒चस्पति॑ना संविदा॒नो वा॒चस्पति॑ना संविदा॒नः ॥
ते॑३ ऽमुष्मै॒ परा॑ वहन्त्व॒राया॑न्दु॒र्णाम्नः॑ स॒दान्वाः॑ ॥
कु॒म्भीकाः॑ दू॒षीकाः॒ पीय॑कान् ॥
जा॑ग्रद्दुष्व॒प्न्यं स्व॑प्नेदुष्व॒प्न्यम् ॥
अना॑गमिष्यतो॒ वरा॒नवि॑त्तेः संक॒ल्पानमु॑च्या द्रु॒हः पाशा॑न् ॥
तद॒मुष्मा॑ अग्ने दे॒वाः परा॑ वहन्तु॒ वघ्रि॒र्यथास॑द्विथु॒रो न सा॒धुः ॥
तेनै॑नं विध्या॒म्यभू॑त्यैनं विध्यामि॒ निर्भू॑त्यैनं विध्यामि॒ परा॑भूत्यैनं विध्यामि॒ ग्राह्यै॑नं विध्यामि॒ तम॑सैनं विध्यामि ॥
दे॒वाना॑मेनं घो॒रैः क्रू॒रैः प्रै॒षैर॑भि॒प्रेष्या॑मि ॥
वै॑श्वान॒रस्यै॑नं॒ दम्ष्ट्र॑यो॒रपि॑ दधामि ॥
ए॒वाने॒वाव॒ सा ग॑रत् ॥
यो॑३ ऽस्मान्द्वेष्टि॒ तमा॒त्मा द्वे॑ष्टु॒ यं व॒यं द्वि॒ष्मः स आ॒त्मानं॑ द्वेष्टु ॥
निर्द्वि॒षन्तं॑ दि॒वो निः पृ॑थि॒व्या निर॒न्तरि॑क्षाद्भजाम ॥
सुया॑मंश्चाक्षुष ॥
इ॒दम॒हमा॑मुष्याय॒णे॑३ ऽमुष्याः॑ पु॒त्रे दु॒ष्वप्न्यं॑ मृजे ॥
यददोअदो अ॒भ्यग॑छं॒ यद्दोषा यत्पूर्वां॒ रात्रि॑म् ॥
यज्जाग्र॒द्यत्सु॒प्तो यद्दिवा॒ यन्नक्त॑म् ॥
यदह॑रहरभि॒गछा॑मि॒ तस्मा॑देन॒मव॑ दये ॥
तं ज॑हि॒ तेन॑ मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ॥
स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

(9) āyuṣyo yathā dyauḥ (1.2.4) prāṇāpānāv (2.16) ojo 'si (2.17) tubhyam evā (2.28) akṣībhyāṃ te (2.33) muñcāmi tva (3.11) uta devā (4.13) āvatas ta (5.30) upa priyam (7.32) antakāya mṛtyava ā rabhasva (8.1-2) prāṇāya namo (11.4) viṣāsahim (17.1) ity āyuṣyāṇi || iti āyuṣyagaṇaḥ ||

यथा॒ द्यां च॑ पृथि॒वीं चा॒न्तस्तिष्ठ॑ति॒ तेज॑नम् । ए॒वा रोगं॑ चास्रा॒वं चा॒न्तस्ति॑ष्ठतु॒ मुञ्ज॒ इत् ॥

प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ स्वाहा॑ ॥
द्यावा॑पृथिवी॒ उप॑श्रुत्या मा पातं॒ स्वाहा॑ ॥
सूर्य॒ चक्षु॑षा मा पाहि॒ स्वाहा॑ ॥
अग्ने॑ वैश्वानर॒ विश्वै॑र्मा दे॒वैः पा॑हि॒ स्वाहा॑ ॥
विश्व॑म्भर॒ विश्वे॑न मा॒ भर॑सा पाहि॒ स्वाहा॑ ॥

ओजो॒ ऽस्योजो॑ मे दाः॒ स्वाहा॑ ॥
सहो॑ ऽसि॒ सहो॑ मे दाः॒ स्वाहा॑ ॥
बल॑मसि॒ बलं॑ दाः॒ स्वाहा॑ ॥
आयु॑र॒स्यायु॑र्मे दाः॒ स्वाह॑ ॥
श्रोत्र॑मसि॒ श्रोत्रं॑ मे दाः॒ स्वाहा॑ ॥
चक्षु॑रसि॒ चक्षु॑र्मे दाः॒ स्वाहा॑ ॥

तुभ्य॑मे॒व ज॑रिमन्वर्धताम॒यम्मेमम॒न्ये मृ॒त्यवो॑ हिंसिषुः श॒तं ये । मा॒तेव॑ पु॒त्रं प्रम॑ना उ॒पस्थे॑ मि॒त्र ए॑नं मि॒त्रिया॑त्पा॒त्वंह॑सः ॥
मि॒त्र ए॑नं॒ वरु॑णो वा रि॒शादा॑ ज॒रामृ॑त्युं कृणुतां संविदा॒नौ । तद॒ग्निर्होता॑ व॒युना॑नि वि॒द्वान्विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति ॥
त्वमी॑शिषे पशू॒नाम्पार्थि॑वानां॒ ये जा॒ता उ॒त वा॒ ये ज॒नित्राः॑ । मेमं प्रा॒णो हा॑सीन्मो अपा॒नो मेमं मि॒त्रा व॑धिषु॒र्मो अ॒मित्राः॑ ॥
द्यौष्ट्वा॑ पि॒ता पृ॑थि॒वी मा॒ता ज॒रामृ॑त्युं कृणुतां संविदा॒ने । यथा॒ जीवा॒ अदि॑तेरु॒पस्थे॑ प्राणापा॒नाभ्यां॑ गुपि॒तः श॒तं हिमाः॑ ॥
इ॒मम॒ग्ने आयु॑षे॒ वर्च॑से नय प्रि॒यं रेतो॑ वरुण मित्र राजन् । मा॒तेवा॑स्मा अदिते॒ शर्म॑ यछ॒ विश्वे॑ देवा ज॒रद॑ष्टि॒र्यथास॑त् ॥

अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥
ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या॑त् । यक्ष्मं॑ दोष॒न्य॑१मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥
हृद॑यात्ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात्पा॒र्श्वाभ्या॑म् । यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वृ॑हामसि ॥
आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑ । यक्ष्मं॑ कु॒क्षिभ्या॑म्प्ला॒शेर्नाभ्या॒ वि वृ॑हामि ते ॥
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् । यक्ष्मं॑ भस॒द्य॑१ श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वृ॑हामि ते ॥
अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः । यक्ष्म॑म्पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥
अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि । यक्ष्मं॑ त्वच॒स्यं॑ ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥

मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् । ग्राहि॑र्ज॒ग्राह॒ यद्ये॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं ए॒व । तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्शमेनं श॒तशा॑रदाय ॥
स॑हस्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम् । इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान् । श॒तं ते॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥
प्र वि॑शतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम् । व्य॒न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥
इ॒हैव स्तं॑ प्राणापानौ॒ माप॑ गातमि॒तो यु॒वम् । शरी॑रम॒स्याङ्गा॑नि ज॒रसे॑ वहतं॒ पुनः॑ ॥
ज॒रायै॑ त्वा॒ परि॑ ददामि ज॒रायै॒ नि धु॑वामि त्वा । ज॒रा त्वा॑ भ॒द्रा ने॑ष्ट॒ व्य॒न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥
अ॒भि त्वा॑ जरि॒माहि॑त॒ गामु॒क्षण॑मिव॒ रज्ज्वा॑ । यस्त्वा॑ मृ॒त्युर॒भ्यध॑त्त॒ जाय॑मानं सुपा॒शया॑ । तं ते॑ स॒त्यस्य॒ हस्ता॑भ्या॒मुद॑मुञ्च॒द्बृह॒स्पतिः॑ ॥

उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ । उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥
द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ । दक्षं॑ ते अ॒न्य आ॒वातु॒ व्य॒न्यो वा॑तु॒ यद्रपः॑ ॥
आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ । त्वं हि वि॑श्वभेषज दे॒वानां॑ दू॒त ईय॑से ॥
त्राय॑न्तामि॒मं दे॒वास्त्राय॑न्तां म॒रुतां॑ ग॒णाः । त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥
आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः । दक्षं॑ त उ॒ग्रमाभा॑रिषं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः । अ॒यं मे॑ वि॒श्वभे॑षजो॒ ऽयं शि॒वाभि॑मर्शनः ॥
हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी । अ॑नामयि॒त्नुभ्यां॒ हस्ता॑भ्यां॒ ताभ्यां॑ त्वा॒भि मृ॑शामसि ॥

आ॒वत॑स्त आ॒वतः॑ परा॒वत॑स्त आ॒वतः॑ । इ॒हैव भ॑व॒ मा नु गा॒ मा पूर्वा॒ननु॑ गाः पि॒तॄनसुं॑ बध्नामि ते दृ॒ढम् ॥
यत्त्वा॑भिचे॒रुः पुरु॑षः॒ स्वो यदर॑णो॒ जनः॑ । उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ॥
यद्दु॒द्रोहि॑थ शेपि॒षे स्त्रि॒यै पुं॒से अचि॑त्त्या । उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ॥
यतेन॑सो मा॒तृकृ॑ता॒च्छेषे॑ पि॒तृकृ॑ताच्च॒ यत् । उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ॥
यत्ते॑ मा॒ता यत्ते॑ पि॒ता ज॒मिर्भ्राता॑ च॒ सर्ज॑तः । प्र॒त्यक्से॑वस्व भेष॒जं ज॒रद॑ष्टिं कृणोमि त्वा ॥
इ॒हैधि॑ पुरुष॒ सर्वे॑ण॒ मन॑सा स॒ह । दू॒तौ य॒मस्य॒ मानु॑ गा॒ अधि॑ जीवपु॒रा इ॑हि ॥
अनु॑हूतः॒ पुन॒रेहि॑ वि॒द्वानु॒दय॑नं प॒थः । आ॒रोह॑णमा॒क्रम॑णं॒ जीव॑तोजीव॒तो ऽय॑नम् ॥
मा बि॑भे॒र्न म॑रिष्यसि ज॒रद॑ष्टिं कृणोमि त्वा । निर॑वोचम॒हं यक्ष्म॒मङ्गे॑भ्यो अङ्गज्व॒रं तव॑ ॥
अ॑ङ्गभे॒दो अ॑ङ्गज्व॒रो यश्च॑ ते हृदयाम॒यः । यक्ष्मः॑ श्ये॒न इ॑व॒ प्राप॑प्तद्व॒चा सा॒ढः प॑रस्त॒राम् ॥
ऋषी॑ बोधप्रतीबो॒धाव॑स्व॒प्नो यश्च॒ जागृ॑विः । तौ ते॑ प्रा॒णस्य॑ गो॒प्तारौ॒ दिवा॒ नक्तं॑ च जागृताम् ॥
अ॒यम॒ग्निरु॑प॒सद्य॑ इ॒ह सूर्य॒ उदे॑तु ते । उ॒देहि॑ मृ॒त्योर्ग॑म्भी॒रात्कृ॒ष्णाच्चि॒त्तम॑स॒स्परि॑ ॥
नमो॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॒ नमः॑ पि॒तृभ्य॑ उ॒त ये नय॑न्ति । उ॒त्पार॑णस्य॒ यो वेद॒ तम॒ग्निं पु॒रो द॑धे॒ ऽस्मा अ॑रि॒ष्टता॑तये ॥
अैतु॑ प्रा॒ण अैतु॒ मन॒ अैतु॒ चक्षु॒रथो॒ बल॑म् । शरी॑रमस्य॒ सम्वि॑दां॒ तत्प॒द्भ्यां प्रति॑ तिष्ठतु ॥
प्रा॒णेना॑ग्ने॒ चक्षु॑षा॒ सं सृ॑जे॒मं समी॑रय त॒न्वा॑३ सं बले॑न । वेत्था॒मृत॑स्य॒ मा नु गा॒न्मा नु भूमि॑गृहो भुवत् ॥
मा ते॑ प्रा॒ण उप॑ दस॒न्मो अ॑पा॒नो ऽपि॑ धायि ते । सूर्य॒स्त्वाधि॑पतिर्मृ॒त्योरु॒दाय॑छतु र॒श्मिभिः॑ ॥
इ॒वम॒न्तर्व॑दति जि॒ह्वा ब॒द्धा प॑निष्प॒दा । त्वया॒ यक्ष्म॒म्निर॑वोचं श॒तं रोपी॑श्च त॒क्मनः॑ ॥
अ॒यं लो॒कः प्रि॒यत॑मो दे॒वाना॒मप॑राजितः । यस्मै॒ त्वमि॒ह मृ॒त्यवे॑ दि॒ष्टः पु॑रुष जज्ञि॒षे । स च॒ त्वानु॑ ह्वयामसि॒ मा पु॒रा ज॒रसो॑ मृथाः ॥

उप॑ प्रि॒यं पनि॑प्नत॒म्युवा॑नमाहुती॒वृध॑म् । अग॑न्म॒ बिभ्र॑तो॒ नमो॑ दी॒र्घमायुः॑ कृणोतु मे ॥

अन्त॑काय मृ॒त्यवे॒ नमः॑ प्रा॒ना अ॑पा॒ना इ॒ह ते॑ रमन्ताम् । इ॒हायम॑स्तु॒ पुरु॑षः स॒हासु॑ना॒ सूर्य॑स्य भा॒गे अ॒मृत॑स्य लो॒के ॥
उदे॑नं॒ भगो॑ अग्रभी॒दुदे॑नं॒ सोमो॑ अंशु॒मान् । उदे॑नं म॒रुतो॑ दे॒वा उदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
इ॒ह ते ऽसु॑रि॒ह प्रा॒ण इ॒हायु॑रि॒ह ते॒ मनः॑ । उत्त्वा॒ निरृ॑त्याः॒ पाशे॑भ्यो॒ दैव्या॑ व॒चा भ॑रामसि ॥
उत्क्रा॒मातः॑ पुरुष॒ माव॑ पत्था मृ॒त्योः पड्वी॑षमवमु॒ञ्चमा॑नः । मा छि॑त्था अ॒स्माल्लो॒काद॒ग्नेः सूर्य॑स्य सं॒दृशः॑ ॥
तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑ । सूर्य॑स्ते त॒न्वे॑३ शं त॑पाति॒ त्वाम्मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥
उ॒द्यानं॑ ते पुरुष॒ नाव॒यानं॑ जी॒वातुं॑ ते॒ दक्ष॑तातिं कृनोमि । आ हि रोहे॒मम॒मृतं॑ सु॒खं रथ॒मथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥
मा ते॒ मन॒स्तत्र॑ गा॒न्मा ति॒रो भू॒न्मा जी॒वेभ्यः॒ प्र म॑दो॒ मानु॑ गाः पि॒तॄन् । विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु त्वे॒ह ॥
मा ग॒ताना॒मा दी॑धीथा॒ ये नय॑न्ति परा॒वत॑म् । आ रो॑ह॒ तम॑सो॒ ज्योति॒रेह्या ते॒ हस्तौ॑ रभामहे ॥
श्या॒मश्च॑ त्वा॒ मा श॒बल॑श्च॒ प्रेषि॑तौ य॒मस्य॒ यौ प॑थि॒रक्षी॒ श्वानौ॑ । अ॒र्वाङेहि॒ मा वि दी॑ध्यो॒ मात्र॑ तिष्ठः॒ परा॑ङ्मनाः ॥
मैतं पन्था॒मनु॑ गा भी॒म ए॒ष येन॒ पूर्वं॒ नेयथ॒ तं ब्र॑वीमि । तम॑ ए॒तत्पु॑रुष॒ मा प्र प॑त्था भ॒यं प॒रस्ता॒दभ॑यं ते अ॒र्वाक् ॥ 
रक्ष॑न्तु त्वा॒ग्नयो॒ ये अ॒प्स्व॑१न्ता रक्ष॑तु त्वा मनु॒ष्या॑३ यमि॒न्धते॑ । वै॑श्वान॒रो र॑क्षतु जा॒तवे॑दा दि॒व्यस्त्वा॒ मा प्र धा॑ग्वि॒द्युता॑ स॒ह ॥
मा त्वा॑ क्र॒व्याद॒भि मं॑स्ता॒रात्संक॑सुकाच्चर॒ रक्ष॑तु त्वा॒ द्यौ रक्ष॑तु । पृ॑थि॒वी सूर्य॑श्च त्वा॒ रक्ष॑तां च॒न्द्रमा॑श्च । अ॒न्तरि॑क्षं रक्षतु देवहे॒त्याः ॥
बो॒धश्च॑ त्वा प्रतिबो॒धश्च॑ रक्षतामस्व॒प्नश्च॑ त्वानवद्रा॒णश्च॑ रक्षताम् । गो॑पा॒यंश्च॑ त्वा॒ जागृ॑विश्च रक्षताम् ॥
ते त्वा॑ रक्षन्तु॒ ते त्वा॑ गोपायन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॑ ॥
जी॒वेभ्य॑स्त्वा स॒मुदे॑ वा॒युरिन्द्रो॑ धा॒ता द॑धातु सवि॒ता त्राय॑माणः । मा त्वा॑ प्रा॒णो बलं॑ हासी॒दसुं॒ ते ऽनु॑ ह्वयामसि ॥
मा त्वा॑ ज॒म्भः संह॑नु॒र्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिस्प्र॑म॒युः क॒था स्याः॑ । उत्त्वा॑दि॒त्या वस॑वो भर॒न्तूदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
उत्त्वा॒ द्यौरुत्पृ॑थि॒व्युत्प्र॒जाप॑तिरग्रभीत् । उत्त्वा॑ मृ॒त्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन् ॥
अ॒यं दे॑वा इ॒हैवास्त्व॒यं मामुत्र॑ गादि॒तः । इ॒मं स॒हस्र॑वीर्येण मृ॒त्योरुत्पा॑रयामसि ॥
उत्त्वा॑ मृ॒त्योर॑पीपरं॒ सं ध॑मन्तु वयो॒धसः॑ । मा त्वा॑ व्यस्तके॒श्यो॑३ मा त्वा॑घ॒रुदो॑ रुदन् ॥
आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः ।  सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च ते ऽविदम् ॥
व्य॑वात्ते॒ ज्योति॑रभू॒दप॒ त्वत्तमो॑ अक्रमीत् । अप॒ त्वन्मृ॒त्युं निरृ॑ति॒मप॒ यक्ष्मं॒ नि द॑ध्मसि ॥
आ र॑भस्वे॒माम॒मृत॑स्य॒ श्नुष्टि॒मछि॑द्यमाना ज॒रद॑ष्टिरस्तु ते । असुं॑ त॒ आयुः॒ पुन॒रा भ॑रामि॒ रज॒स्तमो॒ मोप॑ गा॒ मा प्र मे॑ष्ठाह् ॥
जीव॑तां॒ ज्योति॑र॒भ्येह्य॒र्वाङा त्वा॑ हरामि श॒तशा॑रदाय । अ॑वमु॒ञ्चन्मृ॑त्युपा॒शानश॑स्तिं॒ द्राघी॑य॒ आयुः॑ प्रत॒रं ते॑ दधामि ॥
वाता॑त्ते प्रा॒नम॑विदं॒ सूर्या॒च्चक्षु॑र॒हं तव॑ । यत्ते॒ मन॒स्त्वयि॒ तद्धा॑रयामि॒ सं वि॒त्स्वाङ्गै॒र्वद॑ जि॒ह्वयाल॑पन् ॥
प्रा॒णेन॑ त्वा द्वि॒पदां॒ चतु॑ष्पदाम॒ग्निमि॑व जा॒तम॒भि सं ध॑मामि । नम॑स्ते मृत्यो॒ चक्षु॑षे॒ नमः॑ प्रा॒णाय॑ ते ऽकरम् ॥
अ॒यं जी॑वतु॒ मा मृ॑ते॒मं समी॑रयामसि । कृ॒णोम्य॑स्मै भेष॒जं मृत्यो॒ मा पुरु॑षं वधीः ॥
जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम् । त्रा॑यमा॒णां सह॑मानां॒ सह॑स्वतीमि॒ह हु॑वे॒ ऽस्मा अ॑रि॒ष्टता॑तये ॥
अधि॑ ब्रूहि॒ मा र॑भथाह्सृ॒जेमं तवै॒व सन्त्सर्व॑हायाः इ॒हास्तु॑ । भवा॑शर्वौ मृ॒डतं॒ शर्म॑ यछतमप॒सिध्य॑ दुरि॒तं ध॑त्त॒मायुः॑ ॥
अ॒स्मै मृ॑त्यो॒ अधि॑ ब्रूही॒मं द॑य॒स्वोदि॒तो ऽयमे॑तु । अरि॑ष्टः॒ सर्वा॑ङ्गः सु॒श्रुज्ज॒रसा॑ श॒तहा॑यन आ॒त्मना॒ भुज॑मश्नुताम् ॥
दे॒वानां॑ हे॒तिह्परि॑ त्वा वृणक्तु पा॒रया॑मि त्वा॒ रज॑स॒ उत्त्वा॑ मृ॒त्योर॑पीपरम् । आ॒राद॒ग्निं क्र॒व्यादं॑ नि॒रूहं॑ जी॒वात॑वे ते परि॒धिं द॑धामि ॥
यत्ते॑ नि॒यानं॑ रज॒सं मृत्यो॑ अनवध॒र्ष्य॑म् । प॒थ इ॒मं तस्मा॒द्रक्ष॑न्तो॒ ब्रह्मा॑स्मै॒ वर्म॑ कृण्मसि ॥ 
कृ॒णोमि॑ ते प्राणापा॒नौ ज॒रां मृ॒त्युं दी॒र्घमायुः॑ स्व॒स्ति । वै॑वस्व॒तेन॒ प्रहि॑तान्यमदू॒तांश्च॑र॒तो ऽप॑ सेधामि॒ सर्वा॑न् ॥
आ॒रादरा॑तिं॒ निरृ॑तिं प॒रो ग्राहिं॑ क्र॒व्यादः॑ पिशा॒चान् । रक्षो॒ यत्सर्वं॑ दुर्भू॒तं तत्तम॑ इ॒वाप॑ हन्मसि ॥
अ॒ग्नेष्ट॑ प्रा॒नम॒मृता॒दायु॑ष्मतो वन्वे जा॒तवे॑दसः । यथा॒ न रिष्या॑ अ॒मृतः॑ स॒जूरस॒स्तत्ते॑ कृणोमि॒ तदु॑ ते॒ समृ॑ध्यताम् ॥
शि॒वे ते॑ स्तां॒ द्यावा॑पृथि॒वी अ॑संता॒पे अ॑भि॒श्रियौ॑ । शं ते॒ सूर्य॒ आ त॑पतु॒ शं वातो॑ वातु ते हृ॒दे । शि॒वा अ॒भि क्ष॑रन्तु॒ त्वापो॑ दि॒व्याः पय॑स्वतीः ॥
शि॒वास्ते॑ स॒न्त्वोष॑धय॒ उत्त्वा॑हार्ष॒मध॑रस्या॒ उत्त॑रां पृथि॒वीम॒भि । तत्र॑ त्वादि॒त्यौ र॑क्षतां सूर्याचन्द्र॒मसा॑वु॒भा ॥
यत्ते॒ वासः॑ परि॒धानं॒ यां नी॒विं कृ॑णु॒षे त्वम् । शि॒वं ते॑ त॒न्वे॑३ तत्कृ॑ण्मः संस्प॒र्शे ऽद्रू॑क्ष्णमस्तु ते ॥
यत्क्षु॒रेण॑ म॒र्चय॑ता सुते॒जसा॒ वप्ता॒ वप॑सि केशश्म॒श्रु । शुभं॒ मुखं॒ मा न॒ आयुः॒ प्र मो॑षीः ॥
शि॒वौ ते॑ स्तां व्रीहिय॒वाव॑बला॒साव॑दोम॒धौ । ए॒तौ यक्ष्मं॒ वि बा॑धेते ए॒तौ मु॑ञ्चतो॒ अम्ह॑सः ॥
यद॒श्नासि॒ यत्पि॑बसि धा॒न्यं॑ कृ॒ष्याः पयः॑ । यदा॒द्य॑१ यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ॥
अह्ने॑ च त्वा॒ रात्र॑ये चो॒भाभ्यां॒ परि॑ दद्मसि । अ॒राये॑भ्यो जिघ॒त्सुभ्य॑ इ॒मं मे॒ परि॑ रक्षत ॥ 
श॒तं ते॒ ऽयुतं॑ हाय॒नान्द्वे यु॒गे त्रीणि॑ च॒त्वारि॑ कृण्मः । इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते ऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥
श॒रदे॑ त्वा हेम॒न्ताय॑ वस॒न्ताय॑ ग्री॒ष्माय॒ परि॑ दद्मसि । व॒र्षाणि॒ तुभ्यं॑ स्यो॒नानि॒ येषु॒ वर्ध॑न्त॒ ओष॑धीः ॥
मृ॒त्युरी॑शे द्वि॒पदां॑ मृ॒त्युरी॑शे॒ चतु॑ष्पदाम् । तस्मा॒त्त्वां मृ॒त्योर्गोप॑ते॒रुद्भ॑रामि॒ स मा बि॑भेः ॥
सो ऽरि॑ष्ट॒ न म॑रिष्यसि॒ न म॑रिष्यसि॒ मा बि॑भेः । न वै तत्र॑ म्रियन्ते॒ नो य॑न्ति अध॒मं तमः॑ ॥
सर्वो॒ वै तत्र॑ जीवति॒ गौरश्वः॒ पुरु॑षः प॒शुः । यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कम् ॥
परि॑ त्वा पातु समा॒नेभ्यो॑ ऽभिचा॒रात्सब॑न्धुभ्यः । अम॑म्रिर्भवा॒मृतो॑ ऽतिजी॒वो मा ते॑ हासिषु॒रस॑वः॒ शरी॑रम् ॥
ये मृ॒त्यव॒ एक॑शतं॒ या ना॒ष्ट्रा अ॑तिता॒र्याः॑ । मु॒ञ्चन्तु॒ तस्मा॒त्त्वां दे॒वा अ॒ग्नेर्वै॑श्वान॒रादधि॑ ॥
अ॒ग्नेः शरी॑रमसि पारयि॒ष्णु र॑क्षो॒हासि॑ सपत्न॒हा । अथो॑ अमीव॒चात॑नः पू॒तुद्रु॒र्नाम॑ भेष॒जम् ॥

प्रा॒णाय॒ नमो॒ यस्य॒ सर्व॑मि॒दं वशे॑ । यो भू॒तः सर्व॑स्येश्व॒रो यस्मि॒न्त्सर्वं॒ प्रति॑ष्ठितम् ॥
नम॑स्ते प्राण॒ क्रन्दा॑य॒ नम॑स्ते स्तनयि॒त्नवे॑ । नम॑स्ते प्राण वि॒द्युते॒ नम॑स्ते प्राण॒ वर्ष॑ते ॥
यत्प्रा॒ण स्त॑नयि॒त्नुना॑भि॒क्रन्द॒त्योष॑धीः । प्र वी॑यन्ते॒ गर्भा॑न्दध॒ते ऽथो॑ ब॒ह्वीर्वि जा॑यन्ते ॥
यत्प्रा॒ण ऋ॒तावाग॑ते ऽभि॒क्रन्द॒त्योष॑धीः । सर्वं॑ त॒दा प्र मो॑दते॒ यत्किं च॒ भूम्या॒मधि॑ ॥
य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीं म॒हीम् । प॒शव॒स्तत्प्र मो॑दन्ते॒ महो॒ वै नो॑ भविष्यति ॥
अ॒भिवृ॑ष्टा॒ ओष॑धयः प्रा॒णेन॒ सम॑वादिरन् । आयु॒र्वै नः॒ प्राती॑तरः॒ सर्वा॑ नः सुर॒भीर॑कः ॥
नम॑स्ते अस्त्वाय॒ते नमो॑ अस्तु पराय॒ते । नम॑स्ते प्राण॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नमः॑ ॥
नम॑स्ते प्राण प्राण॒ते नमो॑ अस्त्वपान॒ते । प॑रा॒चीना॑य ते॒ नमः॑ प्रती॒चीना॑य ते॒ नमः॒ सर्व॑स्मै त इ॒दं नमः॑ ॥
या ते॑ प्राण प्रि॒या त॒नूर्यो ते॑ प्राण॒ प्रेय॑सी । अथो॒ यद्भे॑ष॒जं तव॒ तस्य॑ नो धेहि जी॒वसे॑ ॥
प्रा॒णः प्र॒जा अनु॑ वस्ते पि॒ता पु॒त्रमि॑व प्रि॒यम् । प्रा॒णो ह॒ सर्व॑स्येश्व॒रो यच्च॑ प्रा॒णति॒ यच्च॒ न ॥ 
प्रा॒णो मृ॒त्युः प्रा॒णस्त॒क्मा प्रा॒णं दे॒वा उपा॑सते । प्रा॒णो ह॑ सत्यवा॒दिन॑मुत्त॒मे लो॒क आ द॑धत् ॥
प्रा॒णो वि॒राट्प्रा॒णो देष्ट्री॑ प्रा॒नं सर्व॒ उपा॑सते । प्रा॒णो ह॒ सूर्य॑श्च॒न्द्रमाः॑ प्रा॒णमा॑हुः प्र॒जाप॑तिम् ॥
प्रा॑णापा॒नौ व्री॑हिय॒वाव॑न॒ड्वान्प्रा॒ण उ॑च्यते । यवे॑ ह प्रा॒ण आहि॑तो ऽपा॒नो व्री॒हिरु॑च्यते ॥
अपा॑नति॒ प्राण॑ति॒ पुरु॑षो॒ गर्भे॑ अन्त॒रा । य॒दा त्वं प्रा॑ण॒ जिन्व॒स्यथ॒ स जा॑यते॒ पुनः॑ ॥
प्रा॒णं आ॑हुर्मात॒रिश्वा॑नं॒ वातो॑ ह प्रा॒ण उ॑च्यते । प्रा॒णे ह॑ भू॒तं भव्यं॑ च प्रा॒णे सर्वं॒ प्रति॑ष्ठितम् ॥
आ॑थर्व॒णीरा॑ङ्गिर॒सीर्दै॒वीर्म॑नुष्य॒जा उ॒त । ओष॑धयः॒ प्र जा॑यन्ते य॒दा त्वं प्रा॑ण॒ जिन्व॑सि ॥
य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीम्म॒हीम् । ओष॑धयः॒ प्र जा॑य॒न्ते ऽथो॒ याः काश्च॑ वी॒रुधः॑ ॥
यस्ते॑ प्राणे॒दं वे॑द॒ यस्मिं॑श्चासि॒ प्रति॑ष्ठितः । सर्वे॒ तस्मै॑ ब॒लिं ह॑रान॒मुष्मिं॑ल्लो॒क उ॑त्त॒मे ॥
यथा॑ प्राण बलि॒हृत॒स्तुभ्यं॒ सर्वाः॑ प्र॒जा इ॒माः । ए॒वा तस्मै॑ ब॒लिं ह॑रा॒न्यस्त्वा॑ शृ॒णव॑त्सुश्रवः ॥
अ॒न्तर्गर्भ॑श्चरति दे॒वता॒स्वाभू॑तो भू॒तः स उ॑ जायते॒ पुनः॑ । स भू॒तो भव्यं॑ भवि॒ष्यत्पि॒ता पु॒त्रं प्र वि॑वेशा॒ शची॑भिः ॥ 
एकं॒ पादं॒ नोत्खि॑दति सलि॒लाद्धं॒स उ॒च्चर॑न् । यद॒ङ्ग स तमु॑त्खि॒देन्नैवाद्य न श्वः स्या॑त् । न रात्री॒ नाहः॑ स्या॒न्न व्यु॑छेत्क॒दा च॒न ॥
अ॒ष्टाच॑क्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॒श्चा । अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क॑त॒मः स के॒तुः ॥
यो अ॒स्य वि॒श्वज॑न्मन॒ ईशे॒ विश्व॑स्य॒ चेष्ट॑तः । अन्ये॑षु क्षि॒प्रध॑न्वने॒ तस्मै॑ प्राण॒ नमो॑ ऽस्तु ते ॥
यो अ॒स्य स॒र्वज॑न्मन॒ ईशे॒ सर्व॑स्य॒ चेष्ट॑तः । अत॑न्द्रो॒ ब्रह्म॑णा॒ धीरः॑ प्रा॒णो मानु॑ तिष्ठातु ॥
ऊ॒र्ध्वः सु॒प्तेषु॑ जागार न॒नु ति॒र्यङ्नि प॑द्यते । न सु॒प्तम॑स्य सु॒प्तेष्वनु॑ शुश्राव॒ कश्च॒न ॥
प्राण॒ मा मत्प॒र्यावृ॑तो॒ न मद॒न्यो भ॑विष्यसि । अ॒पां गर्भ॑मिव जी॒वसे॒ प्राण॑ ब॒ध्नामि॑ त्वा॒ मयि॑ ॥

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान्भूयासम् ॥
वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यो दे॒वानां॑ भूयासम् ॥
वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यः प्र॒जानां॑ भूयासम् ॥
वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यह्प॑शू॒नां भू॑यासम् ॥
वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम् । सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् । ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यः स॑मा॒नानां॑ भूयासम् ॥
उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि । द्वि॒षंश्च॒ मह्यं॒ रध्य॑तु॒ मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि । आंश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिं कृ॑धि॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
मा त्वा॑ दभन्त्सलि॒ले अ॒प्स्व॑१न्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑ । हि॒त्वाश॑स्तिं॒ दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
त्वं न॑ इन्द्र मह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
त्वं न॑ इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शंत॑मो भव । आ॒रोहं॑स्त्रिदि॒वं दि॒वो गृ॑णा॒नः सोम॑पीतये प्रि॒यधा॑मा स्व॒स्तये॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥ 
त्वमि॑न्द्रासि विश्व॒जित्स॑र्व॒वित्पु॑रुहू॒तस्त्वमि॑न्द्र । त्वमि॑न्द्रे॒मं सु॒हवं॒ स्तोम॒मेर॑यस्व॒ स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
अद॑ब्धो दि॒वि पृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे । अ॑दब्धेन॒ ब्रह्म॑णा वावृधा॒नः स त्वं न॑ इन्द्र दि॒वि सं छर्म॑ यछ॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
या त॑ इन्द्र त॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या ते॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑ । यये॑न्द्र त॒न्वा॑३ ऽन्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॑३ शर्म॒ यछ॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
त्वामि॑न्द्र॒ ब्रह्म॑णा व॒र्धय॑न्तः स॒त्त्रं नि षे॑दु॒रृष॑यो॒ नाध॑माना॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
त्वं तृ॒तं त्वं पर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विदं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
त्वं र॑क्षसे प्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि । त्वमि॒मा विश्वा॒ भुव॒नानु॑ तिष्ठस ऋ॒तस्य॒ पन्था॒मन्वे॑षि वि॒द्वांस्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
प॒ञ्चभिः॒ परा॑ङ्तप॒स्येक॑या॒र्वाङश॑स्तिमेषि सु॒दिने॒ बाध॑मान॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
त्वमिन्द्र॒स्त्वम्म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः । तुभ्यं॑ य॒ज्ञो वि ता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
अस॑ति॒ सत्प्रति॑ष्ठितं स॒ति भू॒तं प्रति॑ष्ठितम् । भू॒तम्ह॒ भव्य॒ आहि॑तं॒ भव्यं॑ भू॒ते प्रति॑ष्ठितं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
शु॒क्रो ऽसि॑ भ्रा॒जो ऽसि॑ । स यथा॒ त्वं भ्राज॑ता भ्रा॒जो ऽस्ये॒वाहं भ्राज॑ता भ्राज्यासम् ॥
रुचि॑रसि रो॒चो ऽसि॑ । स यथा॒ त्वं रुच्या॑ रो॒चो ऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ च रुचिषीय ॥
उ॑द्य॒ते नम॑ उदाय॒ते नम॒ उदि॑ताय॒ नमः॑ । वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑ ॥
अ॑स्तंय॒ते नमो॑ ऽस्तमेष्य॒ते नमो॑ ऽस्तमिताय॒ नमः॑ । वि॒राजे॒ नमः॑ स्व॒राजे॒ नम॑ह्स॒म्राजे॒ नमः॑ ॥
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह । स॒पत्ना॒न्मह्यं॑ र॒न्धय॒न्मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ॥
आदि॑त्य॒ नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑ । अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑ पारय ॥
सू॑र्य नावमारुक्षः श॒तारि॑त्रां स्व॒स्तये॑ । रात्रिं॒ मात्य॑पीप॒रो ऽहः॑ स॒त्राति॑ पारय ॥
प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च । ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ॥
परि॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒हम्क॑श्यपस्य॒ ज्योति॑षा॒ वर्च॑सा च । मा मा॒ प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ॥
ऋ॒तेन॑ गु॒प्त ऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम् । मा मा॒ प्राप॑त्पा॒प्मा मोत मृ॒त्युर॒न्तर्द॑धे॒ ऽहं स॑लि॒लेन॑ वा॒चः ॥
अ॒ग्निर्मा॑ गो॒प्ता परि॑ पातु वि॒श्वतः॑ उ॒द्यन्त्सूर्यो॑ नुदतां मृत्युपा॒शान् । व्यु॒छन्ती॑रु॒षसः॒ पर्व॑ता ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम् ॥

(10) varcasyo ye triṣaptā (1.1) asmin vasu (1.9) prātar agniṃ (3.16) hastivarcasaṃ (3.22) siṃhe vyāghre (6.38) yaśo havir (6.39) yaśasaṃ mendro (6.58) girāv aragarāṭeṣu (6.69) yathā somaḥ prātaḥsavane (9.1.11) yac ca varco akṣeṣu yena mahānaghnyā jaghanam (14.1.35,36) iti varcasyāni || iti varcasyagaṇaḥ ||

ये त्रि॑ष॒प्ताः प॑रि॒यन्ति॒ विश्वा॑ रू॒पाणि॒ बिभ्र॑तः । वा॒चस्पति॒र्बला॒ तेषां॑ त॒न्वो॑ अ॒द्य द॑धातु मे ॥
पुन॒रेहि॑ वचस्पते दे॒वेन॒ मन॑सा स॒ह । वसो॑ष्पते॒ नि र॑मय॒ मय्ये॒वास्तु॒ मयि॑ श्रु॒तम् ॥
इ॒हैवाभि वि त॑नू॒भे आर्त्नी॑ इव॒ ज्यया॑ । वा॒चस्पति॒र्नि य॑छतु॒ मय्ये॒वास्तु॒ मयि॑ श्रु॒तम् ॥
उप॑हूतो वा॒चस्पति॒रुपा॒स्मान्वा॒चस्पति॑र्ह्वयताम् । सं श्रु॒तेन॑ गमेमहि॒ मा श्रु॒तेन॒ वि रा॑धिषि ॥

अ॒स्मिन्वसु॒ वस॑वो धारय॒न्त्विन्द्रः॑ पू॒षा वरु॑णो मि॒त्रो अ॒ग्निः । इ॒ममा॑दि॒त्या उ॒त विश्वे॑ च दे॒वा उत्त॑रस्मि॒न्ज्योति॑षि धारयन्तु ॥
अ॒स्य दे॑वाः प्र॒दिशि॒ ज्योति॑रस्तु॒ सूर्यो॑ अ॒ग्निरु॒त वा॒ हिर॑ण्यम् । स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
येनेन्द्रा॑य स॒मभ॑रः॒ पयां॑स्युत्त॒मेन॒ ब्रह्म॑णा जातवेदः । तेन॒ त्वम॑ग्न इ॒ह व॑र्धये॒मं स॑जा॒तानां॒ श्रैष्ठ्य॒ आ धे॑ह्येनम् ॥
अैषां॑ य॒ज्ञमु॒त वर्चो॑ ददे॒ ऽहं रा॒यस्पोष॑मु॒त चि॒त्तान्य॑ग्ने । स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥

प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑म्हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं ह॑वामहे ॥
प्रा॑त॒र्जित॒म्भग॑मु॒ग्रम्ह॑वामहे व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ॥
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् । उ॒तोदि॑तौ मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
भग॑ ए॒व भग॑वाँ अस्तु दे॒वस्तेना॑ व॒यं भग॑वन्तः स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥
सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॑र्वाची॒नं व॑सु॒विदं॒ भगं॑ मे॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुछन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

ह॑स्तिवर्च॒सं प्र॑थतां बृ॒हद्यशो॒ अदि॑त्या॒ यत्त॒न्वः॑ संब॒भूव॑ । तत्स॑र्वे॒ सम॑दु॒र्मह्य॑मे॒तद्विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ॥
मि॒त्रश्च॒ वरु॑ण॒श्चेन्द्रो॑ रु॒द्रश्च॑ चेततु । दे॒वासो॑ वि॒श्वधा॑यस॒स्ते मा॑ञ्जन्तु॒ वर्च॑सा ॥
येन॑ ह॒स्ती वर्च॑सा संब॒भूव॒ येन॒ राजा॑ मनु॒ष्ये॑स्व॒प्स्व॑१न्तः । येन॑ दे॒वा दे॒वता॒मग्र॒ आय॒न्तेन॒ माम॒द्य वर्च॒साग्ने॑ वर्च॒स्विनं॑ कृणु ॥
यत्ते॒ वर्चो॑ जातवेदो बृ॒हद्भव॒त्याहु॑तेः । याव॒त्सूर्य॑स्य॒ वर्च॑ आसु॒रस्य॑ च ह॒स्तिनः॑ । ताव॑न्मे अ॒श्विना॒ वर्च॒ आ ध॑त्तां॒ पुष्क॑रस्रजा ॥
याव॒च्चत॑स्रः प्र॒दिश॒श्चक्षु॒र्याव॑त्समश्नु॒ते । ताव॑त्स॒मैत्वि॑न्द्रि॒यं मयि॒ तद्ध॑स्तिवर्च॒सम् ॥
ह॒स्ती मृ॒गाणां॑ सु॒षदा॑मति॒ष्ठावा॑न्ब॒भूव॒ हि । तस्य॒ भगे॑न॒ वर्च॑सा॒भि षि॑ञ्चामि॒ माम॒हम् ॥

सि॒म्हे व्या॒घ्र उ॒त या पृदा॑कौ॒ त्विषि॑र॒ग्नौ ब्रा॑ह्म॒णे सूर्ये॒ या । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ॥
या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये॒ त्विषि॑र॒प्सु गोषु॒ या पुरु॑षेषु । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ॥
रथे॑ अ॒क्षेष्वृ॑ष॒भस्य॒ वाजे॒ वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑ । इन्द्र॒म्या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ॥
रा॑ज॒न्ये॑ दुन्दु॒भावाय॑ताया॒मश्व॑स्य॒ वाजे॒ पुरु॑षस्य मा॒यौ । इन्द्र॒म्या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा सम्विदा॒ना ॥

यशो॑ ह॒विर्व॑र्धता॒मिन्द्र॑जूतं स॒हस्र॑वीर्यं॒ सुभृ॑तं॒ सह॑स्कृतम् । प्र॒सर्स्रा॑ण॒मनु॑ दी॒र्घाय॒ चक्ष॑से ह॒विष्म॑न्तं मा वर्धय ज्ये॒ष्ठता॑तये ॥
अछा॑ न॒ इन्द्रं॑ य॒शसं॒ यशो॑भिर्यश॒स्विनं॑ नमसा॒ना वि॑धेम । स नो॑ रास्व रा॒ष्ट्रमिन्द्र॑जूतं॒ तस्य॑ ते रा॒तौ य॒शसः॑ स्याम ॥
य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत । य॒शा विश्व॑स्य भू॒तस्य॑ अ॒हम॑स्मि य॒शस्त॑मः ॥

य॒शसं॒ मेन्द्रो॑ म॒घवा॑न्कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म् ॥
यथेन्द्रो॒ द्यावा॑पृथि॒व्योर्यश॑स्वा॒न्यथाप॒ ओष॑धीषु॒ यश॑स्वतीः । ए॒वा विश्वे॑षु दे॒वेषु॑ व॒यं सर्वे॑षु य॒शसः॑ स्याम ॥
य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत । य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि य॒शस्त॑मः ॥

गि॒राव॑र॒गरा॑टेषु॒ हिर॑न्ये॒ गोषु॒ यद्यशः॑ । सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑ ॥
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती । यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥
मयि॒ वर्चो॒ अथो॒ यशो ऽथो॑ य॒ज्ञस्य॒ यत्पयः॑ । तन्मयि॑ प्र॒जाप॑तिर्दि॒वि द्यामि॑व दृंहतु ॥

यथा॒ सोमः॑ प्रातःसव॒ने अ॒श्विनो॑र्भवति प्रि॒यः । ए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥

यच्च॒ वर्चो॑ अ॒क्षेषु॒ सुरा॑यां च॒ यदाहि॑तम् । यद्गोष्व॑श्विना॒ वर्च॒स्तेने॒मां वर्च॑सावतम् ॥
येन॑ महान॒घ्न्या ज॒घन॒मश्वि॑ना॒ येन॑ वा॒ सुरा॑ । येना॒क्षा अ॒भ्यषि॑च्यन्त॒ तेने॒मां वर्च॑सावतम् ॥

(11) svastyayano amūḥ pāre (1.27) pātaṃ na indrāpūṣaṇā (6.3) tvaṣṭā me daivyaṃ (6.4) yena soma (6.7) namo devavadhebhyo (6.13) 'bhayaṃ mitrāvaruṇāv (6.32.3) upa prāgāt sahasrākṣo (6.37) 'namitraṃ no adharād (6.40.3) yamomṛtyur (6.93) bṛhaspatir naḥ pari pātu (7.51) tyam ū ṣu (7.85) trātāram indraḥ (7.86) sutrāmā (7.6.3) sa sutrāmā (7.92) ā mandrair indra (7.117) marmāṇi te (7.118) varma me dyāvāpṛthivī aindrāgnaṃ varma (8.5.18, 19)  girayas te yat te madhyaṃ (12.1.11,12) yās te prācīr mā naḥ paścād (12.1.31,32) iti svastyayanāni || iti svastyayanagaṇaḥ ||

अ॒मूः पा॒रे पृ॑दा॒क्व॑स्त्रिष॒प्ता निर्ज॑रायवः । तासा॑म्ज॒रायु॑भिर्व॒यम॒क्ष्या॒वपि॑ व्ययामस्यघा॒योः प॑रिप॒न्थिनः॑ ॥
विषू॑च्येतु कृन्त॒ती पिना॑कमिव॒ बिभ्र॑ती । विष्व॑क्पुन॒र्भुवा॒ मनो ऽस॑मृद्धा अघा॒यवः॑ ॥
न ब॒हवः॒ सम॑शक॒न्नार्भ॒का अ॒भि दा॑धृषुः । वे॒णोरद्गा॑ इवा॒भितो ऽस॑मृद्धा अघा॒यवः॑ ॥
प्रेतं॑ पादौ॒ प्र स्पु॑रतं॒ वह॑तं पृण॒तो गृ॒हान् । इ॑न्द्रा॒न्ये॑तु प्रथ॒माजी॒तामु॑षिता पु॒रः ॥
उप॒ प्रागा॑द्दे॒वो अ॒ग्नी र॑क्षो॒हामी॑व॒चात॑नः । दह॒न्नप॑ द्वया॒विनो॑ यातु॒धाना॑न्किमी॒दिनः॑ ॥
प्रति॑ दह यातु॒धाना॒न्प्रति॑ देव किमी॒दिनः॑ । प्र॒तीचीः॑ कृष्णवर्तने॒ सं द॑ह यातुधा॒न्यः॑ ॥
या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे । या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा ॥
पु॒त्रम॑त्तु यातुधा॒नीः स्वसा॑रमु॒त न॒प्त्य॑म् । अधा॑ मि॒थो वि॑के॒श्यो॑३ वि घ्न॑तां यातुधा॒न्यो॑३ वि तृ॑ह्यन्तामरा॒य्यः॑ ॥

पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑ । अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥
पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः । पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ॥
पा॒ताम्नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम् । अपां॑ नपा॒दभि॑ह्रुती॒ गय॑स्य चि॒द्देव॑ त्वष्टर्व॒र्धय॑ स॒र्वता॑तये ॥

त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑ । पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ॥
अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑ । अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ॥
धि॒ये सम॑श्विना॒ प्राव॑तं न उरु॒ष्या ण॑ उरुज्म॒न्नप्र॑युछन् । द्यौ॑३ष्पित॑र्या॒वय॑ दु॒छुना॒ या ॥

येन॑ सो॒मादि॑तिः प॒था मि॒त्रा वा॒ यन्त्य॒द्रुहः॑ । तेना॒ नो ऽव॒सा ग॑हि ॥
येन॑ सोम साह॒न्त्यासु॑रान्र॒न्धया॑सि नः । तेना॑ नो॒ अधि॑ वोचत ॥
येन॑ देवा॒ असु॑राणा॒मोजां॒स्यवृ॑णीध्वम् । तेना॑ नः॒ शर्म॑ यछत ॥

नमो॑ देवव॒धेभ्यो॒ नमो॑ राजव॒धेभ्यः॑ । अथो॒ ये विश्या॑नां व॒धास्तेभ्यो॑ मृत्यो॒ नमो॑ ऽस्तु ते ॥
नम॑स्ते अधिवा॒काय॑ परावा॒काय॑ ते॒ नमः॑ । सु॑म॒त्यै मृ॑त्यो ते॒ नमो॑ दुर्म॒त्यै ते॑ इ॒दं नमः॑ ॥
नम॑स्ते यातु॒धाने॑भ्यो॒ नम॑स्ते भेष॒जेभ्यः॑ । नम॑स्ते मृत्यो॒ मूले॑भ्यो ब्राह्म॒णेभ्य॑ इ॒दं नमः॑ ॥

अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑ । मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥

उप॒ प्रागा॑त्सहस्रा॒क्षो यु॒क्त्वा श॒पथो॒ रथ॑म् । श॒प्तार॑मन्वि॒छन्मम॒ वृक॑ इ॒वावि॑मतो गृ॒हम् ॥
परि॑ णो वृङ्ग्धि शपथ ह्र॒दम॒ग्निरि॑वा॒ दह॑न् । श॒प्तार॒मत्र॑ नो जहि दि॒वो वृ॒क्षमि॑वा॒शनिः॑ ॥
यो नः॒ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त् । शुने॒ पेष्ट्र॑मि॒वाव॑क्षामं॒ तं प्रत्य॑स्यामि मृ॒त्यवे॑ ॥

अ॑नमि॒त्रं नो॑ अध॒राद॑नमि॒त्रं न॑ उत्त॒रात् । इन्द्रा॑नमि॒त्रं नः॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ॥

य॒मो मृ॒त्युर॑घमा॒रो नि॑रृ॒थो ब॒भ्रुः श॒र्वो ऽस्ता॒ नील॑शिखण्डः । दे॑वज॒नाः सेन॑योत्तस्थि॒वांस॒स्ते अ॒स्माकं॒ परि॑ वृञ्जन्तु वी॒रान् ॥
मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्त्र॑ उ॒त राज्ञे॑ भ॒वाय॑ । न॑म॒स्ये॑भ्यो॒ नम॑ एभ्यः कृणोम्य॒न्यत्रा॒स्मद॒घवि॑षा नयन्तु ॥
त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद्विश्वे॑ देवा मरुतो विश्ववेदसः । अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ॥

बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघ॒योः । इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरी॑यः कृणोतु ॥

त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम् । अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म् । हु॒वे नु॑ श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति न॒ इन्द्रो॑ म॒घवा॑न्कृणोतु ॥

सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् । दैवीं॒ नावं॑ स्वरि॒त्रामना॑गसो॒ अस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥

स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मदा॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु । तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः । मा त्वा॒ के चि॒द्वि य॑म॒न्विं न पा॒शिनो॑ ऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥

मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥

वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑ । वर्म॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ वर्म॑ धा॒ता द॑धातु मे ॥
अै॑न्द्रा॒ग्नं वर्म॑ बहु॒लं यदु॒ग्रं विश्वे॑ दे॒वा नाति॒विध्य॑न्ति॒ सर्वे॑ । तन्मे॑ त॒न्वं॑ त्रायतां स॒र्वतो॑ बृ॒हदायु॑ष्मां ज॒रद॑ष्टि॒र्यथासा॑नि ॥

गि॒रय॑स्ते॒ पर्व॑ता हि॒मव॒न्तो ऽर॑ण्यं ते पृथिवि स्यो॒नम॑स्तु । ब॒भ्रुं कृ॒ष्णाम्रोहि॑णीं वि॒श्वरू॑पां ध्रु॒वां भूमिं॑ पृथि॒वीमिन्द्र॑गुप्ताम् । अजी॒तो ऽह॑तो॒ अक्ष॒तो ऽध्य॑ष्ठाम्पृथि॒वीमह॑म् ॥
यत्ते॒ मध्यं॑ पृथिवि॒ यच्च॒ नभ्यं॒ यास्त॒ ऊर्ज॑स्त॒न्वः॑ संबभू॒वुः । तासु॑ नो धेह्य॒भि नः॑ पवस्व मा॒ता भूमिः॑ पु॒त्रो अ॒हं पृ॑थि॒व्याः प॒र्जन्यः॑ पि॒ता स उ॑ नः पिपर्तु ॥

यास्ते॒ प्राचीः॑ प्र॒दिशो॒ या उदी॑ची॒र्यास्ते॑ भूमे अध॒राद्याश्च॑ प॒श्चात् । स्यो॒नास्ता मह्यं॒ चर॑ते भवन्तु॒ मा नि प॑प्तं॒ भुव॑ने शिश्रिया॒णः ॥
मा नः॑ प॒श्चान्मा पु॒रस्ता॑न्नुदिष्ठा॒ मोत्त॒राद॑ध॒रादु॒त । स्व॒स्ति भू॑मे नो भव॒ मा वि॑दन्परिप॒न्थिनो॒ वरी॑यो यावया व॒धम् ॥

(12) abhayaḥ svastidā viśāṃ (1.21) brāhmaṇena paryuktāsi (4.19.2) na tā arvā reṇukakāṭo (4.21.4) abhayaṃ mitrāvaruṇā (6.32.3) abhayaṃ dyāvāpṛthivī, asmai grāmāya (6.40.1-2) hataṃ tardaṃ (6.50) pūṣemā āśā (7.9.2) indraḥ sutrāmā (7.91) maitaṃ panthāṃ (8.1.10) svastidā viśāṃ patir (1.21) nama te ghoṣiṇībhya (11.2.31) ā te rāṣṭram (13.1.5) idam uc chreyo yata indra bhayāmaha (19.14-15) ity abhayāni || ity abhayagaṇaḥ ||
(19.16-17 included by me)

स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु॒ नः सो॑म॒पा अ॑भयंक॒रः ॥
वि न॒ इन्द्र॒ मृधो॑ जहि नी॒चा य॑छ पृतन्य॒तः । अ॑ध॒मं ग॑मया॒ तमो॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥
वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥
अपे॑न्द्र द्विष॒तो मनो॑ ऽप॒ जिज्या॑सतो व॒धम् । वि म॒हच्छर्म॑ यछ॒ वरी॑यो यावया व॒धम् ॥

ब्रा॑ह्म॒णेन॒ पर्यु॑क्तासि॒ कण्वे॑न नार्ष॒देन॑ । सेने॑वैषि॒ त्विषी॑मती॒ न तत्र॑ भ॒यम॑स्ति॒ यत्र॑ प्रा॒प्नोष्यो॑षधे ॥

न ता अर्वा॑ रे॒णुक॑काटो ऽश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि । उ॑रुगा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥

अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑ । मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥

इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

अभ॑यं द्यावापृथिवी इ॒हास्तु॒ नो ऽभ॑यं॒ सोमः॑ सवि॒ता नः॑ कृणोतु । अभ॑यं नो ऽस्तू॒र्व॒न्तरि॑क्षं सप्तऋषी॒णां च॑ ह॒विषाभ॑यं नो अस्तु ॥
अ॒स्मै ग्रामा॑य प्र॒दिश॒श्चत॑स्र॒ ऊर्जं॑ सुभू॒तं स्व॒स्ति स॑वि॒ता नः॑ कृणोतु । अ॑श॒त्र्विन्द्रो॒ अभ॑यं नः कृणोत्व॒न्यत्र॒ राज्ञा॑म॒भि या॑तु म॒न्युः ॥

ह॒तं त॒र्दं स॑म॒ङ्कमा॒खुम॑श्विना छि॒न्तं शिरो॒ अपि॑ पृ॒ष्टीः शृ॑णीतम् । यवा॒न्नेददा॒नपि॑ नह्यतं॒ मुख॒मथाभ॑यं कृणुतं धा॒न्या॑य ॥
तर्द॒ है पत॑ङ्ग॒ है जभ्य॒ हा उप॑क्वस । ब्र॒ह्मेवासं॑स्थितं ह॒विरन॑दन्त इ॒मान्यवा॒नहिं॑सन्तो अ॒पोदि॑त ॥
तर्दा॑पते॒ वघा॑पते॒ तृष्ट॑जम्भा॒ आ शृ॑णोत मे । य आ॑र॒ण्या व्य॑द्व॒रा ये के च॒ स्थ व्य॑द्व॒रास्तान्त्सर्वा॑न्जम्भयामसि ॥

पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत् । स्व॑स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रो ऽप्र॑युछन्पु॒र ए॑तु प्रजा॒नन् ॥

मैतं पन्था॒मनु॑ गा भी॒म ए॒ष येन॒ पूर्वं॒ नेयथ॒ तं ब्र॑वीमि । तम॑ ए॒तत्पु॑रुष॒ मा प्र प॑त्था भ॒यं प॒रस्ता॒दभ॑यं ते अ॒र्वाक् ॥ 

स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु॒ नः सो॑म॒पा अ॑भयंक॒रः ॥
वि न॒ इन्द्र॒ मृधो॑ जहि नी॒चा य॑छ पृतन्य॒तः । अ॑ध॒मं ग॑मया॒ तमो॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥
वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥
अपे॑न्द्र द्विष॒तो मनो॑ ऽप॒ जिज्या॑सतो व॒धम् । वि म॒हच्छर्म॑ यछ॒ वरी॑यो यावया व॒धम् ॥  (Repeated)

नम॑स्ते घो॒षिणी॑भ्यो॒ नम॑स्ते के॒शिनी॑भ्यः । नमो॒ नम॑स्कृताभ्यो॒ नमः॑ संभुञ्ज॒तीभ्यः॑ । नम॑स्ते देव॒ सेना॑भ्यः स्व॒स्ति नो॒ अभ॑यं च नः ॥

आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तो ऽहार्षी॒द्व्या॑स्थ॒न्मृधो॒ अभ॑यं ते अभूत् । तस्मै॑ ते द्यावापृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहातामि॒ह शक्व॑रीभिः ॥

इ॒दमु॒च्छ्रेयो॑ ऽव॒सान॒मागां॑ शि॒वे मे॒ द्यावा॑पृथि॒वी अ॑भूताम् । अ॑सप॒त्नाः प्र॒दिशो॑ मे भवन्तु॒ न वै त्वा॑ द्विष्मो॒ अभ॑यं नो अस्तु ॥

यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि । मघ॑वं छ॒ग्धि तव॒ त्वं न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥
इन्द्रं॑ व॒यम॑नूरा॒धं ह॑वाम॒हे ऽनु॑ राध्यास्म द्वि॒पदा॒ चतु॑ष्पदा । मा नः॒ सेना॒ अर॑रुषी॒रुप॑ गु॒र्विषू॑चिरिन्द्र द्रु॒हो वि ना॑शय ॥
इन्द्र॑स्त्रा॒तोत वृ॑त्र॒हा प॑र॒स्पानो॒ वरे॑ण्यः । स र॑क्षि॒ता च॑रम॒तः स म॑ध्य॒तः स प॒श्चात्स पु॒रस्ता॑न्नो अस्तु ॥
उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑१र्यज्ज्योति॒रभ॑यं स्व॒स्ति । उ॒ग्रा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ क्षयेम शर॒णा बृ॒हन्ता॑ ॥

(Looks like kavacam)
अभ॑यं नः करत्य॒न्तरि॑क्ष॒मभ॑यं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । अभ॑यं प॒श्चादभ॑यं पु॒रस्ता॑दुत्त॒राद॑ध॒रादभ॑यं नो अस्तु ॥
अभ॑यं मि॒त्रादभ॑यम॒मित्रा॒दभ॑यं ज्ञा॒तादभ॑यं पु॒रो यः । अभ॑यं॒ नक्त॒मभ॑यं दिवा नः॒ सर्वा॒ आशा॒ मम॑ मि॒त्रं भ॑वन्तु ॥
अ॑सप॒त्नं पु॒रस्ता॑त्प॒श्चान्नो॒ अभ॑यं कृतम् । स॑वि॒ता मा॑ दक्षिण॒त उ॑त्त॒रान्मा॑ शची॒पतिः॑ ॥
दि॒वो मा॑दि॒त्या र॑क्षतु॒ भूम्या॑ रक्षन्त्व॒ग्नयः॑ । इ॑न्द्रा॒ग्नी र॑क्षतां मा पु॒रस्ता॑द॒श्विना॑व॒भितः॒ शर्म॑ यछताम् । ति॑र॒श्चीन॒घ्न्या र॑क्षतु जा॒तवे॑दा भूत॒कृतो॑ मे स॒र्वतः॑ सन्तु॒ वर्म॑ ॥
अ॒ग्निर्मा॑ पातु॒ वसु॑भिः पु॒रस्ता॒त्तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
वा॒युर्मा॒न्तरि॑क्षेनै॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
सोमो॑ मा रु॒द्रैर्दक्षि॑णाया दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
वरु॑णो मादि॒त्यैरे॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मान॒म्परि॑ ददे॒ स्वाह॑ ॥
सूर्यो॑ मा॒ द्यावा॑पृथि॒वीभ्यां॑ प्र॒तीच्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
आपो॒ मौष॑धीमतीरे॒तस्या॑ दि॒शः पा॑न्तु॒ तासु॑ क्रमे॒ तासु॑ श्रये॒ तां पुरं॒ प्रैमि॑ । ता मा॑ रक्षन्तु॒ ता मा॑ गोपायन्तु॒ ताभ्य॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
वि॒श्वक॑र्मा मा सप्तऋ॒षिभि॒रुदी॑च्या दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
इन्द्रो॑ मा म॒रुत्वा॑ने॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॑ प्रैमि । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
प्र॒जाप॑तिर्मा प्र॒जन॑नवान्त्स॒ह प्र॑ति॒ष्ठया॑ ध्रु॒वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
बृह॒स्पति॑र्मा॒ विश्वै॑र्दे॒वैरू॒र्ध्वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
अ॒ग्निं ते वसु॑वन्तमृछन्तु । ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शो ऽभि॒दासा॑न् ॥
वा॒युं ते॑३ ऽन्तरि॑क्षवन्तमृछन्तु । ये मा॑घा॒यवः॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ॥
सोमं॒ ते रु॒द्रव॑न्तमृछन्तु । ये मा॑ ऽघा॒यवो॒ दक्षि॑णाया दि॒शो ऽभि॒दासा॑न् ॥
वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृछन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॑दासान् ॥
सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृछन्तु । ये मा॑घा॒यव॑ प्र॒तीच्याः॑ दि॒शो ऽभि॒दासा॑न् ॥
अ॒पस्त ओष॑धीमतीरृछन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ॥
वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृछन्तु । ये मा॑ ऽघा॒यव॒ उदी॑च्या दि॒शो ऽभि॒दासा॑न् ॥
इन्द्रं॒ ते म॒रुत्व॑न्तमृछन्तु । ये मा॑ ऽघा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ॥
प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृछन्तु । ये मा॑घा॒यवो॑ ध्रु॒वाया॑ दि॒शो ऽभि॒दासा॑न् ॥
बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृछन्तु । ये मा॑घा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शो ऽभि॒दासा॑न् ॥

(13) aparājito vidmā śarasya (1.2) mā no cidann (1.19) adārasṛt (1.20) svastidā (1.21) saṃśitaṃ me (3.19) tvayā manyo (4.31) yas te manyo (4.32) etā devasenā (5.21.12) avamanyur (6.65) nirhastaḥ (6.66) pari vartmāny (6.67) abhibhūr (6.97) indro jāyaty (6.98) abhi tvendrety (6.99) aparājitāni || ity aparājitagaṇaḥ ||

वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॒ भूरि॑धायसम् । वि॒द्मो ष्व॑स्य मा॒तरं॑ पृथि॒वीं भूरि॑वर्पसम् ॥
 ज्या॑के॒ परि॑ णो न॒माश्मा॑नं त॒न्वं॑ कृधि । वी॒डुर्वरी॒यो ऽरा॑ती॒रप॒ द्वेषां॒स्या कृ॑धि ॥
वृ॒क्षं यद्गावः॑ परिषस्वजा॒ना अ॑नुस्पु॒रं श॒रं अर्च॑न्त्यृ॒भुम् । शरु॑म॒स्मद्या॑वय दि॒द्युमि॑न्द्र ॥
यथा॒ द्यां च॑ पृथि॒वीं चा॒न्तस्तिष्ठ॑ति॒ तेज॑नम् । ए॒वा रोगं॑ चास्रा॒वं चा॒न्तस्ति॑ष्ठतु॒ मुञ्ज॒ इत् ॥

मा नो॑ विदन्विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन् । आ॒राच्छ॑र॒व्या॑ अ॒स्मद्विषू॑चीरिन्द्र पातय ॥
विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः॑ । दै॑वीर्मनुष्येसवो॒ ममा॑मित्रा॒न्वि वि॑ध्यत ॥
यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति । रु॒द्रः श॑र॒व्य॑यै॒तान्ममा॒मित्रा॒न्वि वि॑ध्यतु ॥
यः स॒पत्नो॒ यो ऽस॑पत्नो॒ यश्च॑ द्वि॒षन्छपा॑ति नः । दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥

अदा॑रसृद्भवतु देव सोमा॒स्मिन्य॒ज्ञे म॑रुतो मृ॒डता॑ नः । मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ॥
यो अ॒द्य सेन्यो॑ व॒धो ऽघा॒यूना॑मु॒दीर॑ते । यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑ ॥
इ॒तश्च॒ यद॒मुत॑श्च॒ यद्व॒धं व॑रुण यावय । वि म॒हच्छर्म॑ यछ॒ वरी॑यो यावया व॒धम् ॥
शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रसा॒हो अ॑स्तृ॒तः । न यस्य॑ ह॒न्यते॒ सखा॒ न जी॒यते॑ क॒दा च॒न ॥

स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु॒ नः सो॑म॒पा अ॑भयंक॒रः ॥
वि न॒ इन्द्र॒ मृधो॑ जहि नी॒चा य॑छ पृतन्य॒तः । अ॑ध॒मं ग॑मया॒ तमो॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥
वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥
अपे॑न्द्र द्विष॒तो मनो॑ ऽप॒ जिज्या॑सतो व॒धम् । वि म॒हच्छर्म॑ यछ॒ वरी॑यो यावया व॒धम् ॥

संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्य॑१ बल॑म् । संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॑मस्मि पु॒रोहि॑तः ॥
सम॒हमे॒षां रा॒ष्ट्रं स्या॑मि॒ समोजो॑ वी॒र्य॑१ बल॑म् । वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॑ अ॒हम् ॥
नी॒चैः प॑द्यन्ता॒मध॑रे भवन्तु॒ ये नः॑ सू॒रिं म॒घवा॑नं पृत॒न्यान् । क्षि॒णामि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वान॒हम् ॥
तीक्ष्णी॑यांसः पर॒शोर॒ग्नेस्ती॒क्ष्णत॑रा उ॒त । इन्द्र॑स्य॒ वज्रा॒त्तीक्ष्णी॑यांसो॒ येषा॒मस्मि॑ पु॒रोहि॑तः ॥
ए॒षाम॒हमायु॑धा॒ सं स्या॑म्ये॒षां रा॒ष्ट्रं सु॒वीरं॑ वर्धयामि । ए॒षाम्क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒षां चि॒त्तं विश्वे॑ ऽवन्तु दे॒वाः ॥
उद्ध॑र्षन्तां मघव॒न्वाजि॑ना॒न्युद्वी॒राणां॒ जय॑तामेतु॒ घोषः॑ । पृथ॒ग्घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम् । दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥
प्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑ । ती॒क्ष्णेष॑वो ऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः ॥
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते । जय॑ अ॒मित्रा॒न्प्र प॑द्यस्व ज॒ह्ये॑षां॒ वरं॑वरं॒ मामीषां॑ मोचि॒ कश्च॒न ॥

त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणा हृषि॒तासो॑ मरुत्वन् । ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना॒ उप॒ प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥
अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि । ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥
सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मै रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् । उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयासा एकज॒ त्वम् ॥
एको॑ बहू॒नाम॑सि मन्यो ईडि॒ता विशं॑विशम्यु॒द्धाय॒ सं शि॑शाधि । अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोष॑म्विज॒याय॑ कृण्मसि ॥
वि॑जेष॒कृदिन्द्र॑ इवानवब्र॒वो ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह । प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥
आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्षि सहभूते॒ उत्त॑रम् । क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥
संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ धत्तां॒ वरु॑णश्च म॒न्युः । भियो॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑व॒ह्परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥

यस्ते॑ म॒न्यो ऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा व॒यं सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥
म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः । म॒न्युं विश॑ ईडते॒ मानु॑षी॒र्याः प॒हि नो॑ मन्यो॒ तप॑स स॒जोषाः॑ ॥
अ॒भीहि॑ मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् । अ॑मित्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥
त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वयं॒भूर्भामो॑ अभिमातिषा॒हः । वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सही॑यान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥
अ॑भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः । तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीडा॒हं स्वा त॒नूर्ब॑ल॒दावा॑ न॒ एहि॑ ॥
अ॒यं ते॑ अ॒स्म्युप॑ न॒ एह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वदावन् । मन्यो॑ वज्रिन्न॒भि न॒ आ व॑वृत्स्व॒ हना॑व॒ दस्यूं॑रु॒त बो॑ध्या॒पेः ॥
अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ नो ऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ । जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भावु॑पां॒शु प्र॑थ॒मा पि॑बाव ॥

ए॒ता दे॑वसे॒नाः सूर्य॑केतवः॒ सचे॑तसः । अ॒मित्रा॑न्नो जयन्तु॒ स्वाहा॑ ॥

अव॑ म॒न्युरवाय॒ताव॑ बा॒हू म॑नो॒युजा॑ । परा॑शर॒ त्वं तेषा॒म्परा॑ञ्चं॒ शुष्म॑मर्द॒याधा॑ नो र॒यिमा कृ॑धि ॥
निर्ह॑स्तेभ्यो नैर्ह॒स्तम्यं दे॑वाः॒ शरु॒मस्य॑थ । वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒ ऽहम् ॥
इन्द्र॑श्चकार प्रथ॒मं नै॑र्ह॒स्तमसु॑रेभ्यः । जय॑न्तु॒ सत्वा॑नो॒ मम॑ स्थि॒रेणेन्द्रे॑ण मे॒दिना॑ ॥

निर्ह॑स्तः॒ शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान् । सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ॥
आ॑तन्वा॒ना आ॒यछ॒न्तो ऽस्य॑न्तो॒ ये च॒ धाव॑थ । निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वो॒ ऽद्य परा॑शरीत् ॥
निर्ह॑स्ताः सन्तु॒ शत्र॒वो ऽङ्गै॑षां म्लापयामसि । अथै॑षामिन्द्र॒ वेदां॑सि शत॒शो वि भ॑जामहै ॥

परि॒ वर्त्मा॑नि स॒र्वत॒ इन्द्रः॑ पू॒षा च॑ सस्रतुः । मुह्य॑न्त्व॒द्यामूः सेना॑ अमित्राणां परस्त॒राम् ॥
मू॒ढा अ॒मित्रा॑श्चरताशी॒र्षाण॑ इ॒वाह॑यः । तेषां॑ वो अ॒ग्निमू॑ढाना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम् ॥
अैषु॑ नह्य॒ वृषा॒जिनं॑ हरि॒णस्य॒ भियं॑ कृधि । परा॑ङ॒मित्र॒ एष॑त्व॒र्वाची॒ गौरुपे॑षतु ॥

अ॑भि॒भूर्य॒ज्ञो अ॑भि॒भूर॒ग्निर॑भि॒भूः सोमो॑ अभि॒भूरिन्द्रः॑ । अ॒भ्य॒हं वि॑श्वाः॒ पृत॑ना॒ यथासा॑न्ये॒वा वि॑धेमा॒ग्निहो॑त्रा इ॒दं ह॒विः ॥
स्व॒धास्तु॑ मित्रावरुणा विपश्चिता प्र॒जाव॑त्क्ष॒त्रं मधु॑ने॒ह पि॑न्वतम् । बाधे॑थां दू॒रं निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत् ॥
इ॒मं वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम् । ग्रा॑म॒जितं॑ गो॒जितं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ॥

इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयातै । च॒र्कृत्य॒ ईड्यो॒ वन्द्य॑श्चोप॒सद्यो॑ नमस्य्श्भवे॒ह ॥
त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम् । त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ॥
प्राच्या॑ दि॒शस्त्वमि॑न्द्रासि॒ राजो॒तोदी॑च्या दि॒शो वृ॑त्रहन्छत्रु॒हो ऽसि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास्तज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑षि॒ हव्यः॑ ॥

अ॒भि त्वे॑न्द्र॒ वरि॑मतः पु॒रा त्वां॑हूर॒णाद्धु॑वे । ह्वया॑म्यु॒ग्रं चे॒त्तारं॑ पु॒रुणा॑मानमेक॒जम् ॥
यो अ॒द्य सेन्यो॑ व॒धो जिघां॑सन्न उ॒दीर॑ते । इन्द्र॑स्य॒ तत्र॑ बा॒हू स॑म॒न्तं परि॑ दद्मः ॥
परि॑ दद्म॒ इन्द्र॑स्य बा॒हू स॑म॒न्तं त्रा॒तुस्त्राय॑तां नः । देव॑ सवितः॒ सोम॑ राजन्सु॒मन॑सं मा कृणु स्व॒स्तये॑ ॥

(14) śarmavarmā yaḥ sapatna (1.19.4) itaś ca yad amutaś cā (1.20.3) upendra dviṣato (1.21.4) yūyaṃ naḥ pravata (1.26.3) imam agna āyuṣe (2.28.5) tisro devīr (5.3.7) uruvyacā no (5.3.8) indrasya śarmāsīti (5.6.12) (uttamāṃ varjayitvā) yena devā asurāṇām (6.7.3) anaḍudbhyas tvam (6.59.1) iti dve tanūṣ ṭe vājin (6.92.3) vājasya nu prasave (7.6.4) devānāṃ patnīr (7.49.1) adhi brūhi (8.2.7) rakṣohaṇaṃ vājinaṃ (8.3) ye srāktyaṃ (8.5.7) varma me dyāvāpṛṭhivī (8.5.18) aindrāgnaṃ varma bahulaṃ  (8.5.19) varma mahyam  ayaṃ  (10.6.2) mitraḥ pṛthivyod akrāmad (19.19) aspatnaṃ purastād  (19.16) iti śarmavarmā || iti śarmavarmā gaṇaḥ ||

यः स॒पत्नो॒ यो ऽस॑पत्नो॒ यश्च॑ द्वि॒षन्छपा॑ति नः । दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥
इ॒तश्च॒ यद॒मुत॑श्च॒ यद्व॒धं व॑रुण यावय । वि म॒हच्छर्म॑ यछ॒ वरी॑यो यावया व॒धम् ॥
अपे॑न्द्र द्विष॒तो मनो॑ ऽप॒ जिज्या॑सतो व॒धम् । वि म॒हच्छर्म॑ यछ॒ वरी॑यो यावया व॒धम् ॥
यू॒यम्नः॑ प्रवतो नपा॒न्मरु॑तः॒ सूर्य॑त्वचसः । शर्म॑ यछथ स॒प्रथाः॑ ॥
इ॒मम॒ग्ने आयु॑षे॒ वर्च॑से नय प्रि॒यं रेतो॑ वरुण मित्र राजन् । मा॒तेवा॑स्मा अदिते॒ शर्म॑ यछ॒ विश्वे॑ देवा ज॒रद॑ष्टि॒र्यथास॑त् ॥
तिस्रो॑ देवी॒र्महि॑ नः॒ शर्म॑ यछत प्र॒जायै॑ नस्त॒न्वे॑३ यच्च॑ पु॒ष्टम् । मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥
उ॑रु॒व्यचा॑ नो महि॒षः शर्म॑ यछत्व॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षु । स नः॑ प्र॒जायै॑ हर्यश्व मृ॒डेन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥

इन्द्र॑स्य शर्मासि । तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ॥
इन्द्र॑स्य॒ वर्मा॑सि । तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ॥
इन्द्र॑स्य॒ वरू॑थमसि । तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ॥

येन॑ देवा॒ असु॑राणा॒मोजां॒स्यवृ॑णीध्वम् । तेना॑ नः॒ शर्म॑ यछत ॥
अ॑न॒डुद्भ्य॒स्त्वं प्र॑थ॒मं धे॒नुभ्य॒स्त्वम॑रुन्धति । अधे॑नवे॒ वय॑से॒ शर्म॑ यछ॒ चतु॑ष्पदे ॥
त॒नूष्टे॑ वाजिन्त॒न्व॑१ नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म् । अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीव॒ ज्योति॒ह्स्वमा मि॑मीयात् ॥
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे । यस्या॑ उ॒पस्थ॑ उ॒र्व॒न्तरि॑क्षं॒ सा नः॒ शर्म॑ त्रि॒वरू॑थं॒ नि य॑छात् ॥

दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः॒ प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये । याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सु॒हवाः॒ शर्म॑ यछन्तु ॥
अधि॑ ब्रूहि॒ मा र॑भथाह्सृ॒जेमं तवै॒व सन्त्सर्व॑हायाः इ॒हास्तु॑ । भवा॑शर्वौ मृ॒डतं॒ शर्म॑ यछतमप॒सिध्य॑ दुरि॒तं ध॑त्त॒मायुः॑ ॥

रक्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥
अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः । आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒ष्ट्वापि॑ धत्स्वा॒सन् ॥
उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रौ॑ हिं॒स्रः शिशा॒नो ऽव॑रं॒ परं॑ च । उ॒तान्तरि॑क्षे॒ परि॑ याह्यग्ने॒ जम्भैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥
अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् । प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोत्वेनम् ॥
यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम् । उ॒तान्तरि॑क्षे॒ पत॑न्तं यातु॒धानं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥
य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने इवा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः । ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ग्ध्येषाम् ॥
उ॒तार॑ब्धान्त्स्पृनुहि जातवेद उ॒तारे॑भा॒णाँ ऋ॒ष्टिभि॑र्यातु॒धाना॑न् । अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः॑ ॥
इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने यातु॒धानो॒ य इ॒दं कृ॑णोति । तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ॥
ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः । हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥
नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ । तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥ 
त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ । तम॒र्चिषा॑ स्पू॒र्जय॑न्जातवेदः सम॒क्षमे॑नम्गृण॒ते नि यु॑ङ्ग्धि ॥
यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः । म॒न्योर्मन॑सः शर॒व्या॑३ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥
परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि । परा॒र्चिषा॒ मूर॑देवान्छृणीहि॒ परा॑सु॒तृपः॒ शोशु॑चतः शृणीहि ॥
परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु सृ॒ष्टाः । वा॒चास्ते॑नं॒ शर॑व ऋछन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥
यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑ । यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥
वि॒षं गवां॑ यातु॒धाना॑ भरन्ता॒मा वृ॑श्चन्ता॒मदि॑तये दु॒रेवाः॑ । परै॑णान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥
सं॑वत्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः । पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑णि ॥
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः । स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
त्वं नो॑ अग्ने अध॒रादु॑द॒क्तस्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् । प्रति॒ त्ये ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ॥
प॒श्चात्पु॒रस्ता॑दध॒रादु॒तोत्त॒रात्क॒विः काव्ये॑न॒ परि॑ पाह्यग्ने । सखा॒ सखा॑यम॒जरो॑ जरि॒म्ने अग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ॥ 
तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑पा॒रुजो॒ येन॒ पश्य॑सि यातु॒धाना॑न् । अ॑थर्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ॥
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑तः ॥
वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ स्म र॒क्षसो॑ जहि । अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिर॒र्चिभिः॑ ॥
वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्षो॑भ्यो वि॒निक्षे॑ ॥
ये ते॒ शृङ्गे॑ अ॒जरे॑ जातवेदस्ति॒ग्महे॑ती॒ ब्रह्म॑संशिते । ताभ्यां॑ दु॒र्हार्द॑मभि॒दास॑न्तं किमी॒दिनं॑ । प्र॒त्यञ्च॑म॒र्चिषा॑ जातवेदो॒ वि नि॑क्ष्व ॥
अ॒ग्नी रक्षां॑सि सेधति शु॒क्रशो॑चि॒रम॑र्त्यः । शुचिः॑ पाव॒क ईड्यः॑ ॥ 

ये स्रा॒क्त्यं म॒णिं जना॒ वर्मा॑णि कृ॒ण्वते॑ । सूर्य॑ इव॒ दिव॑मा॒रुह्य॒ वि कृ॒त्या बा॑धते व॒शी ॥
वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑ । वर्म॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ वर्म॑ धा॒ता द॑धातु मे ॥
अै॑न्द्रा॒ग्नं वर्म॑ बहु॒लं यदु॒ग्रं विश्वे॑ दे॒वा नाति॒विध्य॑न्ति॒ सर्वे॑ । तन्मे॑ त॒न्वं॑ त्रायतां स॒र्वतो॑ बृ॒हदायु॑ष्मां ज॒रद॑ष्टि॒र्यथासा॑नि ॥
वर्म॒ मह्य॑म॒यं म॒णिः पाला॑ज्जा॒तः क॑रिष्यति । पू॒र्णो म॒न्थेन॒ माग॑म॒द्रसे॑न स॒ह वर्च॑सा ॥

मि॒त्रः पृ॑थि॒व्योद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
वा॒युर॒न्तरि॑क्षे॒णोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
सूर्यो॑ दि॒वोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
च॒न्द्रमा॒ नक्ष॑त्रै॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
सोम॒ ओष॑धीभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
य॒ज्ञो दक्षि॑णाभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
स॑मु॒द्रो न॒दीभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
ब्रह्म॑ ब्रह्मचा॒रिभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
इन्द्रो॑ वी॒र्ये॑३णोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
दे॒वा अ॒मृते॒नोद॑क्रामं॒स्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
प्र॒जाप॑तिः प्र॒जाभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥

अ॑सप॒त्नं पु॒रस्ता॑त्प॒श्चान्नो॒ अभ॑यं कृतम् । स॑वि॒ता मा॑ दक्षिण॒त उ॑त्त॒रान्मा॑ शची॒पतिः॑ ॥
दि॒वो मा॑दि॒त्या र॑क्षतु॒ भूम्या॑ रक्षन्त्व॒ग्नयः॑ । इ॑न्द्रा॒ग्नी र॑क्षतां मा पु॒रस्ता॑द॒श्विना॑व॒भितः॒ शर्म॑ यछताम् । ति॑र॒श्चीन॒घ्न्या र॑क्षतु जा॒तवे॑दा भूत॒कृतो॑ मे स॒र्वतः॑ सन्तु॒ वर्म॑ ॥

(15) devapurā ye purastād (4.40) brahma jajñānaṃ (5.6.1) sahasradhāra eva (5.6.3) agnir mā pātu (19.17) agniṃ te vasuvantaṃ (19.18) mitraḥ pṛthivyod akrāmad (19.19) apa ny adhuḥ pauruṣeyaṃ vadhaṃ  (19.20) jitam asmākam (10.5.36) iti devapurīyaḥ || iti devapurīyagaṇaḥ ||

ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शो ऽभि॒दास॑न्त्य॒स्मान् । अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
ये द॑क्षिण॒तो जुह्व॑ति जातवेदो॒ दक्षि॑णाया दि॒शो ऽभि॒दास॑न्त्य॒स्मान् । य॒मं ऋ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑ना प्रतिस॒रेण॑ हन्मि ॥
ये प॒श्चाज्जुह्व॑ति जातवेदः प्र॒तीच्या॑ दि॒शो ऽभि॒दास॑न्त्य॒स्मान् । वरु॑णमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
य उ॑त्तर॒तो जुह्व॑ति जातवेद॒ उदी॑च्या दि॒शो ऽभि॒दास॑न्त्य॒स्मान् । सोम॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
ये ऽधस्ता॒ज्जुह्व॑ति जातवेद॒ उदी॑च्या दि॒शो ऽभि॒दास॑न्त्य॒स्मान् । भूमि॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
ये॑३ ऽन्तरि॑क्षा॒ज्जुह्व॑ति जातवेदो व्य॒ध्वाया॑ दि॒शो ऽभि॒दास॑न्त्य॒स्मान् । वा॒युमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
य उ॒परि॑ष्टा॒ज्जुह्व॑ति जातवेद ऊ॒र्ध्वाया॑ दि॒शो ऽभि॒दास॑न्त्य॒स्मान् । सूर्य॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
ये दि॒शाम॑न्तर्दे॒शेभ्यो॒ जुह्व॑ति जातवेदः॒ सर्वा॑भ्यो दि॒ग्भ्यो ऽभि॒दास॑न्ति अ॒स्मान् । ब्रह्म॒ र्त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥

ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥
स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ । तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ॥

अ॒ग्निर्मा॑ पातु॒ वसु॑भिः पु॒रस्ता॒त्तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
वा॒युर्मा॒न्तरि॑क्षेनै॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
सोमो॑ मा रु॒द्रैर्दक्षि॑णाया दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
वरु॑णो मादि॒त्यैरे॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मान॒म्परि॑ ददे॒ स्वाह॑ ॥
सूर्यो॑ मा॒ द्यावा॑पृथि॒वीभ्यां॑ प्र॒तीच्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
आपो॒ मौष॑धीमतीरे॒तस्या॑ दि॒शः पा॑न्तु॒ तासु॑ क्रमे॒ तासु॑ श्रये॒ तां पुरं॒ प्रैमि॑ । ता मा॑ रक्षन्तु॒ ता मा॑ गोपायन्तु॒ ताभ्य॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
वि॒श्वक॑र्मा मा सप्तऋ॒षिभि॒रुदी॑च्या दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
इन्द्रो॑ मा म॒रुत्वा॑ने॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॑ प्रैमि । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
प्र॒जाप॑तिर्मा प्र॒जन॑नवान्त्स॒ह प्र॑ति॒ष्ठया॑ ध्रु॒वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
बृह॒स्पति॑र्मा॒ विश्वै॑र्दे॒वैरू॒र्ध्वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
अ॒ग्निं ते वसु॑वन्तमृछन्तु । ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शो ऽभि॒दासा॑न् ॥
वा॒युं ते॑३ ऽन्तरि॑क्षवन्तमृछन्तु । ये मा॑घा॒यवः॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ॥
सोमं॒ ते रु॒द्रव॑न्तमृछन्तु । ये मा॑ ऽघा॒यवो॒ दक्षि॑णाया दि॒शो ऽभि॒दासा॑न् ॥
वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृछन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॑दासान् ॥
सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृछन्तु । ये मा॑घा॒यव॑ प्र॒तीच्याः॑ दि॒शो ऽभि॒दासा॑न् ॥
अ॒पस्त ओष॑धीमतीरृछन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ॥
वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृछन्तु । ये मा॑ ऽघा॒यव॒ उदी॑च्या दि॒शो ऽभि॒दासा॑न् ॥
इन्द्रं॒ ते म॒रुत्व॑न्तमृछन्तु । ये मा॑ ऽघा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ॥
प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृछन्तु । ये मा॑घा॒यवो॑ ध्रु॒वाया॑ दि॒शो ऽभि॒दासा॑न् ॥
बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृछन्तु । ये मा॑घा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शो ऽभि॒दासा॑न् ॥
मि॒त्रः पृ॑थि॒व्योद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
वा॒युर॒न्तरि॑क्षे॒णोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
सूर्यो॑ दि॒वोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
च॒न्द्रमा॒ नक्ष॑त्रै॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
सोम॒ ओष॑धीभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
य॒ज्ञो दक्षि॑णाभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
स॑मु॒द्रो न॒दीभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
ब्रह्म॑ ब्रह्मचा॒रिभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
इन्द्रो॑ वी॒र्ये॑३णोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
दे॒वा अ॒मृते॒नोद॑क्रामं॒स्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
प्र॒जाप॑तिः प्र॒जाभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ॥
अप॒ न्यधुः॒ पौरु॑षेयं व॒धं यमि॑न्द्रा॒ग्नी धा॒ता स॑वि॒ता बृह॒स्पतिः॑ । सोमो॑ राजा॒ वरु॑णो अ॒श्विना॑ य॒मः पू॒षास्मान्परि॑ पातु मृ॒त्योः ॥
यानि॑ च॒कार॒ भुव॑नस्य॒ यस्पतिः॑ प्र॒जाप॑तिर्मात॒रिश्वा॑ प्र॒जाभ्यः॑ । प्र॒दिशो॒ यानि॑ वस॒ते दिश॑श्च॒ तानि॑ मे॒ वर्मा॑णि बहु॒लानि॑ सन्तु ॥
यत्ते त॒नूष्वन॑ह्यन्त दे॒वा द्युरा॑जयो दे॒हिनः॑ । इन्द्रो॒ यच्च॒क्रे वर्म॒ तद॒स्मान्पा॑तु वि॒श्वतः॑ ॥
वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑ । वर्म॑ मे॒ विश्वे॑ दे॒वाः क्र॒न्मा मा॒ प्राप॑त्प्रतीचि॒का ॥

जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्य॑ष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः । इ॒दम॒हमा॑मुष्याय॒णस्या॒मुष्याः॑ पु॒त्रस्य॒ वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि  वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥

(16) rudro ye 'syāṃ (3.26) prācī dig (3.27) itirudragaṇaḥ || iti rudragaṇaḥ ||

(17) raudro rudra jalāṣabheṣaja (2.27.6) ye 'syāṃ prācī dig (3.26-27) ud itas trayo akraman (4.3) bhavāśarvau manve vāṃ (4.28) brahma jajñānam (4.1) anāptā ye (5.6.2) sahasradhāra eva (5.6.3) grīṣmo hemanto (6.55.2) anaḍudbhyas tvaṃ (6.59) mahyam āpo (6.61) vaiśvānaro (6.62) yamo mṛtyur (6.93) yāṃ te rudra (6.90) yo agnau rudro (7.87) bhavāśarvau mṛḍataṃ (11.2) bhavāśarvāv idaṃ brūmo (11.6.9) yas te sarpo vṛścikas (12.1.46) tasmai prācyā diśo antardeśād (15.5) iti raudragaṇaḥ || iti raudragaṇaḥ ||

रुद्र॒ जला॑षभेषज॒ नील॑शिखण्ड॒ कर्म॑कृत् ।प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥

ये॑३ ऽस्यां स्थ प्राच्यां॑ दि॒शि हे॒तयो॒ नाम॑ दे॒वास्तेषां॑ वो अ॒ग्निरि॑षवः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
ये॑३ ऽस्यां स्थ दक्षि॑णायां दि॒श्य॑वि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
ये॑३ ऽस्यां स्थ प्र॒तीच्यां॑ दि॒शि वै॑रा॒जा नाम॑ दे॒वास्तेषां॑ व॒ आप॒ इष॑वः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
ये॑३ ऽस्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात॒ इष॑वः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
ये॑३ ऽस्यां स्थ ध्रु॒वायां॑ दि॒शि नि॑लि॒म्पा नाम॑ दे॒वास्तेषां॑ व॒ ओष॑धी॒रिष॑वः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
ये॑३ ऽस्यां स्थोर्ध्वायां॑ दि॒श्यव॑स्वन्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ बृह॒स्पति॒रिष॑वः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्या इष॑वः । तेभ्यो॒ नमो ऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
दक्षि॑णा॒ दिगिन्द्रो॑ ऽधिपति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः । तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
प्र॒तीची॒ दिग्वरु॒णो ऽधि॑पतिः॒ पृदा॑कू रक्षि॒तान्न॒मिष॑वः । तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
उदी॑ची॒ दिक्सोमो ऽधि॑पतिः स्व॒जो र॑क्षि॒ताशनि॒रिष॑वः । तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
ध्रु॒वा दिग्विष्णु॒रधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता वी॒रुध॒ इष॑वः । तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यम्द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
ऊ॒र्ध्वा दिग्बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता व॒र्षमिष॑वः । तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥

उदि॒तस्त्रयो॑ अक्रमन्व्या॒घ्रः पुरु॑षो॒ वृकः॑ । हिरु॒ग्घि यन्ति॒ सिन्ध॑वो॒ हिरु॑ग्दे॒वो वन॒स्पति॒र्हिरु॑ङ्नमन्तु॒ शत्र॑वः ॥
परे॑णैतु प॒था वृकः॑ पर॒मेणो॒त तस्क॑रः । परे॑ण द॒त्वती॒ रज्जुः॒ परे॑णाघा॒युर॑र्षतु ॥
अ॒क्ष्यौ॑ च ते॒ मुखं॑ च ते॒ व्याघ्र॑ जम्भयामसि । आत्सर्वा॑न्विंश॒तिं न॒खान् ॥
व्या॒घ्रं द॒त्वतां॑ व॒यं प्र॑थ॒मं ज॑म्भयामसि । आदु॑ ष्टे॒नमथो॒ अहिं॑ यातु॒धान॒मथो॒ वृक॑म् ॥
यो अ॒द्य स्ते॒न आय॑ति॒ स संपि॑ष्टो॒ अपा॑यति । प॒थाम॑पध्वं॒सेनै॒त्विन्द्रो॒ वज्रे॑ण हन्तु॒ तम् ॥
मू॒र्णा मृ॒गस्य॒ दन्ता॒ अपि॑शीर्णा उ पृ॒ष्टयः॑ । नि॒म्रुक्ते॑ गो॒धा भ॑वतु नी॒चाय॑च्छश॒युर्मृ॒गः ॥
यत्सं॒यमो॒ न वि य॑मो॒ वि य॑मो॒ यन्न सं॒यमः॑ । इ॑न्द्र॒जाह्सो॑म॒जा आ॑थर्व॒णम॑सि व्याघ्र॒जम्भ॑नम् ॥

भवा॑शर्वौ म॒न्वे वां॒ तस्य॑ वित्तं॒ ययो॑र्वामि॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते । याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
ययो॑रभ्य॒भ्व उ॒त यद्दू॒रे चि॒द्यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स॑हस्रा॒क्षौ वृ॑त्र॒हना॑ हुवे॒हं दू॒रेग॑व्यूती स्तु॒वन्ने॑म्यु॒ग्रौ । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
यावा॑रे॒भाथे॑ ब॒हु सा॒कमग्रे॒ प्र चेदस्रा॑ष्ट्रमभि॒भां जने॑षु । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
ययो॑र्व॒धान्नाप॒पद्य॑ते॒ कश्च॒नान्तर्दे॒वेषू॒त मानु॑षेषु । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
यः कृ॑त्या॒कृन्मू॑ल॒कृद्या॑तु॒धानो॒ नि तस्मि॑न्धत्तं॒ वज्र॑मु॒ग्रौ । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
अधि॑ नो ब्रूतं॒ पृत॑नासूग्रौ॒ सं वज्रे॑ण सृजतं॒ यः कि॑मी॒दी । स्तौमि॑ भवाश॒र्वौ ना॑थि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥
इ॒यं पित्र्या॒ राष्ट्र्ये॒त्वग्रे॑ प्रथ॒माय॑ ज॒नुषे॑ भुवने॒ष्ठाः । तस्मा॑ ए॒तं सु॒रुचं॑ ह्वा॒रम॑ह्यं घ॒र्मं श्री॑णन्तु प्रथ॒माय॑ धा॒स्यवे॑ ॥
प्र यो ज॒ज्ञे वि॒द्वान॑स्य॒ बन्धु॒र्विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नि॒चैरु॒च्चैः स्व॒धा अ॒भि प्र त॑स्थौ ॥
स हि वि॒दः स पृ॑थि॒व्या ऋ॑त॒स्था म॒ही क्षेमं॒ रोद॑सी अस्कभायत् । म॒हान्म॒ही अस्क॑भाय॒द्वि जा॒तो द्यां सद्म॒ पार्थि॑वं च॒ रजः॑ ॥
स भु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ ऽभ्यग्र॒म्बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट् । अह॒र्यच्छु॒क्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्राः॑ ॥
नू॒नं तद॑स्य का॒व्यो हि॑नोति म॒हो दे॒वस्य॑ पू॒र्व्यस्य॒ धाम॑ । ए॒ष ज॑ज्ञे ब॒हुभिः॑ सा॒कमि॒त्था पूर्वे॒ अर्धे॒ विषि॑ते स॒सन्नु ॥
यो ऽथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं॒ बृह॒स्पतिं॒ नम॒साव॑ च॒ गछा॑त् । त्वं विश्वे॑षां जनि॒ता यथासः॑ क॒विर्दे॒वो न दभा॑यत्स्व॒धावा॑न् ॥

अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे । वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ॥
स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ । तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ॥

ग्री॒ष्मो हे॑म॒न्तः शिशि॑रो वस॒न्तः श॒रद्व॒र्षाः स्वि॒ते नो॑ दधात । आ नो॒ गोषु॒ भज॒ता प्र॒जायां॑ निवा॒त इद्वः॑ शर॒णे स्या॑म ॥

अ॑न॒डुद्भ्य॒स्त्वं प्र॑थ॒मं धे॒नुभ्य॒स्त्वम॑रुन्धति । अधे॑नवे॒ वय॑से॒ शर्म॑ यछ॒ चतु॑ष्पदे ॥
शर्म॑ यछ॒त्वोष॑धिः स॒ह दे॒वीर॑रुन्ध॒ती । कर॒त्पय॑स्वन्तं गो॒ष्ठम॑य॒क्ष्माँ उ॒त पूरु॑षान् ॥
वि॒श्वरू॑पां सु॒भगा॑म॒छाव॑दामि जीव॒लाम् । सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ॥

मह्य॒मापो॒ मधु॑म॒देर॑यन्तां॒ मह्यं॒ सूरो॑ अभर॒ज्ज्योति॑षे॒ कम् । मह्यं॑ दे॒वा उ॒त विश्वे॑ तपो॒जा मह्यं॑ दे॒वः स॑वि॒ता व्यचो॑ धात् ॥
अ॒हं वि॑वेच पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सा॒कम् । अ॒हं स॒त्यमनृ॑तं॒ यद्वदा॑म्य॒हं दैवीं॒ परि॒ वाच॒म्विश॑श्च ॥
अ॒हं ज॑जान पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सिन्धू॑न् । अ॒हं स॒त्वमनृ॑तं॒ यद्वदा॑मि॒ यो अ॑ग्नीषो॒मावजु॑षे॒ सखा॑या ॥

वै॑श्वान॒रो र॒श्मिभि॑र्नः पुनातु॒ वातः॑ प्रा॒णेने॑षि॒रो नभो॑भिः । द्यावा॑पृथि॒वी पय॑सा॒ पय॑स्वती ऋ॒ताव॑री यज्ञिये न पुनीताम् ॥
वै॑श्वान॒रीं सू॒नृता॒मा र॑भध्वं॒ यस्या॒ आशा॑स्त॒न्वो॑ वी॒तपृ॑ष्ठाः । तया॑ गृ॒णन्तः॑ सध॒मादे॑षु व॒यं स्या॑म॒ पत॑यो रयी॒नाम् ॥
वै॑श्वान॒रीं वर्च॑स॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः । इ॒हेड॑या सध॒मादं॒ मद॑न्तो॒ ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्तम् ॥

य॒मो मृ॒त्युर॑घमा॒रो नि॑रृ॒थो ब॒भ्रुः श॒र्वो ऽस्ता॒ नील॑शिखण्डः । दे॑वज॒नाः सेन॑योत्तस्थि॒वांस॒स्ते अ॒स्माकं॒ परि॑ वृञ्जन्तु वी॒रान् ॥
मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्त्र॑ उ॒त राज्ञे॑ भ॒वाय॑ । न॑म॒स्ये॑भ्यो॒ नम॑ एभ्यः कृणोम्य॒न्यत्रा॒स्मद॒घवि॑षा नयन्तु ॥
त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद्विश्वे॑ देवा मरुतो विश्ववेदसः । अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ॥

यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च । इ॒दं ताम॒द्य त्वद्व॒यं विषू॑चीं॒ वि वृ॑हामसि ॥
यास्ते॑ श॒तं ध॒मन॒यो ऽङ्गा॒न्यनु॒ विष्ठि॑ताः । तासां॑ ते॒ सर्वा॑साम्व॒यं निर्वि॒षाणि॑ ह्वयामसि ॥
नम॑स्ते रु॒द्रास्य॑ते॒ नमः॒ प्रति॑हितायै । नमो॑ विसृ॒ज्यमा॑नायै॒ नमो॒ निप॑तितायै ॥

यो अ॒ग्नौ रु॒द्रो यो अ॒प्स्व॒न्तर्य ओष॑धीर्वी॒रुध॑ आवि॒वेश॑ । य इ॒माविश्वा॒ भुव॑नानि चा॒क्ळृपे तस्मै॑ रु॒द्राय॒ नमो॑ अस्त्व॒ग्नये॑ ॥

भवा॑शर्वौ मृ॒डतं॒ माभि या॑तं॒ भूत॑पती॒ पशु॑पती॒ नमो॑ वाम् । प्रति॑हिता॒माय॑तां॒ मा वि स्रा॑ष्ट॒म्मा नो॑ हिंसिष्टं द्वि॒पदो॒ मा चतु॑ष्पदः ॥
शुने॑ क्रो॒ष्ट्रे मा शरी॑राणि॒ कर्त॑म॒लिक्ल॑वेभ्यो॒ गृध्रे॑भ्यो॒ ये च॑ कृ॒ष्णा अ॑वि॒ष्यवः॑ । मक्षि॑कास्ते पशुपते॒ वयां॑सि ते विघ॒से मा वि॑दन्त ॥
क्रन्दा॑य ते प्रा॒णाय॒ याश्च॑ ते भव॒ रोप॑यः । नम॑स्ते रुद्र कृण्मः सहस्रा॒क्षाया॑मर्त्य ॥
पु॒रस्ता॑त्ते॒ नमः॑ कृण्म उत्त॒राद॑ध॒रादु॒त । अ॑भीव॒र्गाद्दि॒वस्पर्य॒न्तरि॑क्षाय ते॒ नमः॑ ॥
मुखा॑य ते पशुपते॒ यानि॒ चक्षूं॑षि ते भव । त्व॒चे रू॒पाय॑ सं॒दृशे॑ प्रती॒चीना॑य ते॒ नमः॑ ॥
अङ्गे॑भ्यस्त उ॒दरा॑य जि॒ह्वाया॑ आ॒स्या॑य ते । द॒द्भ्यो ग॒न्धाय॑ ते॒ नमः॑ ॥
अस्त्रा॒ नील॑शिखण्डेन सहस्रा॒क्षेण॑ वा॒जिना॑ । रु॒द्रेणा॑र्धकघा॒तिना॒ तेन॒ मा सम॑रामहि ॥
स नो॑ भ॒वः परि॑ वृणक्तु वि॒श्वत॒ आप॑ इवा॒ग्निः परि॑ वृणक्तु नो भ॒वः । मा नो॒ ऽभि मां॑स्त॒ नमो॑ अस्त्वस्मै ॥
च॒तुर्नमो॑ अष्ट॒कृत्वो॑ भ॒वाय॒ दश॒ कृत्वः॑ पशुपते॒ नम॑स्ते । तवे॒मे पञ्च॑ प॒शवो॒ विभ॑क्ता॒ गावो॒ अश्वाः॒ पुरु॑षा अजा॒वयः॑ ॥
तव॒ चत॑स्रः प्र॒दिश॒स्तव॒ द्यौस्तव॑ पृथि॒वी तवे॒दमु॑ग्रो॒र्व॒न्तरि॑क्षम् । तवे॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णत्पृ॑थि॒वीमनु॑ ॥ 
उ॒रुः कोशो॑ वसु॒धान॒स्तवा॒यं यस्मि॑न्नि॒मा विश्वा॒ भुव॑नान्य॒न्तः । स नो॑ मृड पशुपते॒ नम॑स्ते प॒रः क्रो॒ष्टारो॑ अभि॒भाः श्वानः॑ प॒रो य॑न्त्वघ॒रुदो॑ विके॒श्यः॑ ॥
धनु॑र्बिभर्षि॒ हरि॑तं हिर॒ण्ययं॑ सहस्र॒घ्नि श॒तव॑धं शिखण्डिन् । रु॒द्रस्येषु॑श्चरति देवहे॒तिस्तस्यै॒ नमो॑ यत॒मस्यां॑ दि॒शीतः ॥
यो॒ ऽभिया॑तो नि॒लय॑ते॒ त्वां रु॑द्र नि॒चिकी॑र्षति । प॒श्चाद॑नु॒प्रयु॑ङ्क्षे॒ तं वि॒द्धस्य॑ पद॒नीरि॑व ॥
भ॑वारु॒द्रौ स॒युजा॑ संविदा॒नावु॒भावु॒ग्रौ च॑रतो वी॒र्या॑य । तभ्यां॒ नमो॑ यत॒मस्या॑म्दि॒शीतः ॥
नम॑स्ते ऽस्त्वाय॒ते नमो॑ अस्तु पराय॒ते । नम॑स्ते रुद्र॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नमः॑ ॥
नमः॑ सा॒यं नमः॑ प्रा॒तर्नमो॒ रात्र्या॒ नमो॒ दिवा॑ । भ॒वाय॑ च श॒र्वाय॑ चो॒भाभ्या॑मकरं॒ नमः॑ ॥
स॑हस्रा॒क्षम॑तिप॒श्यं पु॒रस्ता॑द्रु॒द्रमस्य॑न्तं बहु॒धा वि॑प॒श्चित॑म् । मोपा॑राम जि॒ह्वयेय॑मानम् ॥
श्या॒वाश्वं॑ कृ॒ष्णमसि॑तं मृ॒णन्तं॑ भी॒मं रथं॑ के॒शिनः॑ पा॒दय॑न्तम् । पूर्वे॒ प्रती॑मो॒ नमो॑ अस्त्वस्मै ॥
मा नो॒ ऽभि स्रा॑ म॒त्यं॑ देवहे॒तिं मा नः॑ क्रुधः पशुपते॒ नम॑स्ते । अ॒न्यत्रा॒स्मद्दि॒व्यां शाखां॒ वि धू॑नु ॥
मा नो॑ हिंसी॒रधि॑ नो ब्रूहि॒ परि॑ णो वृङ्ग्धि॒ मा क्रु॑धः । मा त्वया॒ सम॑रामहि ॥ 
मा नो॒ गोषु॒ पुरु॑षेषु॒ मा गृ॑धो नो अजा॒विषु॑ । अ॒न्यत्रो॑ग्र॒ वि व॑र्तय॒ पिया॑रूणां प्र॒जां ज॑हि ॥
यस्य॑ त॒क्मा कासि॑का हे॒तिरेक॒मश्व॑स्येव॒ वृष॑णः॒ क्रन्द॒ एति॑ । अ॑भिपू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ॥
यो॒ ऽन्तरि॑क्षे॒ तिष्ठ॑ति॒ विष्ट॑भि॒तो ऽय॑ज्वनः प्रमृ॒णन्दे॑वपी॒यून् । तस्मै॒ नमो॑ द॒शभिः॒ शक्व॑रीभिः ॥
तुभ्य॑मार॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ता हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि । तव॑ य॒क्षं प॑शुपते अ॒प्स्व॒न्तस्तुभ्यं॑ क्षरन्ति दि॒व्या आपो॑ वृ॒धे ॥
शि॑शु॒मारा॑ अजग॒राः पु॑री॒कया॑ ज॒षा मत्स्या॑ रज॒सा येभ्यो॒ अस्य॑सि । न ते॑ दू॒रं न प॑रि॒ष्ठास्ति॑ ते भव स॒द्यः सर्वा॒न्परि॑ पश्यसि॒ भूमिं॒ पूर्व॑स्माद्धं॒स्युत्त॑रस्मिन्समु॒द्रे ॥
मा नो॑ रुद्र त॒क्मना॒ मा वि॒सेण॒ मा नः॒ सं स्रा॑ दि॒व्येना॒ग्निना॑ । अ॒न्यत्रा॒स्मद्वि॒द्युतं॑ पातयै॒ताम् ॥
भ॒वो दि॒वो भ॒व ई॑शे पृथि॒व्या भ॒व आ प॑प्र उ॒र्व॒न्तरि॑क्षम् । तस्मै॒ नमो॑ यत॒मस्यां॑ दि॒शीतः ॥
भव॑ रज॒न्यज॑मानाय मृड पशू॒नां हि प॑शु॒पति॑र्ब॒भूथ॑ । यः श्र॒द्दधा॑ति॒ सन्ति॑ दे॒वा इति॒ चतु॑ष्पदे द्वि॒पदे॑ ऽस्य मृड ॥
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा नो॒ वह॑न्तमु॒त मा नो॑ वक्ष्य॒तः । मा नो॑ हिंसीः पि॒तरं॑ मा॒तरं॑ च॒ स्वां त॒न्वं॑ रुद्र॒ मा री॑रिसो नः ॥
रु॒द्रस्यै॑लबका॒रेभ्यो॑ ऽसंसूक्तगि॒लेभ्यः॑ । इ॒दं म॒हास्ये॑भ्यः॒ श्वभ्यो॑ अकरं॒ नमः॑ ॥
नम॑स्ते घो॒षिणी॑भ्यो॒ नम॑स्ते के॒शिनी॑भ्यः । नमो॒ नम॑स्कृताभ्यो॒ नमः॑ संभुञ्ज॒तीभ्यः॑ । नम॑स्ते देव॒ सेना॑भ्यः स्व॒स्ति नो॒ अभ॑यं च नः ॥

भ॑वाश॒र्वावि॒दं ब्रू॑मो रु॒द्रं प॑शु॒पति॑श्च॒ यः । इषू॒र्या ए॑षां संवि॒द्म ता नः॑ सन्तु॒ सदा॑ शि॒वाः ॥

यस्ते॑ स॒र्पो वृश्चि॑कस्तृ॒ष्टदं॑श्मा हेम॒न्तज॑ब्धो भृम॒लो गुहा॒ शये॑ । क्रिमि॒र्जिन्व॑त्पृथिवि॒ यद्य॒देज॑ति प्रा॒वृषि॒ तन्नः॒ सर्प॒न्मोप॑ सृप॒द्यच्छि॒वं तेन॑ नो मृड ॥

तस्मै॒ प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद्भ॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥  
भव॑ एनमिष्वा॒सः प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति ॥
नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
तस्मै॒ दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
श॒र्व ए॑नमिश्वा॒सो दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
तस्मै॑ प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शात्प॑शु॒पति॑मिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
प॑शु॒पति॑रेनमिष्वा॒सः प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेश॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥

तस्मै॑ ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद्रु॒द्रमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
रु॒द्र ए॑नमिष्वा॒सो ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न॑ भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
तस्मा॑ ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शान्म॑हादे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
म॑हादे॒व ए॑नमिष्वा॒स ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
तस्मै॒ सर्वे॑भ्यो अन्तर्दे॒शेभ्य॒ ईशा॑नमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
ईशा॑न एनमिष्वा॒सः सर्वे॑भ्यो अन्तर्दे॒शेभ्यो॑ ऽनुष्ठा॒तानु॑ तिष्ठति ॥
नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥ 

(18) citrāgaṇo mā no vidann (1.19) adārasṛt (1.20) svastidā viśām (1.21) amūhpāre (1.27) aghadviṣṭā (2.7) agne yat te tapa iti pañca sūktāni (2.19-23) rudra jalāṣabheṣaja (2.27.6) ye 'syāṃ (3.26) prācī dig (3.27) vi devā (3.31) uta devā (4.13) agner manva itiprabhṛtīni mṛgārasūktāny uttamaṃ varjayitvā (4.22-28) apa naḥ śośucadaghaṃ (4.33) pṛthivyām agnaye (4.39) mamāgne (5.3) brahma jajñānam anāptā ye sahasradhāre ((5.6.1-3)) savitā prasavānāṃ (5.24) nava prāṇān (5.28)

pātaṃ nas (6.3) tvaṣṭā me (6.4) yena soma (6.7) namo devavadhebhyo (6.13) abhayaṃ mitrāvaruṇā (6.32.3) upa prāgāt sahasrākṣaḥ (6.37) siṃhe vyāghre (6.38) abhayaṃ dyāvāpṛthivī (6.40) grīṣmo hemanto (6.55.2) anaḍudbhyas tvaṃ (6.59) mahyam āpo (6.61) vaiśvānaro (6.62) yamo mṛtyur (6.93) abhi tvendra (6.99) viśvajit trāyamāṇāyai (6.107) imaṃ me agne (6.111) viṣāṇā pāśān (6.121) śakadhūmaṃ (6.128) somārudreti dve (7.42.1-2) bṛhaspatir na (7.51) tyam ū ṣu (7.85) trātāram indraḥ (7.86) sutrāmā (7.6.3) ā mandrair (7.117) indra marmāṇi te (7.118)

antakāya mṛtyavā ā rabhasvā (8.1-2) ayaṃpratisaro (8.5) ayaṃ me varaṇo (10.3) bhavāśarvau mṛḍataṃ (11.2) prāṇāya namo(11.4) agniṃ brūma ity arthasūktaṃ (11.6.(half suktam)) satyaṃ bṛhad iti dve prathame (12.1.1,2) girayas te (12.1.11) yat te madhyaṃ (12.1.12) yās te prācīr (12.1.31) mā naḥ paścād (12.1.32) grīṣmas te bhūme varṣāṇy (12.1.36) upasthās te (12.1.62) bhūme mātaḥ (12.1.63) sahasraśṛṅgo vṛṣabho jātavedā  (13.1.12) mā pra gāma patho (13.1.59) yo yajñasya (13.1.60) tasmai prācyā diśo antardeśād (15.5.1 Paryaya) iti paryāyaś citrāgaṇaḥ || iti citrāgaṇaḥ ||
मा नो॑ विदन्विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन् । आ॒राच्छ॑र॒व्या॑ अ॒स्मद्विषू॑चीरिन्द्र पातय ॥
विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः॑ । दै॑वीर्मनुष्येसवो॒ ममा॑मित्रा॒न्वि वि॑ध्यत ॥
यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति । रु॒द्रः श॑र॒व्य॑यै॒तान्ममा॒मित्रा॒न्वि वि॑ध्यतु ॥
यः स॒पत्नो॒ यो ऽस॑पत्नो॒ यश्च॑ द्वि॒षन्छपा॑ति नः । दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥

अदा॑रसृद्भवतु देव सोमा॒स्मिन्य॒ज्ञे म॑रुतो मृ॒डता॑ नः । मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ॥
यो अ॒द्य सेन्यो॑ व॒धो ऽघा॒यूना॑मु॒दीर॑ते । यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑ ॥
इ॒तश्च॒ यद॒मुत॑श्च॒ यद्व॒धं व॑रुण यावय । वि म॒हच्छर्म॑ यछ॒ वरी॑यो यावया व॒धम् ॥
शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रसा॒हो अ॑स्तृ॒तः । न यस्य॑ ह॒न्यते॒ सखा॒ न जी॒यते॑ क॒दा च॒न ॥

स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु॒ नः सो॑म॒पा अ॑भयंक॒रः ॥
वि न॒ इन्द्र॒ मृधो॑ जहि नी॒चा य॑छ पृतन्य॒तः । अ॑ध॒मं ग॑मया॒ तमो॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥
वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥
अपे॑न्द्र द्विष॒तो मनो॑ ऽप॒ जिज्या॑सतो व॒धम् । वि म॒हच्छर्म॑ यछ॒ वरी॑यो यावया व॒धम् ॥

अ॒मूः पा॒रे पृ॑दा॒क्व॑स्त्रिष॒प्ता निर्ज॑रायवः । तासा॑म्ज॒रायु॑भिर्व॒यम॒क्ष्या॒वपि॑ व्ययामस्यघा॒योः प॑रिप॒न्थिनः॑ ॥
विषू॑च्येतु कृन्त॒ती पिना॑कमिव॒ बिभ्र॑ती । विष्व॑क्पुन॒र्भुवा॒ मनो ऽस॑मृद्धा अघा॒यवः॑ ॥
न ब॒हवः॒ सम॑शक॒न्नार्भ॒का अ॒भि दा॑धृषुः । वे॒णोरद्गा॑ इवा॒भितो ऽस॑मृद्धा अघा॒यवः॑ ॥
प्रेतं॑ पादौ॒ प्र स्पु॑रतं॒ वह॑तं पृण॒तो गृ॒हान् । इ॑न्द्रा॒न्ये॑तु प्रथ॒माजी॒तामु॑षिता पु॒रः ॥

अ॒घद्वि॑ष्टा दे॒वजा॑ता वी॒रुच्छ॑पथ॒योप॑नी । आपो॒ मल॑मिव॒ प्राणै॑क्षी॒त्सर्वा॒न्मच्छ॒पथाँ॒ अधि॑ ॥
यश्च॑ साप॒त्नः श॒पथो॑ जा॒म्याः श॒पथ॑श्च॒ यः । ब्र॒ह्मा यन्म॑न्यु॒तः शपा॒त्सर्वं॒ तन्नो॑ अधस्प॒दम् ॥
दि॒वो मूल॒मव॑ततं पृथि॒व्या अध्युत्त॑तम् । तेन॑ स॒हस्र॑काण्डेन॒ परि॑ णः पाहि वि॒श्वतः॑ ॥
परि॒ मां परि॑ मे प्र॒जां परि॑ णः पाहि॒ यद्धन॑म् । अरा॑तिर्नो॒ मा ता॑री॒न्मा न॑स्तारि॒शुर॒भिमा॑तयः ॥
श॒प्तार॑मेतु श॒पथो॒ यः सु॒हार्त्तेन॑ नः स॒ह । चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणीमसि ॥

अग्ने॒ यत्ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
अग्ने॒ यत्ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
अग्ने॒ यत्ते॒ ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
अग्ने॒ यत्ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
अग्ने॒ यत्ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
वायो॒ यत्ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
वायो॒ यत्ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
वायो॒ यत्ते॒ ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
वायो॒ यत्ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
वायो॒ यत्ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
सूर्य॒ यत्ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
सूर्य॒ यत्ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
सूर्य॒ यत्ते॒ ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
सूर्य॒ यत्ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
सूर्य॒ यत्ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
चन्द्र॒ यत्ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
चन्द्र॒ यत्ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
चन्द्र॒ यत्ते॒ ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
चन्द्र॒ यत्ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
चन्द्र॒ यत्ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
आपो॒ यद्व॒स्तप॒स्तेन॒ तं प्र॑ति तपत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
आपो॒ यद्व॒स्हर॒स्तेन॒ तं प्र॑ति हरत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
आपो॒ यद्व॒स्ऽर्चिस्तेन॒ तं प्र॑ति अर्चत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
आपो॒ यद्व॑स्शो॒चिस्तेन॒ तं प्र॑ति शोचत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
आपो॒ यद्व॒स्तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणुत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥

रुद्र॒ जला॑षभेषज॒ नील॑शिखण्ड॒ कर्म॑कृत् ।प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥

ये॑३ ऽस्यां स्थ प्राच्यां॑ दि॒शि हे॒तयो॒ नाम॑ दे॒वास्तेषां॑ वो अ॒ग्निरि॑षवः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
ये॑३ ऽस्यां स्थ दक्षि॑णायां दि॒श्य॑वि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
ये॑३ ऽस्यां स्थ प्र॒तीच्यां॑ दि॒शि वै॑रा॒जा नाम॑ दे॒वास्तेषां॑ व॒ आप॒ इष॑वः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
ये॑३ ऽस्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात॒ इष॑वः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
ये॑३ ऽस्यां स्थ ध्रु॒वायां॑ दि॒शि नि॑लि॒म्पा नाम॑ दे॒वास्तेषां॑ व॒ ओष॑धी॒रिष॑वः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
ये॑३ ऽस्यां स्थोर्ध्वायां॑ दि॒श्यव॑स्वन्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ बृह॒स्पति॒रिष॑वः । ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्या इष॑वः । तेभ्यो॒ नमो ऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
दक्षि॑णा॒ दिगिन्द्रो॑ ऽधिपति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः । तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
प्र॒तीची॒ दिग्वरु॒णो ऽधि॑पतिः॒ पृदा॑कू रक्षि॒तान्न॒मिष॑वः । तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
उदी॑ची॒ दिक्सोमो ऽधि॑पतिः स्व॒जो र॑क्षि॒ताशनि॒रिष॑वः । तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
ध्रु॒वा दिग्विष्णु॒रधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता वी॒रुध॒ इष॑वः । तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यम्द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
ऊ॒र्ध्वा दिग्बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता व॒र्षमिष॑वः । तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥

वि दे॒वा ज॒रसा॑वृत॒न्वि त्वम॑ग्ने॒ अरा॑त्या । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
व्यार्त्या॒ पव॑मानो॒ वि श॒क्रः पा॑पकृ॒त्यया॑ । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
वि ग्रा॒म्याः प॒शव॑ आर॒ण्यैर्व्याप॒स्तृष्ण॑यासरन् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
वी॑३ मे द्यावा॑पृथि॒वी इ॒तो वि पन्था॑नो॒ दिशं॑दिशम् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं यु॑न॒क्तीती॒दं विश्वं॒ भुव॑नं॒ वि या॑ति । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
अ॒ग्निः प्रा॒णान्त्सं द॑धाति च॒न्द्रः प्रा॒णेन॒ संहि॑तः । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
प्रा॒णेन॑ वि॒श्वतो॑वीर्यं दे॒वाः सूर्यं॒ समै॑रयन् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
आयु॑ष्मतामायु॒ष्कृतां॑ प्रा॒णेन॑ जीव॒ मा मृ॑थाः । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
प्रा॒णेन॑ प्राण॒तां प्राणे॒हैव भ॑व॒ मा मृ॑थाः । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
उदायु॑षा॒ समायु॒षोदोष॑धीनां॒ रसे॑न । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
आ प॒र्जन्य॑स्य वृ॒ष्ट्योद॑स्थामा॒मृता॑ व॒यम् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥

उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ । उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥
द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ । दक्षं॑ ते अ॒न्य आ॒वातु॒ व्य॒न्यो वा॑तु॒ यद्रपः॑ ॥
आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ । त्वं हि वि॑श्वभेषज दे॒वानां॑ दू॒त ईय॑से ॥
त्राय॑न्तामि॒मं दे॒वास्त्राय॑न्तां म॒रुतां॑ ग॒णाः । त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥
आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः । दक्षं॑ त उ॒ग्रमाभा॑रिषं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः । अ॒यं मे॑ वि॒श्वभे॑षजो॒ ऽयं शि॒वाभि॑मर्शनः ॥
हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी । अ॑नामयि॒त्नुभ्यां॒ हस्ता॑भ्यां॒ ताभ्यां॑ त्वा॒भि मृ॑शामसि ॥

अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसः॒ पाञ्च॑जन्यस्य बहु॒धा यमि॒न्धते॑ । विशो॑विशः प्रविशि॒वांस॑मीमहे॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
यथा॑ ह॒व्यं वह॑सि जातवेदो॒ यथा॑ य॒ज्ञं क॒ल्पय॑सि प्रजा॒नन् । ए॒वा दे॒वेभ्यः॑ सुम॒तिं न॒ आ व॑ह॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
याम॑न्यम॒न्नुप॑युक्तं॒ वहि॑ष्ठं॒ कर्म॑ङ्कर्म॒न्नाभ॑गम॒ग्निमी॑डे । र॑क्षो॒हणं॑ यज्ञ॒वृधं॑ घृ॒ताहु॑तं॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
सुजा॑तं जा॒तवे॑दसम॒ग्निं वै॑श्वान॒रं वि॒भुम् । ह॑व्य॒वाहं॑ हवामहे॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
येन॒ ऋष॑यो ब॒लमद्यो॑तयन्यु॒जा येनासु॑राणा॒मयु॑वन्त मा॒याः । येना॒ग्निना॑ प॒णीनिन्द्रो॑ जि॒गाय॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
येन॑ दे॒वा अ॒मृत॑म॒न्ववि॑न्द॒न्येनौष॑धी॒र्मधु॑मती॒रकृ॑ण्वन् । येन॑ दे॒वाः स्व॑१राभ॑र॒न्त्स नो॑ मुञ्च॒न्त्वंह॑सः ॥
यस्ये॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते॒ यज्जा॒तं ज॑नित॒व्यं॑ च॒ केव॑लम् । स्तौम्य॒ग्निं न॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
इन्द्र॑स्य मन्महे॒ शश्व॒दिद॑स्य मन्महे वृत्र॒घ्न स्तोमा॒ उप॑ मे॒म आगुः॑ । यो दा॒शुषः॑ सु॒कृतो॒ हव॒मेति॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
य उ॒ग्रीणा॑मु॒ग्रबा॑हुर्य॒युर्यो दा॑न॒वानां॒ बल॑मारु॒रोज॑ । येन॑ जि॒ताः सिन्ध॑वो॒ येन॒ गावः॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
यश्च॑र्षणि॒प्रो वृ॑ष॒भः स्व॒र्विद्यस्मै॒ ग्रावा॑णः प्र॒वद॑न्ति नृ॒म्णम् । यस्या॑ध्व॒रः स॒प्तहो॑ता॒ मदि॑ष्ठः॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
यस्य॑ व॒शास॑ ऋष॒भास॑ उ॒क्षणो॒ यस्मै॑ मी॒यन्ते॒ स्वर॑वः स्व॒र्विदे॑ । यस्मै॑ शु॒क्रः पव॑ते॒ ब्रह्म॑शुम्भितः॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
यस्य॒ जुष्टिं॑ सो॒मिनः॑ का॒मय॑न्ते॒ यं हव॑न्त॒ इषु॑मन्तं॒ गवि॑ष्टौ । यस्मि॑न्न॒र्कः शि॑श्रि॒ये यस्मि॒न्नोजः॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
यः प्र॑थ॒मः क॑र्म॒कृत्या॑य ज॒ज्ञे यस्य॑ वी॒र्य॑म्प्रथ॒मस्यानु॑बुद्धम् । येनोद्य॑तो॒ वज्रो॒ ऽभ्याय॒ताहिं॒ स नो॑ मुञ्च॒न्त्वंह॑सः ॥
यः सं॑ग्रा॒मान्न॑यति॒ सं यु॒धे व॒शी यः पु॒ष्टानि॑ संसृ॒जति॑ दू॒यानि॑ । स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्चन्त्वंहसः ॥
वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्वद्वि॒शथो॒ यौ च॒ रक्ष॑थः । यौ विश्व॑स्य परि॒भू ब॑भू॒वथु॒स्तौ नो॑ मुञ्च॒न्त्वंह॑सः ॥
ययोः॒ संख्या॑ता॒ वरि॑मा॒ पार्हि॑वानि॒ याभ्यां॒ रजो॑ युपि॒तम॒न्तरि॑क्षे । ययोः॑ प्रा॒यं नान्वा॑नशे॒ कश्च॒न तौ नो॑ मुञ्च॒न्त्वंह॑सः ॥
तव॑ व्र॒ते नि वि॑शन्ते॒ जना॑स॒स्त्वय्युदि॑ते॒ प्रेर॑ते चित्रभानो । यु॒वं वा॑यो सवि॒ता च॒ भुव॑नानि रक्षथ॒स्तौ नो॑ मुञ्च॒न्त्वंह॑सः ॥
अपे॒तो वा॑यो सवि॒ता च॑ दुष्कृ॒तमप॒ रक्षां॑सि॒ शिमि॑दां च सेधतम् । सं ह्यू॒र्जया॑ सृ॒जथः॒ सं बले॑न॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
र॒यिं मे॒ पोषं॑ सवि॒तोत वा॒युस्त॒नू दक्ष॒मा सु॑वतां सु॒शेव॑म् । अ॑य॒क्ष्मता॑तिं॒ मह॑ इ॒ह ध॑त्तं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
प्र सु॑म॒तिं स॑वितर्वाय ऊ॒तये॒ मह॑स्वन्तं मत्स॒रं मा॑दयाथः । अ॒र्वाग्वा॒मस्य॑ प्र॒वतो॒ नि य॑छतं॒ तौ नो॑ मुञ्च॒न्त्वंह॑सः ॥
उ॒प श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धाम॑न्नस्थिरन् । स्तौमि॑ दे॒वं स॑वि॒तारं॑ च वा॒युं तौ नो॑ मुञ्च॒न्त्वंह॑सः ॥
म॒न्वे वां॑ द्यावापृथिवी सुभोजसौ॒ सचे॑तसौ॒ ये अप्र॑थेथा॒ममि॑ता॒ योज॑नानि । प्र॑ति॒ष्ठे ह्यभ॑वतं॒ वसू॑नां॒ ते नो॑ मुञ्चत॒मंह॑सः ॥
प्र॑ति॒ष्ठे ह्यभ॑वतं॒ वसू॑नां॒ प्रवृ॑द्धे देवी सुभगे उरूची । द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
अ॑सन्ता॒पे सु॒तप॑सौ हुवे॒ ऽहमु॒र्वी ग॑म्भी॒रे क॒विभि॑र्नम॒स्ये॑ । द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
ये अ॒मृतं॑ बिभृ॒थो ये ह॒वींषि॒ ये स्रो॒त्या बि॑भृ॒थो ये म॑नु॒ष्या॑न् । द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
ये उ॒स्रिया॑ बिभृ॒थो ये वन॒स्पती॒न्ययो॑र्वां॒ विश्वा॒ भुव॑नान्य॒न्तः । द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
ये की॒लाले॑न त॒र्पय॑थो॒ ये घृ॒तेन॒ याभ्या॑मृ॒ते न किं च॒न श॑क्नु॒वन्ति॑ । द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
यन्मेदम॑भि॒शोच॑ति॒ येन॑येन वा कृ॒तं पौरु॑षेया॒न्न दैवा॑त् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मम्ह॑सः ॥
म॒रुतां॑ मन्वे॒ अधि॑ मे ब्रुवन्तु॒ प्रेमं वाजं॒ वाज॑साते अवन्तु । आ॒शूनि॑व सु॒यमा॑नह्व ऊ॒तये॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
उत्स॒मक्षि॑तं॒ व्यच॑न्ति॒ ये सदा॒ य आ॑सि॒ञ्चन्ति॒ रस॒मोष॑धीषु । पु॒रो द॑धे म॒रुतः॒ पृश्नि॑मातॄं॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ । श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
अ॒पः स॑मु॒द्राद्दिव॒मुद्व॑हन्ति दि॒वस्पृ॑थि॒वीम॒भि ये सृ॒जन्ति॑ । ये अ॒द्भिरीशा॑ना म॒रुत॑श्चरन्ति॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
ये की॒लाले॑न त॒र्पय॑न्ति॒ ये घृ॒तेन॒ ये वा॒ वयो॒ मेद॑सा संसृ॒जन्ति॑ । ये अ॒द्भिरीशा॑ना म॒रुतो॑ व॒र्षय॑न्ति॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
यदीदि॒दं म॑रुतो॒ मारु॑तेन॒ यदि॑ देवा॒ दैव्ये॑ने॒दृगार॑ । यू॒यमी॑शिध्वे वसव॒स्तस्य॒ निष्कृ॑ते॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
ति॒ग्ममनी॑कम्विदि॒तं सह॑स्व॒न्मारु॑तं॒ शर्धः॒ पृत॑नासू॒ग्रम् । स्तौमि॑ म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
भवा॑शर्वौ म॒न्वे वां॒ तस्य॑ वित्तं॒ ययो॑र्वामि॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते । याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
ययो॑रभ्य॒भ्व उ॒त यद्दू॒रे चि॒द्यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स॑हस्रा॒क्षौ वृ॑त्र॒हना॑ हुवे॒हं दू॒रेग॑व्यूती स्तु॒वन्ने॑म्यु॒ग्रौ । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
यावा॑रे॒भाथे॑ ब॒हु सा॒कमग्रे॒ प्र चेदस्रा॑ष्ट्रमभि॒भां जने॑षु । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
ययो॑र्व॒धान्नाप॒पद्य॑ते॒ कश्च॒नान्तर्दे॒वेषू॒त मानु॑षेषु । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
यः कृ॑त्या॒कृन्मू॑ल॒कृद्या॑तु॒धानो॒ नि तस्मि॑न्धत्तं॒ वज्र॑मु॒ग्रौ । याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
अधि॑ नो ब्रूतं॒ पृत॑नासूग्रौ॒ सं वज्रे॑ण सृजतं॒ यः कि॑मी॒दी । स्तौमि॑ भवाश॒र्वौ ना॑थि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
म॒न्वे वां॑ मित्रावरुणावृतावृधौ॒ सचे॑तसौ॒ द्रुह्व॑णो॒ यौ नु॒देथे॑ । प्र स॒त्यावा॑न॒मव॑थो॒ भरे॑षु॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
सचे॑तसौ॒ द्रुह्व॑णो॒ यौ नु॒देथे॒ प्र स॒त्यावा॑न॒मव॑थो॒ भरे॑षु । यौ गछ॑थो नृ॒चक्ष॑सौ ब॒भ्रुणा॑ सु॒तं तौ नो॑ मुञ्चत॒मंह॑सः ॥
यावङ्गि॑रस॒मव॑थो॒ याव॒गस्तिं॒ मित्रा॑वरुणा ज॒मद॑ग्नि॒मत्त्रि॑म् । यौ क॒श्यप॒मव॑थो॒ यौ वसि॑ष्ठं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
यौ श्या॒वाश्व॒मव॑थो वाध्र्य॒श्वं मित्रा॑वरुणा पुरुमी॒ढमत्त्रि॑म् । यौ वि॑म॒दमव॑थो स॒प्तव॑ध्रिं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
यौ भ॒रद्वा॑ज॒मव॑थो॒ यौ गवि॑ष्ठिरं वि॒श्वामि॑त्रं वरुण मित्र॒ कुत्स॑म् । यौ क॒क्षीव॑न्त॒मव॑थो॒ प्रोत कण्वं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
यौ मेधा॑तिथि॒मव॑थो॒ यौ त्रि॒शोकं॒ मित्रा॑वरुणावु॒शना॑म्का॒व्यं यौ । यौ गोत॑म॒मव॑थो॒ प्रोत मुग्द॑लं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
ययो॒ रथः॑ स॒त्यव॑र्त्म॒ र्जुर॑श्मिर्मिथु॒या चर॑न्तमभि॒याति॑ दू॒षय॑न् । स्तौमि॑ मि॒त्रावरु॑णौ नाथि॒तो जो॑हवीमि तौ नो मुञ्चत॒मंह॑सः ॥

अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒ग्ध्या र॒यिम् । अप॑ नः॒ शोशु॑चद॒घम् ॥
सु॑क्षेत्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे । अप॑ नः॒ शोशु॑चद॒घम् ॥
प्र यद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घम् ॥
प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् । अप॑ नः॒ शोशु॑चद॒घम् ॥
प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नवः॑ । अप॑ नः॒ शोशु॑चद॒घम् ॥
त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूर॑सि । अप॑ नः॒ शोशु॑चद॒घम् ॥
द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय । अप॑ नः॒ शोशु॑चद॒घम् ॥
स नः॒ सिन्धु॑मिव ना॒वाति॑ पर्ष स्व॒स्तये॑ । अप॑ नः॒ शोशु॑चद॒घम् ॥

पृ॑थि॒व्याम॒ग्नये॒ सम॑नम॒न्त्स आ॑र्ध्नोत् । यथा॑ पृथि॒व्याम॒ग्नये॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
पृ॑थि॒वी धे॒नुस्तस्या॑ अ॒ग्निर्व॒त्सः । सा मे॒ ऽग्निना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् । आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
अ॒न्तरि॑क्षे वा॒यवे॒ सम॑नम॒न्त्स आ॑र्ध्नोत् । यथा॒न्तरि॑क्षे वा॒यवे॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
अ॒न्तरि॑क्षं धे॒नुस्तस्या॑ व॒त्सः । सा मे॑ वा॒युना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् । आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
दि॒व्या॑दि॒त्याय॒ सम॑नम॒न्त्स आ॑र्ध्नोत् । यथा॑ दि॒व्या॑दि॒त्याय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
द्यौर्धे॒नुस्तस्या॑ आदि॒त्यो व॒त्सः । सा म॑ आदि॒त्येन॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् । आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
दि॒क्षु च॒न्द्राय॒ सम॑नम॒न्त्स आ॑र्ध्नोत् । यथा॑ दि॒क्षु च॒न्द्राय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
दिशो॑ धे॒नव॒स्तासां॑ च॒न्द्रो व॒त्सः । ता मे॑ च॒न्द्रेण॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहा॒मायुः॑ प्रथ॒मं प्र॒जां पोसं॑ र॒यिं स्वाहा॑ ॥
अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णाम्पु॒त्रो अ॑भिशस्ति॒पा उ॑ । न॑मस्का॒रेण॒ नम॑सा ते जुहोमि॒ मा दे॒वानां॑ मिथु॒या क॑र्म भा॒गम् ॥
हृ॒दा पू॒तम्मन॑सा जातवेदो॒ विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । स॒प्तास्या॑नि॒ तव॑ जातवेद॒स्तेभ्यो॑ जुहोमि॒ स जु॑षस्व ह॒व्यम् ॥

ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्व॑म्पुषेम । मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑ । अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥
मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामा॑या॒स्मै ॥
मह्यं॑ यजन्तां॒ मम॒ यानी॒ष्टाकू॑तिः स॒त्या मन॑सो मे अस्तु । एनो॒ मा नि गां॑ कत॒मच्च॑ना॒हं विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु मे॒ह ॥
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मयि॑ आ॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दै॒वाः होता॑रः सनिषन्न ए॒तदरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ॥
दैवीः॑ षडुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह मा॑दयध्वम् । मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ॥
तिस्रो॑ देवी॒र्महि॑ नः॒ शर्म॑ यछत प्र॒जायै॑ नस्त॒न्वे॑३ यच्च॑ पु॒ष्टम् । मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥
उ॑रु॒व्यचा॑ नो महि॒षः शर्म॑ यछत्व॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षु । स नः॑ प्र॒जायै॑ हर्यश्व मृ॒डेन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥
धा॒ता वि॑धा॒ता भुव॑नस्य॒ यस्पति॑र्दे॒वः स॑वि॒ताभि॑मातिषा॒हः । आ॑दि॒त्या रु॒द्रा अ॒श्विनो॒भा दे॒वाः पा॑न्तु॒ यज॑मानं निरृ॒थात् ॥
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामह एनान् । आ॑दि॒त्या रु॒द्रा उ॑परि॒स्पृशो॑ नो उ॒ग्रं चे॒त्तार॑मधिरा॒जम॑क्रत ॥
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः । इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे शृ॑णोत्व॒स्माक॑मभूर्हर्यश्व मे॒दी ॥

ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥
अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे । वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ॥
स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ । तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ॥

स॑वि॒ता प्र॑स॒वाना॒मधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्याम्प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
अ॒ग्निर्वन॒स्पती॑ना॒मधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
द्यावा॑पृथि॒वी दा॑तॄ॒णामधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
वरु॑णो॒ ऽपामधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
मि॒त्रावरु॑णौ वृ॒ष्ट्याधि॑पती॒ तौ मा॑वताम् । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
म॒रुतः॒ पर्व॑ताना॒मधि॑पतय॒स्ते मा॑वन्तु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
सोमो॑ वी॒रुधा॒मधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
वा॒युर॒न्तरि॑क्ष॒स्याधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
सूर्य॒श्चक्षु॑षा॒मधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
इन्द्रो॑ दि॒वो ऽधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
म॒रुतां॑ पि॒ता प॑शू॒नामधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्याम्पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
मृ॒त्युः प्र॒जाना॒मधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्याम्पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
य॒मः पि॑तॄ॒णामधि॑पतिः॒ स मा॑वतु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
पि॒तरः॒ परे॑ ते मावन्तु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
त॒ता अव॑रे ते मावन्तु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒स्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
त॒तस्त॑ताम॒हास्ते॑ मावन्तु । अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां । चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

नव॑ प्रा॒णान्न॒वभिः॒ सं मि॑मीते दीर्घायु॒त्वाय॑ श॒तशा॑रदाय । हरि॑ते॒ त्रीणि॑ रज॒ते त्रीन्यय॑सि॒ त्रीणि॒ तप॒सावि॑ष्ठितानि ॥
अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॒ दिश॑श्च । आ॑र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु ॥
त्रयः॒ पोष॑स्त्रि॒वृति॑ श्रयन्ताम॒नक्तु॑ पू॒षा पय॑सा घृ॒तेन॑ । अन्न॑स्य भू॒मा पुरु॑षस्य भू॒मा भू॒मा प॑शू॒नां त॑ इ॒ह श्र॑यन्ताम् ॥
इ॒ममा॑दित्या॒ वसु॑ना॒ समु॑क्षते॒मम॑ग्ने वर्धय ववृधा॒नः । इ॒ममि॑न्द्र॒ सं सृ॑ज वी॒र्ये॑णा॒स्मिन्त्रि॒वृच्छ्र॑यतां पोषयि॒ष्णु ॥
भूमि॑ष्ट्वा पातु॒ हरि॑तेन विश्व॒भृद॒ग्निः पि॑प॒र्त्वय॑सा स॒जोषाः॑ । वी॒रुद्भि॑ष्टे॒ अर्जु॑नं संविदा॒नं दक्षं॑ दधातु सुमन॒स्यमा॑नम् ॥
त्रे॒धा जा॒तम्जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत् । अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत्ते॒ हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ॥
त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । त्रे॒धामृत॑स्य॒ चक्ष॑णं॒ त्रीण्यायूं॑षि ते ऽकरम् ॥
त्रय॑ह्सुप॒र्णास्त्रि॒वृता॒ यदाय॑न्नेकाक्ष॒रम॑भिसं॒भूय॑ श॒क्राः । प्रत्यौ॑हन्मृ॒त्युम॒मृते॑न सा॒कम॑न्त॒र्दधा॑ना दुरि॒तानि॒ विश्वा॑ ॥
दि॒वस्त्वा॑ पातु॒ हरि॑तं॒ मध्या॑त्त्वा पा॒त्वर्जु॑नम् । भूम्या॑ अय॒स्मयं॑ पातु॒ प्रागा॑द्देवपू॒रा अ॒यम् ॥
इ॒मास्ति॒स्रो दे॑वपु॒रास्तास्त्वा॑ रक्षन्तु स॒र्वतः॑ । तास्त्वं बिभ्र॑द्वर्च॒स्व्युत्त॑रो द्विष॒तां भ॑व ॥
पुरं॑ दे॒वाना॑म॒मृतं॒ हिर॑ण्य॒म्य आ॑बे॒धे प्र॑थ॒मो दे॒वो अग्रे॑ । तस्मै॒ नमो॒ दश॒ प्राचीः॑ कृणो॒म्यनु॑ मन्यतां त्रि॒वृदा॒बधे॑ मे ॥
आ त्वा॑ चृतत्वर्य॒मा पू॒षा बृह॒स्पतिः॑ । अह॑र्जातस्य॒ यन्नाम॒ तेन॒ त्वाति॑ चृतामसि ॥
ऋ॒तुभि॑ष्ट्वार्त॒वैरायु॑षे॒ वर्च॑से त्वा । सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॒ सम्ह॑नु कृण्मसि ॥
घृ॒तादुल्लु॑प्त॒म्मधु॑ना॒ सम॑क्तं भूमिदृं॒हमच्यु॑तम्पारयि॒ष्णु । भि॒न्दत्स॒पत्ना॒नध॑रांश्च कृ॒ण्वदा मा॑ रोह मह॒ते सौभ॑गाय ॥

पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑ । अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥
पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः । पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ॥
पा॒ताम्नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम् । अपां॑ नपा॒दभि॑ह्रुती॒ गय॑स्य चि॒द्देव॑ त्वष्टर्व॒र्धय॑ स॒र्वता॑तये ॥

त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑ । पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ॥
अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑ । अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ॥
धि॒ये सम॑श्विना॒ प्राव॑तं न उरु॒ष्या ण॑ उरुज्म॒न्नप्र॑युछन् । द्यौ॑३ष्पित॑र्या॒वय॑ दु॒छुना॒ या ॥

येन॑ सो॒मादि॑तिः प॒था मि॒त्रा वा॒ यन्त्य॒द्रुहः॑ । तेना॒ नो ऽव॒सा ग॑हि ॥
येन॑ सोम साह॒न्त्यासु॑रान्र॒न्धया॑सि नः । तेना॑ नो॒ अधि॑ वोचत ॥
येन॑ देवा॒ असु॑राणा॒मोजां॒स्यवृ॑णीध्वम् । तेना॑ नः॒ शर्म॑ यछत ॥

नमो॑ देवव॒धेभ्यो॒ नमो॑ राजव॒धेभ्यः॑ । अथो॒ ये विश्या॑नां व॒धास्तेभ्यो॑ मृत्यो॒ नमो॑ ऽस्तु ते ॥
नम॑स्ते अधिवा॒काय॑ परावा॒काय॑ ते॒ नमः॑ । सु॑म॒त्यै मृ॑त्यो ते॒ नमो॑ दुर्म॒त्यै ते॑ इ॒दं नमः॑ ॥
नम॑स्ते यातु॒धाने॑भ्यो॒ नम॑स्ते भेष॒जेभ्यः॑ । नम॑स्ते मृत्यो॒ मूले॑भ्यो ब्राह्म॒णेभ्य॑ इ॒दं नमः॑ ॥

अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑ । मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥

उप॒ प्रागा॑त्सहस्रा॒क्षो यु॒क्त्वा श॒पथो॒ रथ॑म् । श॒प्तार॑मन्वि॒छन्मम॒ वृक॑ इ॒वावि॑मतो गृ॒हम् ॥
परि॑ णो वृङ्ग्धि शपथ ह्र॒दम॒ग्निरि॑वा॒ दह॑न् । श॒प्तार॒मत्र॑ नो जहि दि॒वो वृ॒क्षमि॑वा॒शनिः॑ ॥
यो नः॒ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त् । शुने॒ पेष्ट्र॑मि॒वाव॑क्षामं॒ तं प्रत्य॑स्यामि मृ॒त्यवे॑ ॥

सि॒म्हे व्या॒घ्र उ॒त या पृदा॑कौ॒ त्विषि॑र॒ग्नौ ब्रा॑ह्म॒णे सूर्ये॒ या । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ॥
या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये॒ त्विषि॑र॒प्सु गोषु॒ या पुरु॑षेषु । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ॥
रथे॑ अ॒क्षेष्वृ॑ष॒भस्य॒ वाजे॒ वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑ । इन्द्र॒म्या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ॥
रा॑ज॒न्ये॑ दुन्दु॒भावाय॑ताया॒मश्व॑स्य॒ वाजे॒ पुरु॑षस्य मा॒यौ । इन्द्र॒म्या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा सम्विदा॒ना ॥

अभ॑यं द्यावापृथिवी इ॒हास्तु॒ नो ऽभ॑यं॒ सोमः॑ सवि॒ता नः॑ कृणोतु । अभ॑यं नो ऽस्तू॒र्व॒न्तरि॑क्षं सप्तऋषी॒णां च॑ ह॒विषाभ॑यं नो अस्तु ॥
अ॒स्मै ग्रामा॑य प्र॒दिश॒श्चत॑स्र॒ ऊर्जं॑ सुभू॒तं स्व॒स्ति स॑वि॒ता नः॑ कृणोतु । अ॑श॒त्र्विन्द्रो॒ अभ॑यं नः कृणोत्व॒न्यत्र॒ राज्ञा॑म॒भि या॑तु म॒न्युः ॥
अ॑नमि॒त्रं नो॑ अध॒राद॑नमि॒त्रं न॑ उत्त॒रात् । इन्द्रा॑नमि॒त्रं नः॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ॥

ग्री॒ष्मो हे॑म॒न्तः शिशि॑रो वस॒न्तः श॒रद्व॒र्षाः स्वि॒ते नो॑ दधात । आ नो॒ गोषु॒ भज॒ता प्र॒जायां॑ निवा॒त इद्वः॑ शर॒णे स्या॑म ॥

अ॑न॒डुद्भ्य॒स्त्वं प्र॑थ॒मं धे॒नुभ्य॒स्त्वम॑रुन्धति । अधे॑नवे॒ वय॑से॒ शर्म॑ यछ॒ चतु॑ष्पदे ॥
शर्म॑ यछ॒त्वोष॑धिः स॒ह दे॒वीर॑रुन्ध॒ती । कर॒त्पय॑स्वन्तं गो॒ष्ठम॑य॒क्ष्माँ उ॒त पूरु॑षान् ॥
वि॒श्वरू॑पां सु॒भगा॑म॒छाव॑दामि जीव॒लाम् । सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ॥

मह्य॒मापो॒ मधु॑म॒देर॑यन्तां॒ मह्यं॒ सूरो॑ अभर॒ज्ज्योति॑षे॒ कम् । मह्यं॑ दे॒वा उ॒त विश्वे॑ तपो॒जा मह्यं॑ दे॒वः स॑वि॒ता व्यचो॑ धात् ॥
अ॒हं वि॑वेच पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सा॒कम् । अ॒हं स॒त्यमनृ॑तं॒ यद्वदा॑म्य॒हं दैवीं॒ परि॒ वाच॒म्विश॑श्च ॥
अ॒हं ज॑जान पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सिन्धू॑न् । अ॒हं स॒त्वमनृ॑तं॒ यद्वदा॑मि॒ यो अ॑ग्नीषो॒मावजु॑षे॒ सखा॑या ॥

वै॑श्वान॒रो र॒श्मिभि॑र्नः पुनातु॒ वातः॑ प्रा॒णेने॑षि॒रो नभो॑भिः । द्यावा॑पृथि॒वी पय॑सा॒ पय॑स्वती ऋ॒ताव॑री यज्ञिये न पुनीताम् ॥
वै॑श्वान॒रीं सू॒नृता॒मा र॑भध्वं॒ यस्या॒ आशा॑स्त॒न्वो॑ वी॒तपृ॑ष्ठाः । तया॑ गृ॒णन्तः॑ सध॒मादे॑षु व॒यं स्या॑म॒ पत॑यो रयी॒नाम् ॥
वै॑श्वान॒रीं वर्च॑स॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः । इ॒हेड॑या सध॒मादं॒ मद॑न्तो॒ ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्तम् ॥

य॒मो मृ॒त्युर॑घमा॒रो नि॑रृ॒थो ब॒भ्रुः श॒र्वो ऽस्ता॒ नील॑शिखण्डः । दे॑वज॒नाः सेन॑योत्तस्थि॒वांस॒स्ते अ॒स्माकं॒ परि॑ वृञ्जन्तु वी॒रान् ॥
मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्त्र॑ उ॒त राज्ञे॑ भ॒वाय॑ । न॑म॒स्ये॑भ्यो॒ नम॑ एभ्यः कृणोम्य॒न्यत्रा॒स्मद॒घवि॑षा नयन्तु ॥
त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद्विश्वे॑ देवा मरुतो विश्ववेदसः । अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ॥

अ॒भि त्वे॑न्द्र॒ वरि॑मतः पु॒रा त्वां॑हूर॒णाद्धु॑वे । ह्वया॑म्यु॒ग्रं चे॒त्तारं॑ पु॒रुणा॑मानमेक॒जम् ॥
यो अ॒द्य सेन्यो॑ व॒धो जिघां॑सन्न उ॒दीर॑ते । इन्द्र॑स्य॒ तत्र॑ बा॒हू स॑म॒न्तं परि॑ दद्मः ॥
परि॑ दद्म॒ इन्द्र॑स्य बा॒हू स॑म॒न्तं त्रा॒तुस्त्राय॑तां नः । देव॑ सवितः॒ सोम॑ राजन्सु॒मन॑सं मा कृणु स्व॒स्तये॑ ॥

विश्व॑जित्त्रायमा॒णायै॑ मा॒ परि॑ देहि । त्राय॑माणे द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ॥
त्राय॑माणे विश्व॒जिते॑ मा॒ परि॑ देहि । विश्व॑जिद्द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ॥
विश्व॑जित्कल्या॒ण्यै मा॒ परि॑ देहि । कल्या॑णि द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ॥
कल्या॑णि सर्व॒विदे॑ मा॒ परि॑ देहि । सर्व॑विद्द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ॥

इ॒मम्मे॑ अग्ने॒ पुरु॑षम्मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति । अतो ऽधि॑ ते कृणवद्भाग॒धेयं॑ य॒दानु॑न्मदि॒तो ऽस॑ति ॥
अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्य॑तम् । कृ॑णोमि वि॒द्वान्भे॑ष॒जं यथानु॑न्मदि॒तो ऽस॑सि ॥
दे॑वैन॒सादुन्म॑दित॒मुन्म॑त्त॒म्रक्ष॑स॒स्परि॑ । कृ॑णोमि वि॒द्वान्भे॑ष॒जं य॒दानु॑न्मदि॒तो ऽस॑ति ॥

वि॒षाणा॒ पाशा॒न्वि ष्याध्य॒स्मद्य उ॑त्त॒मा अ॑ध॒मा वा॑रु॒णा ये । दु॒ष्वप्न्यं॑ दुरि॒तं नि ष्वा॒स्मदथ॑ गछेम सुकृ॒तस्य॑ लो॒कम् ॥
यद्दारु॑णि ब॒ध्यसे॒ यच्च॒ रज्ज्वां॒ यद्भूम्यां॑ ब॒ध्यसे॒ यच्च॑ वा॒चा । अ॒यं तस्मा॒द्गार्ह॑पत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ॥
उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के । प्रेहामृत॑स्य यछतां॒ प्रैतु॑ बद्धक॒मोच॑नम् ॥
वि जि॑हीष्व लो॒कम्कृ॑णु ब॒न्धान्मु॑ञ्चासि॒ बद्ध॑कम् । योन्या॑ इव॒ प्रच्यु॑तो॒ गर्भः॑ प॒थः सर्वाँ॒ अनु॑ क्षिय ॥

श॑क॒धूमं॒ नक्ष॑त्राणि॒ यद्राजा॑न॒मकु॑र्वत । भ॑द्रा॒हम॑स्मै॒ प्राय॑छनि॒दं रा॒ष्ट्रमसा॒दिति॑ ॥
भ॑द्रा॒हं नो॑ म॒ध्यंदि॑ने भद्रा॒हं सा॒यम॑स्तु नः । भ॑द्रा॒हं नो॒ अह्नां॑ प्रा॒ता रात्री॑ भद्रा॒हम॑स्तु नः ॥
अ॑होरा॒त्राभ्यां॒ नक्ष॑त्रेभ्यः सुर्याचन्द्र॒मसा॑भ्याम् । भ॑द्रा॒हम॒स्मभ्यं॑ राज॒न्छक॑धूम॒ त्वं कृ॑धि ॥
यो नो॑ भद्रा॒हमक॑रः सा॒यं नक्त॑मथो॒ दिवा॑ । तस्मै॑ ते नक्षत्रराज॒ शक॑धूम॒ सदा॒ नमः॑ ॥

सोमा॑रुद्रा॒ वि वृ॑हतं विषूची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ । बाधे॑थां दू॒रं निरृ॑तिम्परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत् ॥
सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मद्विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस॑त्त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥

बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघ॒योः । इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरी॑यः कृणोतु ॥

त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम् । अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म् । हु॒वे नु॑ श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति न॒ इन्द्रो॑ म॒घवा॑न्कृणोतु ॥

सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् । दैवीं॒ नावं॑ स्वरि॒त्रामना॑गसो॒ अस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥

स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मदा॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु । तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः । मा त्वा॒ के चि॒द्वि य॑म॒न्विं न पा॒शिनो॑ ऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥

मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥

अन्त॑काय मृ॒त्यवे॒ नमः॑ प्रा॒ना अ॑पा॒ना इ॒ह ते॑ रमन्ताम् । इ॒हायम॑स्तु॒ पुरु॑षः स॒हासु॑ना॒ सूर्य॑स्य भा॒गे अ॒मृत॑स्य लो॒के ॥
उदे॑नं॒ भगो॑ अग्रभी॒दुदे॑नं॒ सोमो॑ अंशु॒मान् । उदे॑नं म॒रुतो॑ दे॒वा उदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
इ॒ह ते ऽसु॑रि॒ह प्रा॒ण इ॒हायु॑रि॒ह ते॒ मनः॑ । उत्त्वा॒ निरृ॑त्याः॒ पाशे॑भ्यो॒ दैव्या॑ व॒चा भ॑रामसि ॥
उत्क्रा॒मातः॑ पुरुष॒ माव॑ पत्था मृ॒त्योः पड्वी॑षमवमु॒ञ्चमा॑नः । मा छि॑त्था अ॒स्माल्लो॒काद॒ग्नेः सूर्य॑स्य सं॒दृशः॑ ॥
तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑ । सूर्य॑स्ते त॒न्वे॑३ शं त॑पाति॒ त्वाम्मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥
उ॒द्यानं॑ ते पुरुष॒ नाव॒यानं॑ जी॒वातुं॑ ते॒ दक्ष॑तातिं कृनोमि । आ हि रोहे॒मम॒मृतं॑ सु॒खं रथ॒मथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥
मा ते॒ मन॒स्तत्र॑ गा॒न्मा ति॒रो भू॒न्मा जी॒वेभ्यः॒ प्र म॑दो॒ मानु॑ गाः पि॒तॄन् । विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु त्वे॒ह ॥
मा ग॒ताना॒मा दी॑धीथा॒ ये नय॑न्ति परा॒वत॑म् । आ रो॑ह॒ तम॑सो॒ ज्योति॒रेह्या ते॒ हस्तौ॑ रभामहे ॥
श्या॒मश्च॑ त्वा॒ मा श॒बल॑श्च॒ प्रेषि॑तौ य॒मस्य॒ यौ प॑थि॒रक्षी॒ श्वानौ॑ । अ॒र्वाङेहि॒ मा वि दी॑ध्यो॒ मात्र॑ तिष्ठः॒ परा॑ङ्मनाः ॥
मैतं पन्था॒मनु॑ गा भी॒म ए॒ष येन॒ पूर्वं॒ नेयथ॒ तं ब्र॑वीमि । तम॑ ए॒तत्पु॑रुष॒ मा प्र प॑त्था भ॒यं प॒रस्ता॒दभ॑यं ते अ॒र्वाक् ॥ 
रक्ष॑न्तु त्वा॒ग्नयो॒ ये अ॒प्स्व॑१न्ता रक्ष॑तु त्वा मनु॒ष्या॑३ यमि॒न्धते॑ । वै॑श्वान॒रो र॑क्षतु जा॒तवे॑दा दि॒व्यस्त्वा॒ मा प्र धा॑ग्वि॒द्युता॑ स॒ह ॥
मा त्वा॑ क्र॒व्याद॒भि मं॑स्ता॒रात्संक॑सुकाच्चर॒ रक्ष॑तु त्वा॒ द्यौ रक्ष॑तु । पृ॑थि॒वी सूर्य॑श्च त्वा॒ रक्ष॑तां च॒न्द्रमा॑श्च । अ॒न्तरि॑क्षं रक्षतु देवहे॒त्याः ॥
बो॒धश्च॑ त्वा प्रतिबो॒धश्च॑ रक्षतामस्व॒प्नश्च॑ त्वानवद्रा॒णश्च॑ रक्षताम् । गो॑पा॒यंश्च॑ त्वा॒ जागृ॑विश्च रक्षताम् ॥
ते त्वा॑ रक्षन्तु॒ ते त्वा॑ गोपायन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॑ ॥
जी॒वेभ्य॑स्त्वा स॒मुदे॑ वा॒युरिन्द्रो॑ धा॒ता द॑धातु सवि॒ता त्राय॑माणः । मा त्वा॑ प्रा॒णो बलं॑ हासी॒दसुं॒ ते ऽनु॑ ह्वयामसि ॥
मा त्वा॑ ज॒म्भः संह॑नु॒र्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिस्प्र॑म॒युः क॒था स्याः॑ । उत्त्वा॑दि॒त्या वस॑वो भर॒न्तूदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
उत्त्वा॒ द्यौरुत्पृ॑थि॒व्युत्प्र॒जाप॑तिरग्रभीत् । उत्त्वा॑ मृ॒त्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन् ॥
अ॒यं दे॑वा इ॒हैवास्त्व॒यं मामुत्र॑ गादि॒तः । इ॒मं स॒हस्र॑वीर्येण मृ॒त्योरुत्पा॑रयामसि ॥
उत्त्वा॑ मृ॒त्योर॑पीपरं॒ सं ध॑मन्तु वयो॒धसः॑ । मा त्वा॑ व्यस्तके॒श्यो॑३ मा त्वा॑घ॒रुदो॑ रुदन् ॥
आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः ।  सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च ते ऽविदम् ॥
व्य॑वात्ते॒ ज्योति॑रभू॒दप॒ त्वत्तमो॑ अक्रमीत् । अप॒ त्वन्मृ॒त्युं निरृ॑ति॒मप॒ यक्ष्मं॒ नि द॑ध्मसि ॥
आ र॑भस्वे॒माम॒मृत॑स्य॒ श्नुष्टि॒मछि॑द्यमाना ज॒रद॑ष्टिरस्तु ते । असुं॑ त॒ आयुः॒ पुन॒रा भ॑रामि॒ रज॒स्तमो॒ मोप॑ गा॒ मा प्र मे॑ष्ठाह् ॥
जीव॑तां॒ ज्योति॑र॒भ्येह्य॒र्वाङा त्वा॑ हरामि श॒तशा॑रदाय । अ॑वमु॒ञ्चन्मृ॑त्युपा॒शानश॑स्तिं॒ द्राघी॑य॒ आयुः॑ प्रत॒रं ते॑ दधामि ॥
वाता॑त्ते प्रा॒नम॑विदं॒ सूर्या॒च्चक्षु॑र॒हं तव॑ । यत्ते॒ मन॒स्त्वयि॒ तद्धा॑रयामि॒ सं वि॒त्स्वाङ्गै॒र्वद॑ जि॒ह्वयाल॑पन् ॥
प्रा॒णेन॑ त्वा द्वि॒पदां॒ चतु॑ष्पदाम॒ग्निमि॑व जा॒तम॒भि सं ध॑मामि । नम॑स्ते मृत्यो॒ चक्षु॑षे॒ नमः॑ प्रा॒णाय॑ ते ऽकरम् ॥
अ॒यं जी॑वतु॒ मा मृ॑ते॒मं समी॑रयामसि । कृ॒णोम्य॑स्मै भेष॒जं मृत्यो॒ मा पुरु॑षं वधीः ॥
जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम् । त्रा॑यमा॒णां सह॑मानां॒ सह॑स्वतीमि॒ह हु॑वे॒ ऽस्मा अ॑रि॒ष्टता॑तये ॥
अधि॑ ब्रूहि॒ मा र॑भथाह्सृ॒जेमं तवै॒व सन्त्सर्व॑हायाः इ॒हास्तु॑ । भवा॑शर्वौ मृ॒डतं॒ शर्म॑ यछतमप॒सिध्य॑ दुरि॒तं ध॑त्त॒मायुः॑ ॥
अ॒स्मै मृ॑त्यो॒ अधि॑ ब्रूही॒मं द॑य॒स्वोदि॒तो ऽयमे॑तु । अरि॑ष्टः॒ सर्वा॑ङ्गः सु॒श्रुज्ज॒रसा॑ श॒तहा॑यन आ॒त्मना॒ भुज॑मश्नुताम् ॥
दे॒वानां॑ हे॒तिह्परि॑ त्वा वृणक्तु पा॒रया॑मि त्वा॒ रज॑स॒ उत्त्वा॑ मृ॒त्योर॑पीपरम् । आ॒राद॒ग्निं क्र॒व्यादं॑ नि॒रूहं॑ जी॒वात॑वे ते परि॒धिं द॑धामि ॥
यत्ते॑ नि॒यानं॑ रज॒सं मृत्यो॑ अनवध॒र्ष्य॑म् । प॒थ इ॒मं तस्मा॒द्रक्ष॑न्तो॒ ब्रह्मा॑स्मै॒ वर्म॑ कृण्मसि ॥ 
कृ॒णोमि॑ ते प्राणापा॒नौ ज॒रां मृ॒त्युं दी॒र्घमायुः॑ स्व॒स्ति । वै॑वस्व॒तेन॒ प्रहि॑तान्यमदू॒तांश्च॑र॒तो ऽप॑ सेधामि॒ सर्वा॑न् ॥
आ॒रादरा॑तिं॒ निरृ॑तिं प॒रो ग्राहिं॑ क्र॒व्यादः॑ पिशा॒चान् । रक्षो॒ यत्सर्वं॑ दुर्भू॒तं तत्तम॑ इ॒वाप॑ हन्मसि ॥
अ॒ग्नेष्ट॑ प्रा॒नम॒मृता॒दायु॑ष्मतो वन्वे जा॒तवे॑दसः । यथा॒ न रिष्या॑ अ॒मृतः॑ स॒जूरस॒स्तत्ते॑ कृणोमि॒ तदु॑ ते॒ समृ॑ध्यताम् ॥
शि॒वे ते॑ स्तां॒ द्यावा॑पृथि॒वी अ॑संता॒पे अ॑भि॒श्रियौ॑ । शं ते॒ सूर्य॒ आ त॑पतु॒ शं वातो॑ वातु ते हृ॒दे । शि॒वा अ॒भि क्ष॑रन्तु॒ त्वापो॑ दि॒व्याः पय॑स्वतीः ॥
शि॒वास्ते॑ स॒न्त्वोष॑धय॒ उत्त्वा॑हार्ष॒मध॑रस्या॒ उत्त॑रां पृथि॒वीम॒भि । तत्र॑ त्वादि॒त्यौ र॑क्षतां सूर्याचन्द्र॒मसा॑वु॒भा ॥
यत्ते॒ वासः॑ परि॒धानं॒ यां नी॒विं कृ॑णु॒षे त्वम् । शि॒वं ते॑ त॒न्वे॑३ तत्कृ॑ण्मः संस्प॒र्शे ऽद्रू॑क्ष्णमस्तु ते ॥
यत्क्षु॒रेण॑ म॒र्चय॑ता सुते॒जसा॒ वप्ता॒ वप॑सि केशश्म॒श्रु । शुभं॒ मुखं॒ मा न॒ आयुः॒ प्र मो॑षीः ॥
शि॒वौ ते॑ स्तां व्रीहिय॒वाव॑बला॒साव॑दोम॒धौ । ए॒तौ यक्ष्मं॒ वि बा॑धेते ए॒तौ मु॑ञ्चतो॒ अम्ह॑सः ॥
यद॒श्नासि॒ यत्पि॑बसि धा॒न्यं॑ कृ॒ष्याः पयः॑ । यदा॒द्य॑१ यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ॥
अह्ने॑ च त्वा॒ रात्र॑ये चो॒भाभ्यां॒ परि॑ दद्मसि । अ॒राये॑भ्यो जिघ॒त्सुभ्य॑ इ॒मं मे॒ परि॑ रक्षत ॥ 
श॒तं ते॒ ऽयुतं॑ हाय॒नान्द्वे यु॒गे त्रीणि॑ च॒त्वारि॑ कृण्मः । इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते ऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥
श॒रदे॑ त्वा हेम॒न्ताय॑ वस॒न्ताय॑ ग्री॒ष्माय॒ परि॑ दद्मसि । व॒र्षाणि॒ तुभ्यं॑ स्यो॒नानि॒ येषु॒ वर्ध॑न्त॒ ओष॑धीः ॥
मृ॒त्युरी॑शे द्वि॒पदां॑ मृ॒त्युरी॑शे॒ चतु॑ष्पदाम् । तस्मा॒त्त्वां मृ॒त्योर्गोप॑ते॒रुद्भ॑रामि॒ स मा बि॑भेः ॥
सो ऽरि॑ष्ट॒ न म॑रिष्यसि॒ न म॑रिष्यसि॒ मा बि॑भेः । न वै तत्र॑ म्रियन्ते॒ नो य॑न्ति अध॒मं तमः॑ ॥
सर्वो॒ वै तत्र॑ जीवति॒ गौरश्वः॒ पुरु॑षः प॒शुः । यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कम् ॥
परि॑ त्वा पातु समा॒नेभ्यो॑ ऽभिचा॒रात्सब॑न्धुभ्यः । अम॑म्रिर्भवा॒मृतो॑ ऽतिजी॒वो मा ते॑ हासिषु॒रस॑वः॒ शरी॑रम् ॥
ये मृ॒त्यव॒ एक॑शतं॒ या ना॒ष्ट्रा अ॑तिता॒र्याः॑ । मु॒ञ्चन्तु॒ तस्मा॒त्त्वां दे॒वा अ॒ग्नेर्वै॑श्वान॒रादधि॑ ॥
अ॒ग्नेः शरी॑रमसि पारयि॒ष्णु र॑क्षो॒हासि॑ सपत्न॒हा । अथो॑ अमीव॒चात॑नः पू॒तुद्रु॒र्नाम॑ भेष॒जम् ॥

अ॒यं प्र॑तिस॒रो म॒णिर्वी॒रो वी॒राय॑ बध्यते । वी॒र्य॑वान्त्सपत्न॒हा शूर॑वीरः परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
अ॒यं म॒णिः स॑पत्न॒हा सु॒वीरः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः । प्र॒त्यक्कृ॒त्या दू॒षय॑न्नेति वी॒रः ॥
अ॒नेनेन्द्रो॑ म॒णिना॑ वृ॒त्रम॑हन्न॒नेनासु॑रा॒न्परा॑भावयन्मनी॒षी । अ॒नेना॑जय॒द्द्यावा॑पृथि॒वी उ॒भे इ॒मे अ॒नेना॑जयत्प्र॒दिश॒श्चत॑स्रः ॥
अ॒यं स्रा॒क्त्यो म॒णिः प्र॑तीव॒र्तः प्र॑तिस॒रः । ओज॑स्वान्विमृ॒धो व॒शी सो अ॒स्मान्पा॑तु स॒र्वतः॑ ॥
तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पतिः॑ सवि॒ता तदिन्द्रः॑ । ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥
अ॒न्तर्द॑धे॒ द्यावा॑पृथि॒वी उ॒ताह॑रु॒त सूर्य॑म् । ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥
ये स्रा॒क्त्यं म॒णिं जना॒ वर्मा॑णि कृ॒ण्वते॑ । सूर्य॑ इव॒ दिव॑मा॒रुह्य॒ वि कृ॒त्या बा॑धते व॒शी ॥
स्रा॒क्त्येन॑ म॒णिना॒ ऋषि॑णेव मनी॒षिणा॑ । अजै॑षं॒ सर्वाः॒ पृत॑ना॒ वि मृधो॑ हन्मि र॒क्षसः॑ ॥
याः कृ॒त्या आ॑ङ्गिर॒सीर्याः कृ॒त्या आ॑सु॒रीर्याः । कृ॒त्याः स्व॒यंकृ॑ता॒ या उ॑ चा॒न्येभि॒राभृ॑ताः । उ॒भयी॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तिं ना॒व्या॑३ अति॑ ॥
अ॒स्मै म॒णिं वर्म॑ बध्नन्तु दे॒वा इन्द्रो॒ विष्णुः॑ सवि॒ता रु॒द्रो अ॒ग्निः । प्र॒जाप॑तिः परमे॒ष्ठी वि॒राड्वै॑श्वान॒र ऋष॑यश्च॒ सर्वे॑ ॥
उत्त॒मो अ॒स्योष॑धीनामन॒ड्वान्जग॑तामिव व्या॒घ्रः श्वप॑दामिव । यमैछा॒मावि॑दाम॒ तं प्र॑ति॒स्पाश॑न॒मन्ति॑तम् ॥
स इद्व्या॒घ्रो भ॑व॒त्यथो॑ सिं॒हो अथो॒ वृषा॑ । अथो॑ सपत्न॒कर्श॑नो॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
नैनं॑ घ्नन्त्यप्स॒रसो॒ न ग॑न्ध॒र्वा न मर्त्याः॑ । सर्वा॒ दिशो॒ वि रा॑जति॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
क॒श्यप॒स्त्वाम॑सृजत क॒श्यप॑स्त्वा॒ समै॑रयत् । अबि॑भ॒स्त्वेन्द्रो॒ मानु॑षे॒ बिभ्र॑त्संश्रेषि॒णे ऽज॑यत् । म॒णिं स॒हस्र॑वीर्यं॒ वर्म॑ दे॒वा अ॑कृण्वत ॥
यस्त्वा॑ कृ॒त्याभि॒र्यस्त्वा॑ दी॒क्षाभि॑र्य॒ज्ञैर्यस्त्वा॒ जिघां॑सति । प्र॒त्यक्त्वमि॑न्द्र॒ तं ज॑हि॒ वज्रे॑ण श॒तप॑र्वणा ॥
अ॒यमिद्वै प्र॑तीव॒र्त ओज॑स्वान्संज॒यो म॒णिः । प्र॒जां धनं॑ च रक्षतु परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
अ॑सप॒त्नं नो॑ अध॒राद॑सप॒त्नं न॑ उत्त॒रात् । इन्द्रा॑सप॒त्नं नः॑ प॒श्चाज्ज्योतिः॑ शूर पु॒रस्कृ॑धि ॥
वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑ । वर्म॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ वर्म॑ धा॒ता द॑धातु मे ॥
अै॑न्द्रा॒ग्नं वर्म॑ बहु॒लं यदु॒ग्रं विश्वे॑ दे॒वा नाति॒विध्य॑न्ति॒ सर्वे॑ । तन्मे॑ त॒न्वं॑ त्रायतां स॒र्वतो॑ बृ॒हदायु॑ष्मां ज॒रद॑ष्टि॒र्यथासा॑नि ॥
आ मा॑रुक्षद्देवम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये । इ॒मं मे॒थिम॑भि॒संवि॑शध्वं तनू॒पानं॑ त्रि॒वरू॑थ॒मोज॑से ॥
अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम् । दी॑र्घायु॒त्वाय॑ श॒तशा॑रदा॒यायु॑ष्मान्ज॒रद॑ष्टि॒र्यथास॑त् ॥
स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी । इन्द्रो॑ बध्नातु ते म॒णिं जि॑गी॒वाँ अप॑राजितः । सो॑म॒पा अ॑भयङ्क॒रो वृषा॑ । स त्वा॑ रक्षतु स॒र्वतो॒ दिवा॒ नक्तं॑ च वि॒श्वतः॑ ॥

अ॒यं मे॑ वर॒णो म॒णिः स॑पत्न॒क्षय॑णो॒ वृषा॑ । ते॒ना र॑भस्व॒ त्वं शत्रू॒न्प्र मृ॑णीहि दुरस्य॒तः ॥
प्रैणा॑न्छृणीहि॒ प्र मृ॒णा र॑भस्व म॒णिस्ते॑ अस्तु पुरए॒ता पु॒रस्ता॑त् । अवा॑रयन्त वर॒णेन॑ दे॒वा अ॑भ्याचा॒रमसु॑राणां॒ श्वःश्वः॑ ॥
अ॒यं म॒णिर्व॑र॒णो वि॒श्वभे॑षजः सहस्रा॒क्षो हरि॑तो हिर॒ण्ययः॑ । स ते॒ शत्रू॒नध॑रान्पादयाति॒ पूर्व॒स्तान्द॑भ्नुहि॒ ये त्वा॑ द्वि॒षन्ति॑ ॥
अ॒यं ते॑ कृ॒त्यां वित॑ता॒म्पौरु॑षेयाद॒यं भ॒यात् । अ॒यं त्वा॒ सर्व॑स्मात्पा॒पाद्व॑र॒णो वा॑रयिष्यते ॥
व॑र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑ । यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ॥
स्वप्नं॑ सु॒प्त्वा यदि॒ पश्या॑सि पा॒पं मृ॒गः सृ॒तिं यति॒ धावा॒दजु॑ष्टाम् । प॑रिक्ष॒वाच्छ॒कुनेः॑ पापवा॒दाद॒यं म॒णिर्व॑र॒णो वा॑रयिष्यते ॥
अरा॑त्यास्त्वा॒ निरृ॑त्या अभिचा॒रादथो॑ भ॒यात् । मृ॒त्योरोजी॑यसो व॒धाद्व॑र॒णो वा॑रयिष्यते ॥
यन्मे॑ मा॒ता यन्मे॑ पि॒ता भ्रात॑रो॒ यच्च॑ मे॒ स्वा यदेन॑श्चकृ॒मा व॒यम् । ततो॑ नो वारयिष्यते॒ ऽयं दे॒वो वन॒स्पतिः॑ ॥
व॑र॒णेन॒ प्रव्य॑थिता॒ भ्रातृ॑व्या मे॒ सब॑न्धवः । अ॒सूर्तं॒ रजो॒ अप्य॑गु॒स्ते य॑न्त्वध॒मं तमः॑ ॥
अरि॑ष्टो॒ ऽहमरि॑ष्टगु॒रायु॑ष्मा॒न्त्सर्व॑पूरुषः । तम्मा॒यं व॑र॒णो म॒णिः परि॑ पातु दि॒शोदि॑शः ॥ 
अ॒यं मे॑ वर॒ण उर॑सि॒ राजा॑ दे॒वो वन॒स्पतिः॑ । स मे॒ शत्रू॒न्वि बा॑धता॒मिन्द्रो॒ दस्यू॑नि॒वासु॑रान् ॥
इ॒मं बि॑भर्मि वर॒णमायु॑ष्मान्छ॒तशा॑रदः । स मे॑ रा॒ष्ट्रं च॑ क्ष॒त्रं च॑ प॒शूनोज॑श्च मे दधत् ॥
यथा॒ वातो॒ वन॒स्पती॑न्वृ॒क्षान्भ॒नक्त्योज॑सा । ए॒वा स॒पत्ना॑न्मे भङ्ग्धि॒ पूर्वा॑न्जा॒ताँ उ॒ताप॑रान्वर॒णस्त्वा॒भि र॑क्षतु ॥
यथा॒ वात॑श्चा॒ग्निश्च॑ वृ॒क्षान्प्सा॒तो वन॒स्पती॑न् । ए॒वा स॒पत्ना॑न्मे प्साहि॒ पूर्वा॑न्जा॒ताँ उ॒ताप॑रान्वर॒णस्त्वा॒भि र॑क्षतु ॥
यथा॒ वाते॑न॒ प्रक्षी॑णा वृ॒क्षाः शेरे॒ न्य॑र्पिताः । ए॒वा स॒पत्नां॒स्त्वं मम॒ प्र क्षि॑णीहि॒ न्य॑र्पय । पूर्वा॑न्जा॒ताँ उ॒ताप॑रान्वर॒णस्त्वा॒भि र॑क्षतु ॥
तांस्त्वं प्र छि॑न्द्धि वरण पु॒रा दि॒ष्टात्पु॒रायु॑षः । य ए॑नं प॒शुषु॒ दिप्स॑न्ति॒ ये चा॑स्य राष्ट्रदि॒प्सवः॑ ॥
यथा॒ सूर्यो॑ अति॒भाति॒ यथा॑स्मि॒न्तेज॒ आहि॑तम् । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु । तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
यथा॒ यश॑श्च॒न्द्रम॑स्यादि॒त्ये च॑ नृ॒चक्ष॑सि । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु । तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
यथा॒ यशः॑ पृथि॒व्यां यथा॒स्मिन्जा॒तवे॑दसि । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु । तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
यथा॒ यशः॑ क॒न्या॑यां॒ यथा॒स्मिन्त्संभृ॑ते॒ रथे॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु । तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥ 
यथा॒ यशः॑ सोमपी॒थे म॑धुप॒र्के यथा॒ यशः॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु । तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
यथा॒ यशो॑ ऽग्निहो॒त्रे व॑षट्का॒रे यथा॒ यशः॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु । तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
यथा॒ यशो॒ यज॑माने॒ यथा॒स्मिन्य॒ज्ञ आहि॑तम् । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु । तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
यथा॒ यशः॑ प्र॒जाप॑तौ॒ यथा॒स्मिन्प॑रमे॒ष्ठिनि॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु । तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
यथा॑ दे॒वेष्व॒मृतं॒ यथै॑षु स॒त्यमाहि॑तम् । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु । तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥ 

भवा॑शर्वौ मृ॒डतं॒ माभि या॑तं॒ भूत॑पती॒ पशु॑पती॒ नमो॑ वाम् । प्रति॑हिता॒माय॑तां॒ मा वि स्रा॑ष्ट॒म्मा नो॑ हिंसिष्टं द्वि॒पदो॒ मा चतु॑ष्पदः ॥
शुने॑ क्रो॒ष्ट्रे मा शरी॑राणि॒ कर्त॑म॒लिक्ल॑वेभ्यो॒ गृध्रे॑भ्यो॒ ये च॑ कृ॒ष्णा अ॑वि॒ष्यवः॑ । मक्षि॑कास्ते पशुपते॒ वयां॑सि ते विघ॒से मा वि॑दन्त ॥
क्रन्दा॑य ते प्रा॒णाय॒ याश्च॑ ते भव॒ रोप॑यः । नम॑स्ते रुद्र कृण्मः सहस्रा॒क्षाया॑मर्त्य ॥
पु॒रस्ता॑त्ते॒ नमः॑ कृण्म उत्त॒राद॑ध॒रादु॒त । अ॑भीव॒र्गाद्दि॒वस्पर्य॒न्तरि॑क्षाय ते॒ नमः॑ ॥
मुखा॑य ते पशुपते॒ यानि॒ चक्षूं॑षि ते भव । त्व॒चे रू॒पाय॑ सं॒दृशे॑ प्रती॒चीना॑य ते॒ नमः॑ ॥
अङ्गे॑भ्यस्त उ॒दरा॑य जि॒ह्वाया॑ आ॒स्या॑य ते । द॒द्भ्यो ग॒न्धाय॑ ते॒ नमः॑ ॥
अस्त्रा॒ नील॑शिखण्डेन सहस्रा॒क्षेण॑ वा॒जिना॑ । रु॒द्रेणा॑र्धकघा॒तिना॒ तेन॒ मा सम॑रामहि ॥
स नो॑ भ॒वः परि॑ वृणक्तु वि॒श्वत॒ आप॑ इवा॒ग्निः परि॑ वृणक्तु नो भ॒वः । मा नो॒ ऽभि मां॑स्त॒ नमो॑ अस्त्वस्मै ॥
च॒तुर्नमो॑ अष्ट॒कृत्वो॑ भ॒वाय॒ दश॒ कृत्वः॑ पशुपते॒ नम॑स्ते । तवे॒मे पञ्च॑ प॒शवो॒ विभ॑क्ता॒ गावो॒ अश्वाः॒ पुरु॑षा अजा॒वयः॑ ॥
तव॒ चत॑स्रः प्र॒दिश॒स्तव॒ द्यौस्तव॑ पृथि॒वी तवे॒दमु॑ग्रो॒र्व॒न्तरि॑क्षम् । तवे॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णत्पृ॑थि॒वीमनु॑ ॥ 
उ॒रुः कोशो॑ वसु॒धान॒स्तवा॒यं यस्मि॑न्नि॒मा विश्वा॒ भुव॑नान्य॒न्तः । स नो॑ मृड पशुपते॒ नम॑स्ते प॒रः क्रो॒ष्टारो॑ अभि॒भाः श्वानः॑ प॒रो य॑न्त्वघ॒रुदो॑ विके॒श्यः॑ ॥
धनु॑र्बिभर्षि॒ हरि॑तं हिर॒ण्ययं॑ सहस्र॒घ्नि श॒तव॑धं शिखण्डिन् । रु॒द्रस्येषु॑श्चरति देवहे॒तिस्तस्यै॒ नमो॑ यत॒मस्यां॑ दि॒शीतः ॥
यो॒ ऽभिया॑तो नि॒लय॑ते॒ त्वां रु॑द्र नि॒चिकी॑र्षति । प॒श्चाद॑नु॒प्रयु॑ङ्क्षे॒ तं वि॒द्धस्य॑ पद॒नीरि॑व ॥
भ॑वारु॒द्रौ स॒युजा॑ संविदा॒नावु॒भावु॒ग्रौ च॑रतो वी॒र्या॑य । तभ्यां॒ नमो॑ यत॒मस्या॑म्दि॒शीतः ॥
नम॑स्ते ऽस्त्वाय॒ते नमो॑ अस्तु पराय॒ते । नम॑स्ते रुद्र॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नमः॑ ॥
नमः॑ सा॒यं नमः॑ प्रा॒तर्नमो॒ रात्र्या॒ नमो॒ दिवा॑ । भ॒वाय॑ च श॒र्वाय॑ चो॒भाभ्या॑मकरं॒ नमः॑ ॥
स॑हस्रा॒क्षम॑तिप॒श्यं पु॒रस्ता॑द्रु॒द्रमस्य॑न्तं बहु॒धा वि॑प॒श्चित॑म् । मोपा॑राम जि॒ह्वयेय॑मानम् ॥
श्या॒वाश्वं॑ कृ॒ष्णमसि॑तं मृ॒णन्तं॑ भी॒मं रथं॑ के॒शिनः॑ पा॒दय॑न्तम् । पूर्वे॒ प्रती॑मो॒ नमो॑ अस्त्वस्मै ॥
मा नो॒ ऽभि स्रा॑ म॒त्यं॑ देवहे॒तिं मा नः॑ क्रुधः पशुपते॒ नम॑स्ते । अ॒न्यत्रा॒स्मद्दि॒व्यां शाखां॒ वि धू॑नु ॥
मा नो॑ हिंसी॒रधि॑ नो ब्रूहि॒ परि॑ णो वृङ्ग्धि॒ मा क्रु॑धः । मा त्वया॒ सम॑रामहि ॥ 
मा नो॒ गोषु॒ पुरु॑षेषु॒ मा गृ॑धो नो अजा॒विषु॑ । अ॒न्यत्रो॑ग्र॒ वि व॑र्तय॒ पिया॑रूणां प्र॒जां ज॑हि ॥
यस्य॑ त॒क्मा कासि॑का हे॒तिरेक॒मश्व॑स्येव॒ वृष॑णः॒ क्रन्द॒ एति॑ । अ॑भिपू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ॥
यो॒ ऽन्तरि॑क्षे॒ तिष्ठ॑ति॒ विष्ट॑भि॒तो ऽय॑ज्वनः प्रमृ॒णन्दे॑वपी॒यून् । तस्मै॒ नमो॑ द॒शभिः॒ शक्व॑रीभिः ॥
तुभ्य॑मार॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ता हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि । तव॑ य॒क्षं प॑शुपते अ॒प्स्व॒न्तस्तुभ्यं॑ क्षरन्ति दि॒व्या आपो॑ वृ॒धे ॥
शि॑शु॒मारा॑ अजग॒राः पु॑री॒कया॑ ज॒षा मत्स्या॑ रज॒सा येभ्यो॒ अस्य॑सि । न ते॑ दू॒रं न प॑रि॒ष्ठास्ति॑ ते भव स॒द्यः सर्वा॒न्परि॑ पश्यसि॒ भूमिं॒ पूर्व॑स्माद्धं॒स्युत्त॑रस्मिन्समु॒द्रे ॥
मा नो॑ रुद्र त॒क्मना॒ मा वि॒सेण॒ मा नः॒ सं स्रा॑ दि॒व्येना॒ग्निना॑ । अ॒न्यत्रा॒स्मद्वि॒द्युतं॑ पातयै॒ताम् ॥
भ॒वो दि॒वो भ॒व ई॑शे पृथि॒व्या भ॒व आ प॑प्र उ॒र्व॒न्तरि॑क्षम् । तस्मै॒ नमो॑ यत॒मस्यां॑ दि॒शीतः ॥
भव॑ रज॒न्यज॑मानाय मृड पशू॒नां हि प॑शु॒पति॑र्ब॒भूथ॑ । यः श्र॒द्दधा॑ति॒ सन्ति॑ दे॒वा इति॒ चतु॑ष्पदे द्वि॒पदे॑ ऽस्य मृड ॥
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा नो॒ वह॑न्तमु॒त मा नो॑ वक्ष्य॒तः । मा नो॑ हिंसीः पि॒तरं॑ मा॒तरं॑ च॒ स्वां त॒न्वं॑ रुद्र॒ मा री॑रिसो नः ॥
रु॒द्रस्यै॑लबका॒रेभ्यो॑ ऽसंसूक्तगि॒लेभ्यः॑ । इ॒दं म॒हास्ये॑भ्यः॒ श्वभ्यो॑ अकरं॒ नमः॑ ॥
नम॑स्ते घो॒षिणी॑भ्यो॒ नम॑स्ते के॒शिनी॑भ्यः । नमो॒ नम॑स्कृताभ्यो॒ नमः॑ संभुञ्ज॒तीभ्यः॑ । नम॑स्ते देव॒ सेना॑भ्यः स्व॒स्ति नो॒ अभ॑यं च नः ॥

प्रा॒णाय॒ नमो॒ यस्य॒ सर्व॑मि॒दं वशे॑ । यो भू॒तः सर्व॑स्येश्व॒रो यस्मि॒न्त्सर्वं॒ प्रति॑ष्ठितम् ॥
नम॑स्ते प्राण॒ क्रन्दा॑य॒ नम॑स्ते स्तनयि॒त्नवे॑ । नम॑स्ते प्राण वि॒द्युते॒ नम॑स्ते प्राण॒ वर्ष॑ते ॥
यत्प्रा॒ण स्त॑नयि॒त्नुना॑भि॒क्रन्द॒त्योष॑धीः । प्र वी॑यन्ते॒ गर्भा॑न्दध॒ते ऽथो॑ ब॒ह्वीर्वि जा॑यन्ते ॥
यत्प्रा॒ण ऋ॒तावाग॑ते ऽभि॒क्रन्द॒त्योष॑धीः । सर्वं॑ त॒दा प्र मो॑दते॒ यत्किं च॒ भूम्या॒मधि॑ ॥
य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीं म॒हीम् । प॒शव॒स्तत्प्र मो॑दन्ते॒ महो॒ वै नो॑ भविष्यति ॥
अ॒भिवृ॑ष्टा॒ ओष॑धयः प्रा॒णेन॒ सम॑वादिरन् । आयु॒र्वै नः॒ प्राती॑तरः॒ सर्वा॑ नः सुर॒भीर॑कः ॥
नम॑स्ते अस्त्वाय॒ते नमो॑ अस्तु पराय॒ते । नम॑स्ते प्राण॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नमः॑ ॥
नम॑स्ते प्राण प्राण॒ते नमो॑ अस्त्वपान॒ते । प॑रा॒चीना॑य ते॒ नमः॑ प्रती॒चीना॑य ते॒ नमः॒ सर्व॑स्मै त इ॒दं नमः॑ ॥
या ते॑ प्राण प्रि॒या त॒नूर्यो ते॑ प्राण॒ प्रेय॑सी । अथो॒ यद्भे॑ष॒जं तव॒ तस्य॑ नो धेहि जी॒वसे॑ ॥
प्रा॒णः प्र॒जा अनु॑ वस्ते पि॒ता पु॒त्रमि॑व प्रि॒यम् । प्रा॒णो ह॒ सर्व॑स्येश्व॒रो यच्च॑ प्रा॒णति॒ यच्च॒ न ॥ 
प्रा॒णो मृ॒त्युः प्रा॒णस्त॒क्मा प्रा॒णं दे॒वा उपा॑सते । प्रा॒णो ह॑ सत्यवा॒दिन॑मुत्त॒मे लो॒क आ द॑धत् ॥
प्रा॒णो वि॒राट्प्रा॒णो देष्ट्री॑ प्रा॒नं सर्व॒ उपा॑सते । प्रा॒णो ह॒ सूर्य॑श्च॒न्द्रमाः॑ प्रा॒णमा॑हुः प्र॒जाप॑तिम् ॥
प्रा॑णापा॒नौ व्री॑हिय॒वाव॑न॒ड्वान्प्रा॒ण उ॑च्यते । यवे॑ ह प्रा॒ण आहि॑तो ऽपा॒नो व्री॒हिरु॑च्यते ॥
अपा॑नति॒ प्राण॑ति॒ पुरु॑षो॒ गर्भे॑ अन्त॒रा । य॒दा त्वं प्रा॑ण॒ जिन्व॒स्यथ॒ स जा॑यते॒ पुनः॑ ॥
प्रा॒णं आ॑हुर्मात॒रिश्वा॑नं॒ वातो॑ ह प्रा॒ण उ॑च्यते । प्रा॒णे ह॑ भू॒तं भव्यं॑ च प्रा॒णे सर्वं॒ प्रति॑ष्ठितम् ॥
आ॑थर्व॒णीरा॑ङ्गिर॒सीर्दै॒वीर्म॑नुष्य॒जा उ॒त । ओष॑धयः॒ प्र जा॑यन्ते य॒दा त्वं प्रा॑ण॒ जिन्व॑सि ॥
य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीम्म॒हीम् । ओष॑धयः॒ प्र जा॑य॒न्ते ऽथो॒ याः काश्च॑ वी॒रुधः॑ ॥
यस्ते॑ प्राणे॒दं वे॑द॒ यस्मिं॑श्चासि॒ प्रति॑ष्ठितः । सर्वे॒ तस्मै॑ ब॒लिं ह॑रान॒मुष्मिं॑ल्लो॒क उ॑त्त॒मे ॥
यथा॑ प्राण बलि॒हृत॒स्तुभ्यं॒ सर्वाः॑ प्र॒जा इ॒माः । ए॒वा तस्मै॑ ब॒लिं ह॑रा॒न्यस्त्वा॑ शृ॒णव॑त्सुश्रवः ॥
अ॒न्तर्गर्भ॑श्चरति दे॒वता॒स्वाभू॑तो भू॒तः स उ॑ जायते॒ पुनः॑ । स भू॒तो भव्यं॑ भवि॒ष्यत्पि॒ता पु॒त्रं प्र वि॑वेशा॒ शची॑भिः ॥ 
एकं॒ पादं॒ नोत्खि॑दति सलि॒लाद्धं॒स उ॒च्चर॑न् । यद॒ङ्ग स तमु॑त्खि॒देन्नैवाद्य न श्वः स्या॑त् । न रात्री॒ नाहः॑ स्या॒न्न व्यु॑छेत्क॒दा च॒न ॥
अ॒ष्टाच॑क्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॒श्चा । अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क॑त॒मः स के॒तुः ॥
यो अ॒स्य वि॒श्वज॑न्मन॒ ईशे॒ विश्व॑स्य॒ चेष्ट॑तः । अन्ये॑षु क्षि॒प्रध॑न्वने॒ तस्मै॑ प्राण॒ नमो॑ ऽस्तु ते ॥
यो अ॒स्य स॒र्वज॑न्मन॒ ईशे॒ सर्व॑स्य॒ चेष्ट॑तः । अत॑न्द्रो॒ ब्रह्म॑णा॒ धीरः॑ प्रा॒णो मानु॑ तिष्ठातु ॥
ऊ॒र्ध्वः सु॒प्तेषु॑ जागार न॒नु ति॒र्यङ्नि प॑द्यते । न सु॒प्तम॑स्य सु॒प्तेष्वनु॑ शुश्राव॒ कश्च॒न ॥
प्राण॒ मा मत्प॒र्यावृ॑तो॒ न मद॒न्यो भ॑विष्यसि । अ॒पां गर्भ॑मिव जी॒वसे॒ प्राण॑ ब॒ध्नामि॑ त्वा॒ मयि॑ ॥

अ॒ग्निम्ब्रू॑मो॒ वन॒स्पती॒नोष॑धीरु॒त वी॒रुधः॑ । इन्द्रं॒ बृह॒स्पतिं॒ सूर्यं॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
ब्रू॒मो राजा॑नं॒ वरु॑णं मि॒त्रं विष्णु॒मथो॒ भग॑म् । अंशं॒ विव॑स्वन्तं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सह् ॥
ब्रू॒मो दे॒वं स॑वि॒तारं॑ धा॒तार॑मु॒त पू॒षण॑म् । त्वष्टा॑रमग्रि॒यं ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सह् ॥
ग॑न्धर्वाप्स॒रसो॑ ब्रूमो अ॒श्विना॒ ब्रह्म॑ण॒स्पति॑म् । अ॑र्य॒मा नाम॒ यो दे॒वस्ते॑ नो मुञ्च॒न्त्वंह॑सः ॥
अ॑होरा॒त्रे इ॒दं ब्रू॑मः सूर्याचन्द्र॒मसा॑वु॒भा । विश्वा॑नादि॒त्यान्ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
वातं॑ ब्रूमः प॒र्जन्य॑म॒न्तरि॑क्ष॒मथो॒ दिशः॑ । आशा॑श्च॒ सर्वा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
मु॒ञ्चन्तु॑ मा शप॒थ्या॑दहोरा॒त्रे अथो॑ उ॒षाः । सोमो॑ मा दे॒वो मु॑ञ्चतु॒ यमा॒हुश्च॒न्द्रमा॒ इति॑ ॥
पार्थि॑वा दि॒व्यः प॒शव॑ आर॒ण्या उ॒त ये मृ॒गाः । श॒कुन्ता॑न्प॒क्षिनो॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
भ॑वाश॒र्वावि॒दं ब्रू॑मो रु॒द्रं प॑शु॒पति॑श्च॒ यः । इषू॒र्या ए॑षां संवि॒द्म ता नः॑ सन्तु॒ सदा॑ शि॒वाः ॥
दिवं॑ ब्रूमो॒ नक्ष॑त्राणि॒ भूमिं॑ य॒क्षाणि॒ पर्व॑तान् । स॑मु॒द्रा न॒द्यो॑ वेश॒न्तास्ते नो॑ मुञ्च॒न्त्वम्ह॑सः ॥
सप्त॒र्षीन्वा इ॒दं ब्रू॑मो॒ ऽपो दे॒वीः प्र॒जाप॑तिम् । पि॒तॄन्य॒मश्रे॑ष्ठान्ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये । पृ॑थि॒व्यां श॒क्रा ये श्रि॒तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
आ॑दि॒त्या रु॒द्रा वस॑वो दि॒वि दे॒वा अथ॑र्वानः । अङ्गि॑रसो मनी॒षिण॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

स॒त्यं बृ॒हदृ॒तमु॒ग्रं दी॒क्षा तपो॒ ब्रह्म॑ य॒ज्ञः पृ॑थि॒वीं धा॑रयन्ति । सा नो॑ भू॒तस्य॒ भव्य॑स्य॒ पत्न्यु॒रुं लो॒कं पृ॑थि॒वी नः॑ कृणोतु ॥
अ॑संबा॒धं म॑ध्य॒तो मा॑न॒वानां॒ यस्या॑ उ॒द्वतः॑ प्र॒वतः॑ स॒मं ब॒हु । नाना॑वीर्या॒ ओष॑धी॒र्या बिभ॑र्ति पृथि॒वी नः॑ प्रथतां॒ राध्य॑तां नः ॥

गि॒रय॑स्ते॒ पर्व॑ता हि॒मव॒न्तो ऽर॑ण्यं ते पृथिवि स्यो॒नम॑स्तु । ब॒भ्रुं कृ॒ष्णाम्रोहि॑णीं वि॒श्वरू॑पां ध्रु॒वां भूमिं॑ पृथि॒वीमिन्द्र॑गुप्ताम् । अजी॒तो ऽह॑तो॒ अक्ष॒तो ऽध्य॑ष्ठाम्पृथि॒वीमह॑म् ॥
यत्ते॒ मध्यं॑ पृथिवि॒ यच्च॒ नभ्यं॒ यास्त॒ ऊर्ज॑स्त॒न्वः॑ संबभू॒वुः । तासु॑ नो धेह्य॒भि नः॑ पवस्व मा॒ता भूमिः॑ पु॒त्रो अ॒हं पृ॑थि॒व्याः प॒र्जन्यः॑ पि॒ता स उ॑ नः पिपर्तु ॥
यास्ते॒ प्राचीः॑ प्र॒दिशो॒ या उदी॑ची॒र्यास्ते॑ भूमे अध॒राद्याश्च॑ प॒श्चात् । स्यो॒नास्ता मह्यं॒ चर॑ते भवन्तु॒ मा नि प॑प्तं॒ भुव॑ने शिश्रिया॒णः ॥
मा नः॑ प॒श्चान्मा पु॒रस्ता॑न्नुदिष्ठा॒ मोत्त॒राद॑ध॒रादु॒त । स्व॒स्ति भू॑मे नो भव॒ मा वि॑दन्परिप॒न्थिनो॒ वरी॑यो यावया व॒धम् ॥
ग्री॒ष्मस्ते॑ भूमे व॒र्षाणि॑ श॒रद्धे॑म॒न्तः शिशि॑रो वस॒न्तः । ऋ॒तव॑स्ते॒ विहि॑ता हाय॒नीर॑होरा॒त्रे पृ॑थिवि नो दुहाताम् ॥
उ॑प॒स्थास्ते॑ अनमी॒वा अ॑य॒क्ष्मा अ॒स्मभ्यं॑ सन्तु पृथिवि॒ प्रसू॑ताः । दी॒र्घं न॒ आयुः॑ प्रति॒बुध्य॑माना व॒यं तुभ्यं॑ बलि॒हृतः॑ स्याम ॥
भूमे॑ मात॒र्नि धे॑हि मा भ॒द्रया॒ सुप्र॑तिष्ठितम् । सं॑विदा॒ना दि॒वा क॑वे श्रि॒यां मा॑ धेहि॒ भूत्या॑म् ॥

स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑ । मा मा॑ हासीन्नाथि॒तो नेत्त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि ॥
मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑ । मान्त स्थु॑र्नो॒ अरा॑तयः ॥
यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः । तमाहु॑तमशीमहि ॥

तस्मै॒ प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद्भ॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥  
भव॑ एनमिष्वा॒सः प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति ॥
नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
तस्मै॒ दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
श॒र्व ए॑नमिश्वा॒सो दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
तस्मै॑ प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शात्प॑शु॒पति॑मिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
प॑शु॒पति॑रेनमिष्वा॒सः प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेश॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
तस्मै॑ प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शात्प॑शु॒पति॑मिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
प॑शु॒पति॑रेनमिष्वा॒सः प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेश॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
तस्मै॑ ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद्रु॒द्रमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
रु॒द्र ए॑नमिष्वा॒सो ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न॑ भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
तस्मा॑ ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शान्म॑हादे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
म॑हादे॒व ए॑नमिष्वा॒स ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
तस्मै॒ सर्वे॑भ्यो अन्तर्दे॒शेभ्य॒ ईशा॑नमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
ईशा॑न एनमिष्वा॒सः सर्वे॑भ्यो अन्तर्दे॒शेभ्यो॑ ऽनुष्ठा॒तानु॑ तिष्ठति ॥
नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥ 

(Disclaimer: Freely copied and edited from https://sanskritdocuments.org/doc_veda/veda_anukriti.xlsx. I acknowledge the author, Sri Jitendra Bansal for his monumental work. I do not intend to reap any profit by blogging this collection, It is blogged with the sole intention of spreading the lesser known and apparently lost traditions of veda in general and atharva veda to be specific)