Tuesday, June 5, 2018

Sama veda sandya vandana mantra pata

आचमनम्
प्राणायामम्
सङ्कल्पम्

ॐ आपोहिष्ठेति तिसृणां सिन्धुद्विप ऋषिः गायात्रिछ्न्दः
आपोदेवता मार्जने विनियोगः ॥

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ १०.९.१-३
यो व: शिवतमो रसस्तस्य भाजयतेह न: । उशतीरिव मातर: ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥

तरत्स मन्दीत्येषां वामदेव ऋषिः गायत्री छन्दः सोमो देवता मार्जने विनियोगः
तरत्स मन्दी धावति धारा सुतस्यान्धसः। तरत्स मन्दी धावति॥१०५७
उस्रा वेद वसूनां मर्त्तस्य देव्यवसः। तरत्स मन्दी धावति॥१०५८
ध्वस्रयो पुरुषन्त्योरा सहस्राणि दद्महे। तरत्स मन्दी धावति॥१०५९

प्राशनम्
प्रातः
अहस्चेत्यस्य मन्त्रस्य प्रजापति ऋषिः गायत्रि छन्द: अहरादित्यो देवता तीर्थ प्राशने विनियोगः
अहश्च मादित्यश्च पुनातु स्वाहा ।।

माध्याह्निकम्
आपःपुनन्त्विति अनुवाकस्य आपः ऋषि: गायत्री छन्दः ब्रह्मणस्पतिर्देवता अपां प्राशने विनियोगः
ॐ आपः पुनन्तु पृथवीं पृथवीपूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ह्मपूता पुनातु माम् ॥
यदुच्छिष्टमभोज्यं च यद्वादुश्चरितं मम, सर्वां पुनन्तु मामापो सताञ्च प्रतिग्रहꣳस्वाहा ॥

सायम् प्राशनम्
रात्रिश्चेत्यस्य प्रजापति ऋषिः गायत्री छन्दः रात्रि वरुणौ देवते प्राशने विनियोगः।।
रात्रिश्च मा वरुणश्च पुनातु स्वाहा ।।



पुनर्प्रोक्षणम्
दधिक्रानण्णेति मन्त्रस्य वामदेव ऋषिः अनुष्टुप् छन्दः दधिग्रावादेवता अपां प्रोक्षणे विनियोगः
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन। सुरभि नो मुखा करत्प्र न आयूषि तारिषत्॥३५८
ओ३म् आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ १०.९.१-३
ओ३म् यो व॑: शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥
ओ३म् तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥

अर्घ्यम्
अर्घ्यप्रदान मन्त्रस्य विश्वामित्र ऋषि: देवीगायत्री छन्दः सविता देवता अर्घ्यप्रदाने विनियोगः
ॐ भूर्भुवस्सुव: तत्सवितुर्वरेण्यम् भर्गोदेवस्य धीमहि धियोयोनःप्रचोदयात्
(प्रतः ३, मध्याह्निकम्: १, सायम्: ३)

प्रायश्चित्तार्घ्यम्
प्रात:
यदद्य इतिमन्त्रस्य शौनक ऋषिः गायत्री छन्दः सूर्यो देवता  प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।।
 यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य। सर्वं तदिन्द्र ते वशे॥१२६
माध्याह्निक
उद्धेदभि इतिमन्त्रस्य श्रुतकक्ष ऋषिः गायत्री छन्दः सूर्यो देवता  प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।।
उद्धेदभि श्रुतामघं वृषमं नर्यापसम्। अस्तारमेषि सूर्य॥ (१४५०)
सायम्
नतस्य इत्यस्य मन्त्रस्य विश्वमनाः ऋषीः। उष्णिक् छन्दः । अग्निर्देवता । प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।।
न तस्य मायया च न रिपुरीशीत मर्त्य। यो अग्नये ददाश हव्यदातये॥१०४

तर्पणाम्
(यथा सम्प्रदायम्)

गायत्रि जपम् [प्राणायमम्,आवाहनम्, जपम्, उद्वासनम्]

उपस्थानम् :
प्रातरुपस्थानम्
यशोहं भवामि ब्राह्मणानाम् । यशो राज्ञाम् । यशो विशाम । यशःसत्यस्यभवामि । भवामि यशसां यशः । पुनर्मायन्तु देवता । यामद पचक्रमुः । महस्वन्तो महान्तोभवामि । अस्मिन् पात्रेहरिते सोम प्रुष्ठे । रूपरूपं मे दिश । प्रातरन्हस्य तेजसः ।
अन्न मुग्रस्य प्राशिषम् । अस्तु त्वयि मयीदम् । यदिदं पश्यामि चक्षुषा । त्वया दत्तं प्रभास्या । तेनमाभुञ्ज । तेन भुच्षिषीय । तेनमाविशा । अहर्नो अत्यपीपरत् । रात्रिर्नो अतिपारयत् ।
आदित्य नाव मारोक्षम् । पूर्णा परिपादिनीम् । अच्छिद्राम् पारयिष्णवीम् । शतारित्रांस्वस्तये । ॐ नम आदित्याय । नम आदित्याय । नम आदित्याय । उद्यन्तं त्वादित्य अनुदियासम् ।।



माध्याह्निक उपस्थानम्

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्ने। आप्रा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च॥ (६२९)
वृक्ष इव पकवस्तिष्ठसि सर्वान् कामान् भुवस्पते । यस्त्वैवं वेद तस्मै मे भोगान् धुक्ष्व अक्षतान् बृहन् ।।
ऋतं सत्यो प्रतिष्ठितं भूतं भविष्यता सह । आकाश उपनिरज्जतु मह्यमन्नं अथो श्रियम् ।।
अभिभागोसि सर्वस्मिन् तदुसर्वं त्वयिश्रियम् । तेन सर्वो माविवासन विवसाय ।।
कोश इव पूर्णो वसुनात्वं प्रीतो ददसे धनम् । अदृष्टो दृष्टमा भर सर्वान् कामान् प्रयच्छमे ।।
आकाशस्य एष आकाशः यदेतद्भाति मण्डलम् । अवं त्वा वेद योवेद ईशानेशान् प्रयच्छ मे ।।
ॐ भूर्भुवस्सुवरोम् ।
सूर्य इव दृशोभूयासम् । अग्निरिव तेजसा । वायुरिव प्राणेन । सोम इव गन्धेन । बृहस्पतिरिव बुध्या । अश्विनाविव रूपेण । इन्द्राग्नी इव बलेन । ब्रह्म भाग एव अहं भूयासम् । पाप्म भागामे द्विषन्तः ।।

सायम् उपस्थानम्:
यशोहं भवामि ब्राह्मणानाम् । यशो राज्ञाम् । यशो विशाम् । यशः सत्यस्य भवामि ।
भवामि यशसां यशः । पुनर्मायन्तु देवता । यामद पचक्रमुः । महस्वन्तो महान्तोभवामि ।
अस्मिन् पात्रे हरिते सोम प्रुष्ठे । रूपरूपं मे दिश ।
सायमन्हस्य तेजस ।
अन्न मुग्रस्य प्राशिषम् । अस्तु मयि त्वयीदम् । अस्तु त्वयि मयीदम् । यदिदं पश्यामि चक्षुषा । त्वया दत्तं प्रभासया । तेनमाभुञ्ज । तेन भुच्षिषीय । तेनमाविशा । रात्रिर्नो अत्यपीपरत् । अहर्नो अतिपारयत् ।
आदित्यानाव मारोक्षम् पूर्णा आपरिपादिनीम् । अच्छिद्राम् पारयिष्णवीम् । शतारित्रांस्वस्तये । ॐ नम आदित्याय । नम आदित्याय । नम आदित्याय । प्रतितिष्ठन्त त्वादित्य अनप्रतितिष्ठासम्।।

सन्ध्यादि देवता वन्दनम्
अभिवादनम्
सूर्य ध्यानम्
अभिवादनम्
अर्पणम्

No comments:

Post a Comment